मदिरा (madirA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
Englishमदिरा - madirA - - any inebriating drink
मदिरा - madirA - - nectar
मदिरा - madirA - - kind of metre
मदिरा - madirA - - inebriating drink
मदिरा - madirA - - wagtail
मदिरा - madirA - - spirituous liquor
मदिरा - madirA - - wine
मदिरा-निषेध - madirA-niSedha - - temperance
Apte
Englishमदिरा [madirā], 1 Spirituous liquor
काङ्क्षत्यन्यो वदनमदिरां दोहद- च्छद्मनास्याः 8 (v. l. )
11.49.
A kind of wagtail.
of Durgā.
N of a metre
सप्तभकारकृताबसितौ च गुरुः कविभिः कथिता मदिरा V. Ratna. (com. ). -उत्कट, -उन्मत्त intoxicated with spirituous liquor.-गृहम्, -शाला an ale-house, dram-house, a tavern. -मदान्ध dead drunk. -सखः the mango tree.
Apte 1890
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishChandas
Sanskritसम-वृत्तम्, 88, 22
मात्राः - 30
सङ्ख्याजातिः - आकृतिः
दा द द दा द द दा द द दा द द दा द द दा द द दा द द दा
लक्षण-मूलम् - आनन्दमिश्र-जालक्षेत्रम्
Apte Hindi
Hindiमदिरा
- मदिर + टाप्
खींची हुई शराब
मदिरा
- -
एक प्रकार का खंजन पक्षी
मदिरा
- -
दुर्गा का नामान्तर
Shabdartha Kaustubha
Kannadaमदिरा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಮದ್ಯ /ಹೆಂಡ
निष्पत्तिः - > मदी (हर्षे) - "किरच्" (उ० १-५१)
व्युत्पत्तिः - > माद्यत्यनेन
प्रयोगाः - > "न स्रजो रुरुचिरे रमणीभ्यश्चन्दनानि विरहे मदिरा वा"
उल्लेखाः - > किरा० ९-३५
विस्तारः - > ಮದ್ಯವು माध्वीकम्, पानसम्, द्राक्षम्, खार्जूरम्, तालम्, ऐक्षवम्, मैरेयम्, माक्षिकम्, टाङ्कम्, मधूकम्, नारिकेलजम् ಎಂದು ಹನ್ನೆರಡು ವಿಧ.
L R Vaidya
EnglishBopp
LatinAnekartha-Dvani-Manjari
Sanskritवारुणी
स्त्री
वारुणी, मदिरा, पश्चिमा-दिक्
वारुणी मदिरा ज्ञेया पश्चिमा दिक् च वारुणी ॥ ५३ ॥
verse 2.1.1.53
page 0011
Wordnet
Sanskrit मद्यम्, सुरा, मदिरा, वारुणी, हलिप्रिया, हाला, परिश्रुत्, वरुणात्मजा, गन्धोत्तमा, प्रसन्ना, इरा, कादम्बरी, परिश्रुता, कश्यम्, मानिका, कपिशी, गन्धमादनी, माधवी, कत्तोयम्, मदः, कापिशायनम्, मत्ता, सीता, चपला, कामिनी, प्रिया, मदगन्धा, माध्वीकम्, मधु, सन्धानम्, आसवः, अमृता, वीरा, मेधावी, मदनी, सुप्रतिभा, मनोज्ञा, विधाता, मोदिनी, हली, गुणारिष्टम्, सरकः, मधूलिका, मदोत्कटा, महानन्दा, सीधुः, मैरेयम्, बलवल्लभा, कारणम्, तत्वम्, मदिष्ठा, परिप्लुता, कल्पम्, स्वादुरसा, शूण्डा, हारहूरम्, मार्द्दीकम्, मदना, देवसृष्टा, कापिशम्, अब्धिजा
मादकद्रवपदार्थः - यस्य सेवनं पापं तथा च निन्दनीयम् इति मन्यन्ते।
