| YouTube Channel

सीधुः (sIdhuH)

 
Chandas
Sanskrit
सम-वृत्तम्,
अक्षराणि-
44,
पादेऽक्षराणि-
11
मात्राः - 16
सङ्ख्याजातिः - त्रिष्टुभ्
मात्रा-विन्यासः
दा दा दा दा दा
लक्षण-मूलम् - आनन्दमिश्र-जालक्षेत्रम्
Wordnet
Sanskrit
Synonyms:
सीधुः, शीधुः, मैरेयम्, आसवः
noun
गुडजन्यमद्यम्।
"उद्याने उपविष्टाः कर्मकराः सीधुं पिबन्ति।"
Synonyms:
मद्यम्, सुरा, मदिरा, वारुणी, हलिप्रिया, हाला, परिश्रुत्, वरुणात्मजा, गन्धोत्तमा, प्रसन्ना, इरा, कादम्बरी, परिश्रुता, कश्यम्, मानिका, कपिशी, गन्धमादनी, माधवी, कत्तोयम्, मदः, कापिशायनम्, मत्ता, सीता, चपला, कामिनी, प्रिया, मदगन्धा, माध्वीकम्, मधु, सन्धानम्, आसवः, अमृता, वीरा, मेधावी, मदनी, सुप्रतिभा, मनोज्ञा, विधाता, मोदिनी, हली, गुणारिष्टम्, सरकः, मधूलिका, मदोत्कटा, महानन्दा, सीधुः, मैरेयम्, बलवल्लभा, कारणम्, तत्वम्, मदिष्ठा, परिप्लुता, कल्पम्, स्वादुरसा, शूण्डा, हारहूरम्, मार्द्दीकम्, मदना, देवसृष्टा, कापिशम्, अब्धिजा
noun
मादकद्रवपदार्थः - यस्य सेवनं पापं तथा निन्दनीयम् इति मन्यन्ते।
"सः प्रतिदिनं सायङ्काले मद्यं पीत्वा गृहम् आगच्छति।"
शब्दकल्पद्रुमः
Sanskrit
सीधुः,
पुं,
(शोधुः पृषोदरादित्वात् शस्य सः ।)मद्यम् इति शब्दरत्नावली
(यथा, देवी-भागवते २४ ६० ।“अशोकं कुरुराजानं पादघातविकाशितम् ।वकुलं सीधुसेकेन तथा कुरुवकं कुरु
”)मद्यभेदः इत्यमरः १० ४२
यथा, --“इक्षोः पक्वै रसः सिद्धः सीधुः पक्वरसश्च सः ।आमैस्तैरेव यः सोधुः शीतरसः स्मृतः
सीधुः पक्वरसः श्रेष्ठः स्वराग्निबलवणकृत् ।वातपित्तकरा हृद्यः स्नेहनो रोचनो हरेत्
विबन्धभेदशोफार्शः शोफोदरकफामयान् ।तस्मादल्पगुणः शीतरसः संलेखनः स्मृतः
”इति राजनिर्घण्टः
(यथा ।“सीधुः कषायाम्लकमाधुरो वासन्दीपनो भेदमलापहा ।आमातिसारानिलपित्तशूल-श्लेष्मामयार्शोग्रहणीगदघ्नः
”इति हारीते प्रथमे स्थाने ११ अध्यायः
)