आसव (Asava)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Spoken Sanskrit
Englishआसव - Asava - - exciting
आसव - Asava - - act of inciting
आसव - Asava - - rum
आसव - Asava - - nectar or juice of a flower
आसव - Asava - - distilling
आसव - Asava - - distillation
आसव - Asava - - nectar or juice of the lips
आसव - Asava - - juice
आसव - Asava - - decoction
आसव - Asava - - spirituous liquor in general
आसव - Asava - - spirituous liquor
आसव - Asava - - enlivening
आसव - Asava - - stimulation
आसव - Asava - - spirit distilled from sugar or molasses
आसव - Asava - - wine
Wilson
EnglishApte
Englishआसव [āsava], see under आसु.
आसवः [āsavḥ], [आ सु-अण्]
Distillation.
Decoction.
Any spirituous liquor (distilled from sugar, molasses )
अनासवाख्यं करणं मदस्य 1.13
कुमारी˚, द्राक्षा˚
यच्च पक्वैषधाम्बुभ्यां सिद्धं मद्यं स आसवः Bhāva. Mādhava, however, seems to differ and says, शीधुरिक्षुरसैः पक्वैरपक्वै- रासवो भवेत् । मैरेयं धातकीपुष्पैर्गुडधानाम्लसंहितम् ॥
आसवरागताम्रम् 16.46.
A vessel for liquor.
Exciting.Comp. -द्रुः [आसवस्य कारणं द्रुः शाक˚ त˚] of the Palmyra tree (the juice of which, on fermenting, forms a spirituous liquor).
Apte 1890
Englishआसवः [आ सु-अण्] 1 Distillation.
2 Decoction.
3 Any spirituous liquor (distilled from sugar, molasses &c.)
अनासवाख्यं करणं मदस्य Ku. 1. 31
कुमारी°, द्राक्षा° &c
यच्च पक्वौषधांबुभ्यां सिद्धं मद्यं स आसवः Bhāva P.
4 A vessel for liquor.
5 Exciting.
Comp.
द्रुः [आसवस्य कारणं द्रुः शाक° त°] N. of the Palmyra tree (the juice of which, on fermenting, forms a spirituous liquor).
Monier Williams Cologne
EnglishMonier Williams 1872
EnglishBenfey
EnglishApte Hindi
Hindiआसवः
- आ+सु+अण्
अर्क
आसवः
- आ+सु+अण्
काढ़ा
आसवः
- आ+सु+अण्
मद्यनिष्कर्ष
Shabdartha Kaustubha
Kannadaआसव
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಮದ್ಯ /ಸುರೆ
निष्पत्तिः - > आ + षूञ् (अभिषवे) - कर्म० "अप्" (३-३-५७)
व्युत्पत्तिः - > आसूयते
प्रयोगाः - > "नारिकेलासवं योधाः शात्रवं च पपुर्यशः"
उल्लेखाः - > रघु० ४-४२
आसव
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಬಟ್ಟಿ ಇಳಿಸುವಿಕೆ
निष्पत्तिः - > आ + षूञ् (अभिषवे) - भावे "अप्"
आसव
पदविभागः - > पुल्लिङ्गः
कन्नडार्थः - > ಬಟ್ಟಿ ಇಳಿಸುವ ಪಾತ್ರೆ
निष्पत्तिः - > आ + षूञ् (अभिषवे) - अधि० "अप्"