"सः प्रतिदिनं सायङ्काले मद्यं पीत्वा गृहम् आगच्छति।"
अभिधानचिन्तामणिः
Sanskritमद्यं मदिष्ठा मदिरा परिस्रुता कश्यं परिस्रुन्मधु कापिशायनम् ।
गन्धोत्तमा कल्यमिरा परिप्लुता कादम्बरी स्वादुरसा हलिप्रिया ॥ ९०२ ॥
शुण्डा हाला हारहूरं प्रसन्ना वारुणी सुरा ।
माध्वीकं मदना देवसृष्टा कापिशमब्धिजा ॥ ९०३ ॥
मद्य (क्ली), मदिष्ठा (स्त्री), मदिरा (स्त्री), परिस्रुता (स्त्री), कश्य (क्ली), परिस्रुत् (स्त्री), मधु (क्ली), कापिशायन (क्ली), गन्धोत्तमा (स्त्री), कल्य (क्ली), इरा (स्त्री), परिप्लुता (स्त्री), कादम्बरी (स्त्री), स्वादुरसा (स्त्री), हलिप्रिया (स्त्री), शुण्डा (पुंस्त्री), हाला (स्त्री), हारहूर (क्ली), प्रसन्ना (स्त्री), वारुणी (स्त्री), सुरा (स्त्री), माध्वीक (क्ली), मदना (स्त्री), देवसृष्टा (स्त्री), कापिश (क्ली), अब्धिजा (स्त्री)
अभिधानरत्नमाला
Sanskritमध्वासव
मध्वासव, शीधु, सुरा, प्रसन्ना, परिस्रुता, मदिरा, मदिष्ठा, कादम्बरी, स्वादुरसा, शुण्डा, गन्धोत्तमा, माधवक, हाला, कल्य, कश्य, मद्य, मैरेय, कापिशायन, माध्वीक, आसव, परिस्रुत्, वारुणी, मधु
मध्वासवः शीधु सुरा प्रसन्ना,
परिस्रुता स्यान्मदिरा मदिष्ठा ।
कादम्बरी स्वादुरसा च शुण्डा,
गन्धोत्तमा माधवकश्च हाला ॥ ३२९ ॥
कल्यं कश्यं तथा मद्यं मैरेयं कापिशायनम् ।
माध्वीकमासवः प्रोक्तः परिस्रुद्वारुणी मधु ॥ ३३० ॥
verse 2.1.1.329
page 0039
नाममाला
Sanskritमदिरा, मद्य, ऐरेय, शीधु, कादम्बरी, इरा, प्रसन्ना, वारुणी, हाला, मधुवारा, सुरा
मदिरां मद्यमैरेयं शीधु कादम्बरीमिराम् ॥ १२० ॥
प्रसन्नां वारुणीं हालां मधुवारां सुरां विदुः ।
verse 0.1.1.120
page 0061
Tamil
Tamilமதி3ரா : சாராயம், கள்.
Mahabharata
EnglishMadirā, one of the wives of Vasudeva. § 793 (Mausalap.): XVI, 7, 194.
पुराणम्
Englishमदिरा / MADIRĀ. Wife of vasudeva, father of śrī kṛṣṇa. vasudeva had seven wives named rohiṇī, Bhadramāninī, madirā, ilā, rocanā, pauravī and devakī (9th skandha, bhāgavata). Of these devakī, rohiṇī, and bhadrā abandoned their lives by jumping into the funeral pyre of vasudeva. (Śloka 18, Chapter 7, Mausala Parva).
शब्दकल्पद्रुमः
Sanskritमदिरा, स्त्री (माद्यतीति । मद् + किरच् ।अजादित्वात् टाप् ।) मत्तखञ्जनः । इतिशब्दरत्नावली ॥
(यथा, शाकुन्तले । ३ । ५ ।“यदि मदिरायतनयनांतामधिकृत्य प्रहरतीति ।माद्यत्यनयेति । मद् + “इषि मदीति । उणा० ।१ । ५२ । इति किरच् ।) मादकद्रव्यविशेषः ।मद् इति भाषा ॥
(यथा, --“हिक्का-श्वास-प्रतिश्याय-कास वर्च्चोग्रहारुचौ ।वम्यानाहविबन्धेषु वातघ्नी मदिरा हिता ॥
