| YouTube Channel

आसवः (AsavaH)

 
Apte
English
आसवः [āsavḥ], [आ सु-अण्]
Distillation.
Decoction.
Any spirituous liquor (distilled from sugar, molasses
&c.
)
अनासवाख्यं करणं मदस्य
Ku.*
1.13
कुमारी˚, द्राक्षा˚
&c.
यच्च पक्वैषधाम्बुभ्यां सिद्धं मद्यं आसवः Bhāva.
P.
Mādhava, however, seems to differ and says, शीधुरिक्षुरसैः पक्वैरपक्वै- रासवो भवेत् मैरेयं धातकीपुष्पैर्गुडधानाम्लसंहितम्
आसवरागताम्रम्
Ki.*
16.46.
A vessel for liquor.
Exciting.Comp. -द्रुः [आसवस्य कारणं द्रुः शाक˚ त˚]
N.
of the Palmyra tree (the juice of which, on fermenting, forms a spirituous liquor).
Apte 1890
English
आसवः [आ सु-अण्] 1 Distillation.
2 Decoction.
3 Any spirituous liquor (distilled from sugar, molasses &c.)
अनासवाख्यं करणं मदस्य Ku. 1. 31
कुमारी°, द्राक्षा° &c
यच्च पक्वौषधांबुभ्यां सिद्धं मद्यं आसवः Bhāva P.
4 A vessel for liquor.
5 Exciting.
Comp.
द्रुः [आसवस्य कारणं द्रुः शाक° त°] N. of the Palmyra tree (the juice of which, on fermenting, forms a spirituous liquor).
Apte Hindi
Hindi
आसवः
पुं*
- आ+सु+अण्
अर्क
आसवः
पुं*
- आ+सु+अण्
काढ़ा
आसवः
पुं*
- आ+सु+अण्
मद्यनिष्कर्ष
Wordnet
Sanskrit
Synonyms:
आसवः
noun
फलान् निष्पीड्य निर्मितः एकः मद्यविशेषः।
"आसवः तावत् मादकः भवति।"
Synonyms:
आसवः
noun
उत्तेजकः बलवर्धकः वा पदार्थः।
"वैद्येन दत्तेन आसवेन तस्य दुर्बलता नष्टा जाता।"
Synonyms:
सीधुः, शीधुः, मैरेयम्, आसवः
noun
गुडजन्यमद्यम्।
"उद्याने उपविष्टाः कर्मकराः सीधुं पिबन्ति।"
Synonyms:
मद्यम्, सुरा, मदिरा, वारुणी, हलिप्रिया, हाला, परिश्रुत्, वरुणात्मजा, गन्धोत्तमा, प्रसन्ना, इरा, कादम्बरी, परिश्रुता, कश्यम्, मानिका, कपिशी, गन्धमादनी, माधवी, कत्तोयम्, मदः, कापिशायनम्, मत्ता, सीता, चपला, कामिनी, प्रिया, मदगन्धा, माध्वीकम्, मधु, सन्धानम्, आसवः, अमृता, वीरा, मेधावी, मदनी, सुप्रतिभा, मनोज्ञा, विधाता, मोदिनी, हली, गुणारिष्टम्, सरकः, मधूलिका, मदोत्कटा, महानन्दा, सीधुः, मैरेयम्, बलवल्लभा, कारणम्, तत्वम्, मदिष्ठा, परिप्लुता, कल्पम्, स्वादुरसा, शूण्डा, हारहूरम्, मार्द्दीकम्, मदना, देवसृष्टा, कापिशम्, अब्धिजा
noun
मादकद्रवपदार्थः - यस्य सेवनं पापं तथा निन्दनीयम् इति मन्यन्ते।
"सः प्रतिदिनं सायङ्काले मद्यं पीत्वा गृहम् आगच्छति।"
Synonyms:
रसः, द्रवः, सारः, निर्यासः, आसवः
noun
वनस्पतिषु पुष्पपर्णादिषु वर्तमानः सः द्रवपदार्थः यः तान् निष्पीड्य स्त्रवति।
"नीम्बस्य रसस्य सेवनेन लेपनेन वा चर्मविकाराः उपशाम्यन्ति।"
शब्दकल्पद्रुमः
Sanskrit
आसवः,
पुं,
(आङ् + सुञ् + अप् ।) मद्यविशेषः ।तत्पर्य्यायः मैरेयं शीधुः इत्यमरः
“शीवुरिक्षुरसैः पक्वैरपक्वैरासवो भवेत् ।मैरेयं धातकीपुष्पगुडधानाम्लसंहितम्”
इति माधवेन भेदः कृतस्तथापि सूक्ष्ममनादृत्ये-दमुक्तम् इति भरतः
मद्यमात्रम् इतिराजनिर्घण्टः
(यथा भनुः ११ ९५ ।“यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवं ।तद्ब्राह्मणेन नात्तव्यं देवानामश्नता हरिः” ।)(“यदपक्वौषधाम्बुभ्यां सिद्धं मद्यं आसवः” ।इति शार्ङ्गधरः यथा भावप्रकाशे ।“आसवस्य गुणा ज्ञेया वीजद्रव्यगुणैः समाः” ।)आसवभेदेन गुणभेदो यथा
“छेदी मध्वासवस्तीक्ष्णो मेहपीनसकासजित्” ।“शार्करः सुरभिः स्वादुर्हृद्यो नातिमदो लघुः” ।इति वाभटः
“मुखप्रियः सुखमदः सुगन्धिर्वस्तिरोगनुत् ।जरणीयः परिणतो हृद्यो वर्ण्यश्च शार्करः”
“रोचनो दीपनो हृद्यः शोषशोफार्शसंहितः ।स्नेहश्लेष्मविकारघ्नो वर्ण्यः पक्वरसो मतः”
“मृष्टो भिन्नशकृद्वातो गौडस्तर्पणदीपनः ।छेदी मध्वासवस्तीक्ष्णो मैरेयो मधुरो गुरुः”
इति चरकः
तथा सुश्रुते
“तीक्ष्णः सुरासवो हृद्यो मूत्रलः कफवातनुत्
मुखप्रियः स्थिरमदो विज्ञेयोऽनिलनाशनः ।लघुर्मध्वासवश्छेदी मेहकुष्ठविषापहः
तिक्तः कषायः शोफघ्नस्तीक्ष्णः स्वादुरवातकृत् ।तीक्ष्णः कषायो मदकृद्दुर्नामकफगुल्महृत्
कृमिमेदोऽनिलहरो मैरेयो मधुरो गुरुः ।बल्यः पित्तहरो वर्ण्यो मृद्वीकेक्षुरसासवः”
)