व्युत्पत्तिः - > आसूयतेऽत्र
L R Vaidya
EnglishBopp
LatinSanskrit Tibetan
Tibetankun skye
१) अवरोह २) आसव ३) उद्भूत ४) उपपत्ति
kun tu skye
अवरोह / आसव / उद्भूत / उपपत्ति
chang
१) आभोद २) आसव ३) गन्धमादनी ४) दैत्या ५) मद ६) मद्य ७) मधु ८) माधवी ९) मोढ १०) सुरा
अभिधानचिन्तामणिः
Sanskritमध्वासवे माधवको मैरेये शीधुरासवः ।
मध्वासव (पुं), माधवक (पुं), मैरेय (पुं), शीधु (पुं), आसव (पुं)
जगलो मेदको मद्यपङ्कः किण्वं तु नग्नहूः ॥ ९०४ ॥
नग्नहुर्मद्यबीजं च मद्यसंधानमासुतिः ।
आसवोऽभिषवो मद्यमण्डकारोत्तमौ समौ ॥ ९०५ ॥
जगल (पुं), मेदक (पुं), मद्यपङ्क (पुं), किण्व (क्ली), नग्नहू (पुं), नग्नहु (पुं), मद्यबीज (क्ली), मद्यसन्धान (क्ली), आसुति (स्त्री), आसव (पुं), अभिषव (पुं), मद्यमण्ड (क्ली), कारोत्तम (क्ली)
अभिधानरत्नमाला
Sanskritमध्वासव
मध्वासव, शीधु, सुरा, प्रसन्ना, परिस्रुता, मदिरा, मदिष्ठा, कादम्बरी, स्वादुरसा, शुण्डा, गन्धोत्तमा, माधवक, हाला, कल्य, कश्य, मद्य, मैरेय, कापिशायन, माध्वीक, आसव, परिस्रुत्, वारुणी, मधु
मध्वासवः शीधु सुरा प्रसन्ना,
परिस्रुता स्यान्मदिरा मदिष्ठा ।
कादम्बरी स्वादुरसा च शुण्डा,
गन्धोत्तमा माधवकश्च हाला ॥ ३२९ ॥
कल्यं कश्यं तथा मद्यं मैरेयं कापिशायनम् ।
माध्वीकमासवः प्रोक्तः परिस्रुद्वारुणी मधु ॥ ३३० ॥
verse 2.1.1.329
page 0039
नाममाला
Sanskritशुण्डा, आसव
शुण्डासवः तद्विधायी शौण्डो गद्येत मद्यपः ॥ १२१ ॥
verse 0.1.1.121
page 0061
शब्दकल्पद्रुमः
Sanskritआसवः, (आङ् + सुञ् + अप् ।) मद्यविशेषः ।तत्पर्य्यायः । मैरेयं २ शीधुः ३ । इत्यमरः ॥
“शीवुरिक्षुरसैः पक्वैरपक्वैरासवो भवेत् ।मैरेयं धातकीपुष्पगुडधानाम्लसंहितम्” ॥
इति माधवेन भेदः कृतस्तथापि सूक्ष्ममनादृत्ये-दमुक्तम् । इति भरतः ॥
मद्यमात्रम् । इतिराजनिर्घण्टः ॥
(यथा भनुः ११ । ९५ ।“यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवं ।तद्ब्राह्मणेन नात्तव्यं देवानामश्नता हरिः” ।)(“यदपक्वौषधाम्बुभ्यां सिद्धं मद्यं स आसवः” ।इति शार्ङ्गधरः । यथा भावप्रकाशे ।“आसवस्य गुणा ज्ञेया वीजद्रव्यगुणैः समाः” ।)आसवभेदेन गुणभेदो यथा ॥
“छेदी मध्वासवस्तीक्ष्णो मेहपीनसकासजित्” ।“शार्करः सुरभिः स्वादुर्हृद्यो नातिमदो लघुः” ।इति च वाभटः ॥
“मुखप्रियः सुखमदः सुगन्धिर्वस्तिरोगनुत् ।जरणीयः परिणतो हृद्यो वर्ण्यश्च शार्करः” ॥
“रोचनो दीपनो हृद्यः शोषशोफार्शसंहितः ।स्नेहश्लेष्मविकारघ्नो वर्ण्यः पक्वरसो मतः” ॥
“मृष्टो भिन्नशकृद्वातो गौडस्तर्पणदीपनः ।छेदी मध्वासवस्तीक्ष्णो मैरेयो मधुरो गुरुः” ॥