”इति चरके सूत्रस्थाने १७ अध्यायः ॥
यथाच शान्तिशतके । ४ । २४ ।“पीत्वा मोहमयीं प्रमोदमदिरामुन्मत्तभूतंजगत् ।”)तत्पर्य्यायः । सुरा २ हलिप्रिया ३ हाला ४परिश्रुत् ५ वरुणात्मजा ६ गन्धोत्तमा ७प्रसन्ना ८ इरा ९ कादम्बरी १० परिश्रुता ११कश्यम् १२ मद्यम् १३ । इत्यमरः । २ । १० । ४० ॥
मानिका १४ । इति शब्दरत्नावली ॥
कपिशी १५गन्धमादनी १६ माधवी १७ कत्तोयम् १८ मदः १९कापिशायनम् २० । इति जटाधरः ॥
वारुणी २१मत्ता २२ सीता २३ चपला २४ कामिनी २५प्रिया २६ मदगन्धा २७ माध्वीकम् २८ मधु २९सन्धानम् ३० आसवः ३१ अमृता ३२ वीरा ३३मेधावी ३४ मदनी ३५ सुप्रतिभा ३६ मनोज्ञा ३७विधाता ३८ मोदिनी ३९ हली ४० गुणा-रिष्टम् ४१ सरकः ४२ मधूलिका ४३ मदोत्-कटा ४४ महानन्दा ४५ । इति राजनिर्घण्टः ॥
सीधुः ४६ मैरेयम् ४७ बलवल्लभा ४८ । इतिभावप्रकाशः ॥
कारणम् ४९ । तत्त्वम् ५० इतिकैबल्यतन्त्रम् ॥
मदिष्ठा ५१ परिप्लुता ५२कल्पम् ५३ स्वादुरसा ५४ शूण्डा ५५ हार-हूरम् ५६ मार्द्वीकम् ५७ मदना ५८ देवसृष्टा५९ कापिशम् ६० अब्धिजा ६१ । इति हेम-चन्द्रः । ३ । ५६६ ॥
सा द्वादशविधा यथा, --“माध्वीकं पानसं द्राक्षं खार्ज्जूरं तालमैक्षवम् ।मैरेयं माक्षिकं टाङ्कं मधूकं नारिकेलजम् ॥
मुख्यमन्नविकारोत्थं मद्यानि द्वादशैव च ॥
”इति जटाधरः ॥
अस्याः सामान्यगुणाः । सुमधुराम्लत्वम् । कफ-मारुतनाशनत्वम् । लघुत्वम् । पुष्टिकरत्वम् ।हृद्यत्वम् । सारकत्वम् । मदावहत्वञ्च ॥
* ॥
धातकीरसगुडादिकृता मदिरा गौडी । तद्-गुणा यथा । तीक्ष्णत्वम् । उष्णत्वम् । मधुर-त्वम् । वातनाशित्वम् । पित्तबलकारित्वम् ।दीपनत्वम् । पथ्यत्वम् । कान्तितृप्तिकारित्वञ्च ॥
पुष्पद्रवादिमधुसारमयी मदिरा माध्वी । तद्-गुणा यथा । मधुरत्वम् । नात्युष्णत्वम् । पित्त-वातनाशित्वम् । पाण्डुकामलगुल्मार्शःप्रमेह-शमनत्वञ्च ॥
* ॥
विविधधान्यजाता मदिरापैष्टी । तद्गुणा थथा । कटुत्वम् । अम्लत्वम् ।तीक्ष्णत्वम् । गौडीसमत्वम् । वातहरत्वम् ।कफकरत्वम् । ईषत्पित्तकरत्वम् । मोहनञ्च ॥
तालादिरसनिर्यासकृता मदिरा सैन्धी हालाच । तद्गुणा यथा । शीतत्वम् । कषायत्वम् ।अम्लत्वम् । पित्तहरत्वम् । वातदातृत्वञ्च ॥
* ॥
सर्व्वतृणवृक्षनिर्यासरूपमदिरागुणाः । शीतल-त्वम् । गुरुत्वम् । मोहनत्वम् । बलदत्वम् ॥
हृद्यत्वम् । तृष्णासन्तापनाशकत्वञ्च ॥
* ॥
नाना-द्रव्यकदम्बकृता मदिरा कादम्बरी । तद्गुणा-यथा । सुमधुरत्वम् । पित्तश्रमहरत्वम् । मद-कारित्वञ्च ॥
* ॥
ऐक्षवमदिरागुणौ । शिशि-रत्वम् । मदोत्कटत्वञ्च ॥
* ॥
यवधान्यकृत-मदिरागुणौ । गुरुत्वम् । विष्टम्भदायकत्वञ्च ॥
शर्कराधातकीतोयकृतमदिरागुणौ । शीतत्वस् ।मनोहरत्वञ्च ॥
* ॥
