| YouTube Channel

दह (daha)

 
शब्दसागरः
English
दह (औ) दहौ r. 1st cl. (दहति) To burn or reduce to ashes. (इ) दहि r.
10th cl. (दंहयति-ते)
1. To shine.
2. To burn. भ्वा० सक० प० अनिट्
दीप्तौ अक० दाहे सक० चु० उभ० सेट् इदित्
Wilson
English
दह (औ) दहौ r. 1st cl. (दहति) To burn or reduce to
ashes. (इ) दहि r. 10th cl. (दंहयति)
1 To shine.
2 To burn.
Shabdartha Kaustubha
Kannada
दह - भस्मीकरणे (भ्वा० पर० सक० अनि०) दहति
पदविभागः - > धातुः
कन्नडार्थः - > ದಹಿಸು /ಸುಡು
प्रयोगाः - > "एकमेव दहत्यग्निर्नरं दुरुपसर्पिणम् कुलं दहति राजाग्निः सपशुद्रद्रव्यसञ्चयम् ॥"
उल्लेखाः - > मनु० ७-९
भूतसङ्ख्या
Sanskrit
३, अग्नि, अनल, आज्यभुक्, आज्याश, उषर्बुध, काल, कृशानु, कृष्णवर्त्मन्, क्रम, गुण, गुप्ति, जगत्, ज्योति, ज्वलन, ज्वाल, तपन, तृतीय, त्रय, त्रिकटु, त्रिकाल, त्रिगत, त्रिगुण, त्रिजगत्, त्रिनेत्र, त्रिपदी, त्रैत, दह, दहन, दीप्ति, द्युति, धाम, नेत्र, पद, पावक, पुं, पुर, पुरुष, पुष्कर, ब्रह्मन्, भुवन, रत्न, राम, रुद्राक्ष, रोहित, लोक, लोचन, वचन, वह्नि, विक्रम, विष्णु, विष्णुक्रम, वृत्त, वैश्वानर, शक्ति, शिखा, शिखिन्, शिवनेत्र, शूल, सप्तार्चि, सहोदर, हरनयन, हरनेत्र, हव्यभुक्, हव्यवाहन, हव्याश, हुतभुज्, हुतवह, हुताश, हुताशन, होतृ
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
दह्
मूलधातुः:
दह
धात्वर्थः:
भस्मीकरणे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
अनिट्
उपग्रहः:
परस्मैपदी
रूपम्:
दहति
धातुप्रदीपः
Sanskrit
दहँ दह भस्मीकरणे
- दहति ददाह धक्ष्यति अधाक्षीत् दग्ध्वा दग्धुम् काष्ठधक् ।। 999 ।।
पुराणम्
English
दह / DAHA I. One of the eleven Rudras. He was the grandson of brahmā and the son of sthāṇu. (mahābhārata, Ādi Parva, Chapter 66, Stanza 3).
दह / DAHA II. An attendant given to subrahmaṇya by aṁśa, a god. (mahābhārata, śalya Parva, Chapter 45, Stanza 34).