इति चरकः ॥
तथा च सुश्रुते ॥
“तीक्ष्णः सुरासवो हृद्यो मूत्रलः कफवातनुत् ॥
मुखप्रियः स्थिरमदो विज्ञेयोऽनिलनाशनः ।लघुर्मध्वासवश्छेदी मेहकुष्ठविषापहः ॥
तिक्तः कषायः शोफघ्नस्तीक्ष्णः स्वादुरवातकृत् ।तीक्ष्णः कषायो मदकृद्दुर्नामकफगुल्महृत् ॥
कृमिमेदोऽनिलहरो मैरेयो मधुरो गुरुः ।बल्यः पित्तहरो वर्ण्यो मृद्वीकेक्षुरसासवः” ॥
)
वाचस्पत्यम्
Sanskritआसव आसूयते आ + सू--कर्म्मणि अण् । १ अभिषव-णीये मद्ये (चोयानमद) तल्लक्षणादि भावप्र० । “यच्चपक्वौषधाम्बुभ्यां सिद्धं मद्यं स आसवः । आसवस्य वीज-द्रव्यगुणैर्ज्ञेयागुणाःःसमाः” नवपुराणमद्ययोर्गुणास्तत्रैव ।“मद्यं नवमभिष्यन्दि त्रिदोषजनकः परम् । अकृच्छ्रंवृंहणं ग्राहि दुर्गन्धं विशदं गुरु । जीर्ण्णं तदेव रोचिष्णकृमिश्लेष्मानिलापहम् । हृद्यं सुगन्धि गुणवल्लघु श्रम-विशोधनम्” । सात्विकादिपानकर्त्तृभेदेन चेष्टाविशेषाश्च त-त्रोक्ताः “सात्विकोगीतिहास्यादि राजसो साहसादिकम् ।तामसो निन्द्यकर्म्माणि निद्रां च मदिरां चरन्” । चरन्पिबन् कुर्य्यादिति शेषः । “विधिना मात्रया काले हितैरन्यैर्यथाबलम् । प्रहृष्टोयः पिबेन्मद्यं तस्य स्यादमृतंयथा । किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम्”सुश्रुते तु मद्यभेदेन गुणविशेषादिकमुक्तं यथा“सर्व्वं पित्तकरं मद्यमम्लं दीपनरोचनम् । भेदनं कफ-वातघ्नं हृद्यं वस्तिविशोधनम् । पाके लघु विदाह्युष्णंतीक्ष्णमिन्द्रियबोधनम् । विकाशि सृष्टविण्मूत्रं शृणुतस्य विशेषकम् । मार्द्वीकमविदाहित्वान्मधुरान्वयतस्तथा ।रक्तपित्तेऽपि सततं बुधैर्न प्रतिषिध्यते । मधुरं तद्धिरूक्षञ्च कषायानुरसं लघु । लघुपाकि सरं शोथविषम-ज्वरनाशनम् । मार्द्वीकाल्पान्तरं किञ्चित् खार्जूरं वात-कोपनम् । तदेव विशदं रुच्यं कफघ्नं कर्शनं लघु ।कषायमधुरं हृद्यं सुगन्धीन्द्रियबाधनम् । कासार्शो-ग्रहणीदोषमूत्राघातानिलापहा । स्तन्यरक्तक्षयहितासुरा वृंहणदीपनी । कासार्शोग्रहणीश्वासप्रतिश्यायविना-शिनी । श्वेता मूत्रकफस्तन्यरक्तमांसकरी सुरा । छर्द्य-रोचकहृत्कुक्षितोदशूलप्रमार्दनी । प्रसन्ना कफवातार्शो-विबन्धानाहनाशिनी । पित्तलाल्पकफा रूक्षा यवै-र्य्यातप्रकोपणी । विष्टम्भिनी सुरा गुर्वी श्लेष्मला तु मधू-लिका । रूक्षा नातिकफा वृष्या पाचनी चाक्षिकी स्मृता ।त्रिदोषो भेद्यवृष्यश्च कोहलो वदनप्रियः । ग्राह्युष्णो-ऽजगलः पक्ता रूक्षस्तृट्कफशोफहृत् । हृद्यः प्रवाहि-काटोपदुर्नाभानिलशोषहृत् । वक्वसो हृतसारत्वा-द्विष्टम्भी वातकोपनः । दीपनः सृष्टविण्मूत्रो विश-टोऽल्पमदो गुरुः । कषायो मधुरः शीधुर्गौडः पाचनदीपनः । शार्करो मधुरो रुच्यो दीपनो वस्तिशोधनः ।