| YouTube Channel

कपिशी (kapizI)

 
Wordnet
Sanskrit
Synonyms:
मद्यम्, सुरा, मदिरा, वारुणी, हलिप्रिया, हाला, परिश्रुत्, वरुणात्मजा, गन्धोत्तमा, प्रसन्ना, इरा, कादम्बरी, परिश्रुता, कश्यम्, मानिका, कपिशी, गन्धमादनी, माधवी, कत्तोयम्, मदः, कापिशायनम्, मत्ता, सीता, चपला, कामिनी, प्रिया, मदगन्धा, माध्वीकम्, मधु, सन्धानम्, आसवः, अमृता, वीरा, मेधावी, मदनी, सुप्रतिभा, मनोज्ञा, विधाता, मोदिनी, हली, गुणारिष्टम्, सरकः, मधूलिका, मदोत्कटा, महानन्दा, सीधुः, मैरेयम्, बलवल्लभा, कारणम्, तत्वम्, मदिष्ठा, परिप्लुता, कल्पम्, स्वादुरसा, शूण्डा, हारहूरम्, मार्द्दीकम्, मदना, देवसृष्टा, कापिशम्, अब्धिजा
noun
मादकद्रवपदार्थः - यस्य सेवनं पापं तथा निन्दनीयम् इति मन्यन्ते।
"सः प्रतिदिनं सायङ्काले मद्यं पीत्वा गृहम् आगच्छति।"
शब्दकल्पद्रुमः
Sanskrit
कपिशी,
स्त्री,
(कपिश इति वर्णवाचितया ङीष् ।)माधवी मदिरा इति मेदिनी जटाधरश्च
(हलायुधमतेऽस्य क्लोवत्वमपि दृश्यते
)
वाचस्पत्यम्
Sanskrit
कपिशी स्त्री कपिश + वर्णवाचित्वात् ङीष् माधव्यां सुरा-याञ्च शब्दकल्पद्रुमे मेदिनिजटाधरवाक्यं प्रमाणत्वेनीक्तम् तच्चिन्त्यं “कपिशस्त्रिषुंश्यावे स्त्री माधव्यांसिह्लके पुमान्” इति मेदिन्यां स्त्रीमात्रोक्तेः ङीषन्ततानु-क्तेश्च “वर्णात्तोपधादनुदात्तात् तोनः” “अन्यतोङीष्” पा०सूत्रयोः तोपधभिन्नवर्णवाचिनोऽनुदात्तान्तप्रतिपादकात्स्त्रियां ङीष् स्यात् सि० कौ० व्याख्यानात् कपिश-शब्दस्यानुदात्तत्वाभाबेन ङीषोऽप्रसक्तेः “लघावन्ते द्व-योश्च बह्वषो गुरुः” फिट्सूत्रेण तस्य पिशङ्गकल्माषयोरिवगुरुयुक्तत्वाभावेन अनुदात्तत्वामावात् अतएव “ईषद्वद्ध-रजःकणाग्रकपिशा चूते नबा मञ्जरीति” विक्रमोर्वश्याम्टावन्ततया प्रयोगः तथा स्त्रीखेऽपि कपिशा इत्येवं-रूपेण भवितव्यं ङीषन्तेनेति द्रष्टव्यम् किञ्च उक्त०येदिनिवाक्ये तस्य सुरार्थताऽपि दृश्यते प्रत्युत “कश्यंमद्यञ्च मैरेयं कपिशं कापिशायनम्” हलायुधोक्तेः मद्येक्लीवत्वग्रेव अतएव “ग्राम्यानपश्यत् कपिशं पिशासतः” इतिमाधे क्लीयतयैव प्रयुक्तम्