शब्दकल्पद्रुमः
Sanskrit
दह, दाहे इति कविकल्पद्रुमः
(भ्वां-परं-सकं-अनिट् ।) औ, अधाक्षीत् दाहो भस्मी-करणम् दहत्यग्निः काष्ठम् इति दुर्गादासः
दह, दीप्तौ दाहे इति कविकल्पद्रुमः
(चुरां-परं-दीप्तौ अकं-दाहे सकं-सेट् ।) क, दंहयति इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
दह दीप्तौ अक० दाहे
सक०
चु०
उभ०
सेट् इदित् दंहयतिते अददंहत्
दह दाहे भस्मीकरश्चे
सक०
भ्वा०
प० अनिट् दहति अधाक्षीत्ददाह देहतुः दग्धा दह्यात् धक्ष्यति दग्धःदग्धिः दग्ध्वा दग्धव्यः दहनीयः दाह्यः दाहःदहनम् दाहयति अददीहत् दिधक्षति“उष्णो दहति चाङ्गारः शीतः कृष्णायते करम्”हितो० “क्रुद्धं कुलं धक्ष्यति विप्रबह्निः” भट्टिः वृक्षान-ङ्गारकारीव मैनान् धाक्षीः समूलकान्” भा० स० ६० अ०“दृशा दग्धं मनसिजं जीवयन्ति दृशैव याः” सा० द० “देहंधारणयाग्नेय्या दग्ध्वा धामाविशत् स्वकम्” भाग०“दग्धव्योऽसौ कटाग्निना” सनुः “कर्म्मणि दह्यतेअदाहि देहे “दह्यते कुलं सर्वम्” चाणक्यः “देहेलङ्का मतेश्वरा” भट्टिः दंदह्यते “दंदह्यमानां शोकेन”भट्टिः
क्षीरतरङ्गिणी
Sanskrit
दहँ दह भस्मीकरणे
- दहति लुपसदचर (3124) इति यङ्-दन्दह्यते दादेर्घः (कारन्त्र 38 57) दग्धा, धक्ष्यति (द्र0 8237) न्यङ्क्वादौ (गण0 7353) दाघः, निदाघः, अवदाघो भक्ष्ये अवदाहोऽन्यः 962
धातुवृत्तिः
Sanskrit
दहँ दह (अर्थः) भस्मीकरणे
( दहति ददाह देहतुः देहिथ ददग्ध ) थलि भारद्वाजनियमादिड्विकल्पः तत्रानिट्पक्षे "दादेर्धातोर्घः'' "झषस्तथोऽर्धोधः, ''झलां जश् झशि'' इति घत्वधत्वजश्त्वानि ( दग्धा धक्ष्यति ) हकारस्य घत्वे "एकाचः'' इति भष्भावेन दकारस्य धकारे धकारस्य "खरि च'' इति चर्त्वं ( दहतु अदहत् दहेत् दह्यात् अधाक्षीत् ) घत्वादि पूर्ववत् अदाग्धाम्, झलि सिज्लोपः ( दंदह्यते ) "लुपसद'' इत्यादिना दण्डः "जपजभ'' इति नुक्, ( दंदग्धि दाहयति अदीदत् परिदाही ) घिनुण् ( निदाघः अवदाघः परिदाघः ) संज्ञायां मघमेघनिदाघावदाघा इति न्यङ्क्वादिपाठात् कुत्वं, दहनः 971
कृदन्तरूपमाला
Sanskrit
1 {@“दह भस्मीकरणे”@} 2 दाहकः-हिका, दाहकः-हिका, 3 दिधक्षकः-क्षिका, 4 दन्दहकः-दंदहकः-हिका
5 दग्धा-दग्ध्री, दाहयिता-त्री, दिधक्षिता-त्री, दन्दहिता-त्री
दहन्-न्ती, दाहयन्-न्ती, दिधक्षन्-न्ती, 6 दिधक्षयन् 7
-- 8 धक्ष्यन्-न्ती-ती, दाहयिष्यन्-न्ती-ती, दिधक्षिष्यन्-न्ती-ती
-- व्यतिदहमानः, दाहयमानः, -- दन्दह्यमानः
व्यतिधक्ष्यमाणः, दाहयिष्यमाणः, -- दन्दहिष्यमाणः
9 प्रधकू-प्रधगू-प्रदहौ-प्रदहः
-- -- -- दग्धम्-दग्धः-दग्धवान्, दाहितः, दिधक्षितः, दन्दहितः-तवान्
10 दहनः, 11 परिदाही, दाहः, दिधक्षुः, दन्दहः
दग्धव्यम्, दाहयितव्यम्, दिधक्षितव्यम्, दन्दहितव्यम्