वातघ्नो मधुरः पाके हृद्य इन्द्रियबोधनः । तद्वत् पक्व-रसः शीधुर्वलवर्णकरः सरः । शोफघ्नो दीपनो हृद्योरुच्यः श्लेष्मार्शसां हितः । कर्शनः शीतरसिकः श्वयथूदर-नाशनः । वर्णकृज्जरणः स्वर्य्यो विबन्धघ्नोऽर्शसां हितः ।आक्षिकः पाण्डुरोगघ्नोव्रण्यः संग्राहको लघुः ।कषायमधुरः शीधुः पित्तघ्नोऽसृक्प्रसादनः । जाम्बवोबद्धनिस्यन्दस्तुवरो वातकोपनः । तीक्ष्णः सुरासवो हृद्योमूत्रलः कफवातनुत् । मुखप्रियः स्थिरमदो विज्ञेयोऽ-निलनाशनः । लघुर्मध्वासवश्छेदी मेहकुष्ठविषापहः ।तिक्तः कषायशोफघ्नस्तीक्ष्णः स्वादुरवातकृत् । तीक्ष्णःकषायो मदकृद्दुर्नामकफगुल्महृत् । कृमिमेदोऽनिलहरोमैरेयो मधुरो गुरुः । बल्यः पित्तहरो वर्ण्यो मृद्वी-केक्षुरसासवः । शीधुर्मधूकपुष्पोत्थो विदाह्यग्निबलप्रदः ।रूक्षः कषायकफहृद्वातपित्तप्रकोपणः । निर्दिशेद्रसत-श्चान्यान् कन्दमूलफलासवान् । नवं मद्यमभिस्यन्दि गुरुवातादिकोपनम् । अनिष्टगन्धं विरसमहृद्यञ्च विदाहिच । सुगन्धि दीपनं हृद्यं रोचिष्णु कृमिनाशनम् ।स्फुटस्रोतस्करं जीर्णं लघु वातकफापहम् । अरिष्टोद्रव्यसंयोगसंस्कारादधिको गुणैः । बहुदोषहरश्चैव दोषा-णां शमनश्च सः । दीपनः कफवातघ्नः सरः पित्त-विशोधनः । शूलाघ्मानोदरप्लीहज्वराजीर्ण्णार्शसां हितः ।पिप्पल्यादिकृतो गुल्मकफरोगहरः स्मृतः । चिकि-त्सितेषु वक्ष्यन्तेऽरिष्टा रोगहराः पृथक् । अरिष्टास-वशीधूनां गुणान् कर्म्माणि चादिशेत् । बुद्ध्या यथास्वंसंस्कारमवेक्ष्य कुशलो भिषक् । सान्द्रं विदाहि दुर्गन्धंविरसं कृमिलं गुरु । अहृद्यं तरुणं तीक्ष्णमुष्णं दुर्भा-जनस्थितम् । अल्पौषधं पर्य्युषितमत्यच्छं पिच्छिलञ्चयत् । तद्वर्ज्यं सर्व्वदा मद्यं किञ्चिच्छेषन्तु यद्भवेत् ।तत्र यत् स्तोकसम्भारं तरुणं पिच्छिलं गुरु । कफप्रकोपितन्मद्यं दुर्जरञ्च विशेषतः । पित्तप्रकोपि बहुलं तीक्ष्ण-मुष्णं विदाहि च । अहृद्यं फेनिलं पूति कृमिलं विरसंगुरु । तथा पर्य्युषितञ्चापि विद्यादनिलकोपनम् । सर्व्व-दोषैरुपेतन्तु सर्वदोषप्रकोपणम् । चिरस्थितं यातरसंदीपनं कफवातजित् । रुच्यं प्रसन्नं सुरभि मद्यं सेव्यं म-दावहम् । तस्यानेकप्रकारस्य सद्यस्य रसवीर्य्यतः । सौ-क्ष्म्यादौष्ण्याच्च तैक्ष्ण्याच्च विकाशित्वाच्च वह्निना । समेत्यहुदयं प्राप्य धमनीरूर्द्ध्वमागतम् । विक्षोभ्येन्द्रियचेतांसिवीर्य्यं मदयतेऽचिरात् । चिरेण श्लेष्मिके पुंसि पानतोजायते मदः । अचिराद्वातिके दृष्टः पैत्तिके शीघ्रमेव तु ।सात्विके शौचदाक्षिण्यहर्षमण्डनलालसः । गीताध्ययनसौभाग्यसुरतोत्साहकृन्मदः । राजसे ुःखशीलत्वमात्म-त्यागं ससाहसम् । कलहं सानुबन्धन्तु करोति पुरुषेमदः । अशौचनिद्रामात्सर्य्यागम्यागमनलोलताः । अस-त्यभाषणञ्चापि कुर्य्याद्धि तामसे मदः । रक्तपित्तकरंशुक्तं छेदि भुक्तविपाचनम् । वैस्वर्य्यं जरणं श्लेष्मपाण्डु-क्रिमिहरं लघु । तीक्ष्णोष्णं मूत्रलं हृद्यं कफघ्नं कटु-पाकि च । तद्वत्तदासुतं सर्वं रोचनञ्च विशेषतः । गौडानिरसशुक्तानि मधुशुक्तानि यानि च । यथापूर्व्वं गुरुतराण्य-भिस्यन्दकराणि च । तृषां तु दीपनं हृद्यं हृत्या-ण्डुकृमिरोगनुत् । ग्रहण्यर्शोविकारघ्नं भेदि सौवीरकंतथा । धान्याम्लं धान्ययोनित्वाद्दीपनं दाहनाशनम् ।स्पर्शात्पानात्तु पवनकफतृष्णाहरं लघु । तैक्ष्ण्याच्च निर्ह-रेदाशु कफं गण्डूषधारणात् । मुखवैरस्यदौर्गन्ध्यमल-शोषक्लमापहम् । दीपनं जरणं भेदि हितमास्थापनेषुच । समुद्रमाश्रितानाञ्च जनानां सात्म्यमुच्यते ।”स्मृतौ तु जातिभेदेन मद्यविशेषपाननिषेधार्थं मद्य-विभागादि दर्शितं यथा प्रा० वि० मनुहारीतयमैः ।“सुरा वै मलमन्नानां पाप्मा च मलमुच्यते । तस्माद्ब्राह्मणराजन्यौ वैश्यश्च न सुराम्पिबेत्” । तथा च श्रुतिः “सुरावै मलमन्नानामनृतं पाप्मतमंसुरेति” । यद्यप्यन्नशब्दःशूक-धान्यतण्डुलविकारविशेष ओदने प्रसिद्धस्तथापि बहुतरवचनात् पिष्टयवान्नादिविकारमपि लक्षयति । तेनान्न-विकारविशेषोमदहेतुः सुरा इत्युच्यते । अत्रिः । “गौडी-पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा । यथैवैका तथासर्व्वा न पातव्या द्विजोत्तमैरिति” त्रिविधैव सुरेति पन-सादिविकारव्यावृत्तस्य त्रितयस्यानुगतस्यैकस्य प्रवृत्तिनिमि-त्तस्याभावात् न पानक्रियाव्याप्यत्वम् इतरव्यावर्त्तकधर्म्मश्चमहापातकहेतुपानकर्मत्वमुपाधिः सुराज्ञानाधीनं महा-पातकं तज्ज्ञानाधीनञ्च सुराज्ञानम् इतरेतराश्रयापत्तेः-पुलस्त्यवचनविरोधाच्च यथा पुलस्त्यः । “पानसं द्राक्षं माधूकंखार्ज्जूरं तालमैक्षवम् । माक्षिकं टाङ्कं माध्वीकमैरेयं नारि-केलजम् । समानानि विजानीयान्मद्यान्येकादशैव तु ।द्वादशन्तु सुरा मद्यं सर्वेषामधमं स्मृतम्” । अनेनैकादशानांसुरात्वं निषेधति । मद्यशब्दस्तु मदहेतुद्रवद्रव्यमात्र-वचनः अस्मादेव वचनात् न तु मद्यमात्रं सुराशब्दस्यार्थःतथा च वृहस्पतिः । “गौडीं माध्वीं सूरां पैर्ष्टी पीत्वा-विप्रः समाचरेत् । तप्तकृच्छ्रं पराकञ्च चान्द्रायणमनुक्र-मात्” । त्रयाणां सुरात्वे क्रमेण प्रायश्चित्तत्रयं न स्यात् ।तथा भविष्ये “सुरा पैष्टी तु मुख्योक्ता न तस्यश्चेतरे समे” ।