दहनीयम्, 12 दहेलिमः, दाहनीयम्, दिधक्षणीयम्, दन्दहनीयम्
13 दाह्यम्, दाह्यम्, दिधक्ष्यम्, दन्दह्यम्
ईषद्दहः-दुर्दहः-सुदहः
-- -- -- दह्यमानः, दाह्यमानः, दिधक्ष्यमाणः, दन्दह्यमानः
दाहः, 14 निदाघः 15 -अवदाघः, दाहः, दिधक्षः, दन्दहः
दग्धुम्, दाहयितुम्, दिधक्षितुम्, दन्दहितुम्
दग्धिः, दाहना, दिधक्षा, दन्दहा
दहनम्, दाहनम्, दिधक्षणम्, दन्दहनम्
दग्ध्वा, दाहयित्वा, दिधक्षित्वा, दन्दहित्वा
प्रदह्य, प्रदाह्य, प्रदिधक्ष्य, प्रदन्दह्य
दाहम् २, दग्ध्वा २, दाहम् २, दाहयित्वा २, दिधक्षम् २, दिधक्षित्वा २, दन्दहम्
दन्दहित्वा
16 इत्यादिना रक्प्रत्ययः।
दह्रः = अग्निः सूर्यो वा।]] दह्रः।
प्रासङ्गिक्यः
01
=>
(८२९)
02
=>
(१-भ्वादिः-९९१। सक। अनि। पर।)
03
=>
[[१। ‘दादेर्धातोर्घः’ (८-२-३२) इति हकारस्य घत्वे, ‘एकाचो बशो भष् झषन्तस्य स्ध्वोः’ (८-२-३७) इति भष्भावेन दकारस्य धकारे, ‘खरि च’ (८-४-५५) इति चर्त्वे, षत्वे च, दिधक्षकः इति रूपम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
04
=>
[[२। ‘लुपसदचरजपजभदहदशगॄभ्यो भावगर्हायाम्’ (३-१-२४) इति यङ् भावगर्हायाम्। ‘जपजभदहदशभञ्जपशां च’ (७-४-८६) इति अभ्यासस्य नुगागमः। ‘स पदान्तवद् वाच्यः’ (वा। ७-४-८५) इति पदान्तवद्भावेन, ‘वा पदान्तस्य’। (८-४-५९) इति परसवर्णविकल्पः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
05
=>
[[३। तृचि, घत्वधत्वजश्त्वानि भवन्ति। एवमेव तव्यदादिष्वपि प्रक्रियोह्या।]]
06
=>
[[४। सन्नन्ताण्णिचि शतरि रूपमेवम्। ‘स्याच्छुद्धा प्रकृतिर्ण्यन्ता सन्नन्ता णिचि सन्परा। यङन्ता यङ्लुगन्ता नातोऽन्या निष्प्रयोजना।।’ इति क्षीरस्वाम्युक्तमिह ध्येयम्।]]
07
=>
[[आ। ‘तं सुस्थयन्तः सचिवा नरेन्द्रं दिधक्षयन्तः समुदूहुरारात्।’ भ। का। ३। ३३।]]
08
=>
[[५। घत्वचर्त्वभष्भावषत्वेषु रूपमेवम्।]]
09
=>
[[६। क्विपि, घत्वभष्भावचर्त्वजश्त्वेषु रूपमेवम्।]]
10
=>
[[७। नन्द्यादेः (३-१-१३४) आकृतिगणत्वात् कर्तरि ल्युः। दहनः = अग्निः।]]
11
=>
[[८। ‘सम्पृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदह--’ (३-२-१४२) इत्यादिना तच्छीलादिषु कर्तृषु घिनुण्प्रत्ययो भवति।]]
12
=>
[[९। ‘केलिमर उपसंख्यानम्’ (वा। ३-१-९६) इति भावकर्मणोः केलिमर् प्रत्ययः।]]
13
=>
[पृष्ठम्०७३१+ २८]
14
=>
[[१। नितरां दहतीति निदाघः। घञि, न्यङ्क्वादिषु (७-३-५३) ‘संज्ञायां मेघनि- दाघावदाघार्घाः’ (ग। सू। ७-३-५३) इति वचनात् कुत्वम्। निदाघः = ग्रीष्मः। अवदाघः = भक्ष्यविशेषः। असंज्ञायां तु निदाहः, अवदाहः इत्येव भवति।]]
15
=>
[[आ। ‘कृत्वा कृत्यं दशनांशुगौरं कृष्णं ययौ दैत्यनिदाघमेघम्।।’ धा। का। २। ४०।]]
16
=>
[[२। ‘स्फायितञ्चि--’ [द। उ। ८। ३१]