पैष्टीति तण्डुलविकारमात्रोपलक्षणम् । इतरे गौडी-माध्व्यौ । अतो अन्नविकार एव सुराशब्दस्य मुख्यत्वात्त्रिविधा सुरेति गौडीमाध्व्योर्गौणसुरात्वज्ञापनार्थम् तेनै-तत्पानेऽपि महापातकत्वमतिदिशति यथैवैका तथा सर्वेतिपैष्ट्यां पूर्व्वप्रसिद्धिं दर्शयति यथा पैष्टी सुरा तथा सर्व्वागौडी माध्वी च । पूर्ववचनोक्तापि पैष्टी दृष्टान्तत्वेनात्र-दर्शिता । न पातव्या द्विजोत्तमैर्ब्राह्मणैरित्यर्थः ।त्रैवर्ण्णिकपरत्वे उत्तमपदानर्थक्यात् । न तु बहुवच-नानर्थक्यपरीहारार्थमुत्तमप्रातिपादिकानर्थक्यं युक्तंबहुवचनस्य सजातीयोपस्थापकत्वेन चरितार्थत्वात् । अतोब्राह्मणस्य त्रिविधसुरापानं महापातकम् । “क्षत्रियवैश्य-योस्तु” सुरा वै मलमन्नानामिति वचनेन पैष्ट्येवेति स्थितम्गोविन्दराजविश्वरूपवीरेश्वराणामयमनुमतोऽर्थः । अतएव “एवं माध्वी च गौडी च पैष्टी च त्रिविधा सुरा ।द्विजातिभिर्न्नपातव्या कदाचिदपि कर्हिचित्” इतिमनुवच-नेऽपि द्विजातिपदं ब्राह्मणपरमेव । अतएव द्विविधसुरा-पाने क्षत्रियादीनां महापातकं तावदस्तु दोषाभावमेवाहवृद्धयाज्ञल्क्यः । “कामादपि हि राजन्योवैश्यो वापि कथ-ञ्चन । मद्यमेवासुरां पीत्वा न दोषं प्रतिपद्यते” तदेवं पैष्टीनिषेधस्त्रैवर्ण्णिकानाम् गौडीमाध्वीनिषेधस्तु ब्राह्मणस्यैवननु ब्राह्मणराजन्याविति कर्तृविशेषणं पुंलिङ्गं तत्र विवक्षि-तम् अतः कथं व्राह्मण्याः सुरापानं महापातकम् उच्यतेनिषिध्यमानक्रियायाविधेयत्वेन तत्कर्त्तुरनुपादेयत्वात्तद्विशेषणं लिङ्गमविवक्षितम् हविरुभयत्ववत् । अतस्त-ज्जातिस्त्रीणामपि पाननिषेधः । तथा च भविष्ये“तस्मान्न पेयं विप्रेण सुरामद्यं कथञ्चन । ब्राह्मण्यापि नपेया वै सुरा पापभयावहा” । “यद्व्राह्मणी सुरापी स्यान्न तांदेवाः पतिलोकं नयन्तीति” श्रुतिः । “पतत्यर्द्धशरीरेणभार्य्या यस्य सुरां पिबेत् । पतितार्द्धशरीरस्य निष्कृतिर्नो-पपद्यते” । न चैवं क्षत्रियवैश्यस्त्रीणामनिषेधः ब्राह्मणी-पदस्य निषिद्धसुरापानकर्त्तभार्य्योपलक्षकत्वात् “भार्य्या यस्यसुरां पिबेदिति सामान्यश्रवणाच्च ।वेदविहितः मद्यसवनप्रकारस्तु सौत्रामणीशब्दे वक्ष्यते ।“यक्षरक्षःपिशाचान्नं मद्यं मांसं सुरासवम् । तत्ब्राह्म-णेन नात्तव्यं देवानामश्नता हविः” मनुः । “अनासवाख्यंकरणं मदस्य” कुमा० । “नानासवपात्रसङ्घुलम्”काद० । “मुखं लालाक्लिन्नं पिबति चषकं सासवमिव”शान्तिश० । “संविदासवयोर्मध्ये संविदैव गरीयसी”तन्त्र० । भावे घञ् । २ मद्यादेरभिषवे (मदचोयान)आसूयतेऽत्र आधारे घञ् । ३ अभिषवपात्रे । आ + सू-प्रसवे अच् । ६ प्रसवकर्त्तरि । “देवस्य सवितुर्मति-मासवं विश्वदेव्यम्” श्रुतिः ।
Burnouf
FrenchNo entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