शार्करमद्यगुणाः । वृष्य-त्वम् । दीपनत्वम् । मोहनत्वञ्च । इति नाना-मद्यगुणाः ॥
* ॥
ऋतुविशेषे पेयमदिरा यथा, “गौडी तु शिशिरे पेया पैष्टी हेमन्तवर्षयोः ।शरद्ग्रीष्मवसन्तेषु माध्वी ग्राह्या न चान्यथा ॥
“कादम्बरीशर्करजादिमद्यंसुशीतलं वृष्यकरं मदाढ्यम् ।माध्वीसमं स्यात् तृणवृक्षजातंमद्यं सुशीतं गुरु तर्पणञ्च ॥
”अन्यथा कुरुते पानं मद्यं सन्तापशोषदम् ।अन्नदोषमदात्यादिकारकं मूर्च्छनञ्च यत् ॥
”नवजीर्णमद्ययोर्गुणाः ।“मद्यं नवं सर्व्वविकारहेतुःसर्व्वन्तु वातादिकदोषदायि ।जीर्णन्तु सर्व्वं सकलामयघ्नंघूर्णप्रदं वृष्यकरञ्च दीपनम् ॥
”अन्यच्च ।“पर्य्युषितमल्पमेलनमम्लं वा पिच्छिलं विगन्धंवा ।दोषावहमविशेषान्मद्यं हृद्यं विवर्ज्जयेत् ॥
मद्यप्रयोगं कुर्व्वन्ति शूद्रादिषु महार्त्तिषु ।द्विजैस्त्रिभिस्तु न ग्राह्यं यद्यप्युज्जीवयेन् मृतम् ॥
”इति मद्यवर्ज्य्यावर्ज्यम् ॥
* ॥
“अन्ये द्वादशधा मद्यभेदानाहुर्मनीषिणः ।उक्तस्यान्तर्भवन्तीति नान्येषां पृथगीरितम् ॥
”इति राजनिर्घण्टे मद्यप्रकरणम् ॥
अथ मतान्तरे मद्यस्य लक्षणं गुणाश्च ।“पेयं यन्मादकैर्लोकैस्तन्मद्यमभिधीयते ।यथारिष्टं सुरा सीधुरासवाद्यमनेकधा ॥
मद्यं सर्व्वं भवेदुष्णं पित्तकृत् वातनाशनम् ।भेदनं शीघ्रपाकञ्च रूक्षं कफहरं परम् ॥
अम्लञ्च दीपनं रुच्यं पाचनं चाशुकारि च ।तीक्ष्णं सूक्ष्मञ्च विशदं व्यवायि च विकाशिच ॥
”अथारोहणलक्षणं गुणाश्च ।“पक्वौषधाम्बुसिद्धं यन्मद्यं तत् स्यादरिष्टकम् ।”अरिष्टं मद्यमिति लोके । यथा, द्राक्षारिष्टम् ।दशमूलारिष्टम् । वव्वूलारिष्टमिति ।“अरिष्टं लघुपाकेन सर्व्वं तच्च गुणाधिकम् ।अरिष्टस्य गुणा ज्ञेया बीजद्रव्यगुणैः समाः ॥
”अथ सुराया लक्षणं गुणाश्च ।“शालिषष्टिकपिष्टादिकृतं मद्यं सुरा स्मृता ।सुरा गुर्व्वी बलस्तन्यपुष्टिमेदःकफप्रदा ।ग्राहिणी शोथगुल्मार्शोग्रहणीमूत्रकृच्छ्रनुत् ॥
”अथ सुराभेदो वारुणी तस्या लक्षणं गुणाश्च ।“पुनर्नवाशिलापिष्टैर्व्विहिता वारुणी स्मृता ।संहितैस्तालखर्ज्जूररसैर्या सापि वारुणी ॥
सुरावद्वारुणी लघ्वी पीनसाध्मानशूलनुत् ॥
”सुरातो भेदार्थं लघ्वीति ॥
* ॥
अथ सीधुद्वयस्य लक्षणं गुणाश्च ।“इक्षोः पक्वे रसैः सिद्धः सीधुः पक्वरसश्च सः ॥
आमैस्तैरेव यः सीधुः स च शीतरसः स्मृतः ॥
सीधुः पक्वरसः श्रेष्ठः स्वराग्निबलवर्णकृत् ।वातपित्तकरो हृद्यः स्नेहनो रोचनो हरेत् ॥
विबन्धमेदःशोषार्शःशोफोदरकफामयान् ।तस्मादल्पगुणः शीतरसः संलेखनः स्मृतः ॥
”अथासवस्य लक्षणं गुणाश्च ।“यदपक्वौषधाम्बुभ्यां सिद्धं मद्यं स आसवः ।आसवस्य गुणा ज्ञेया बीजद्रव्यगुणैः समाः ॥
”अथ नवपुराणमद्यगुणाः ।“मद्यं नवमभिष्यन्दि त्रिदोषजनकं सरम् ।अहृद्यं बृंहणं दाहि दुर्गन्धं विशदं गुरु ॥
जीर्णं तदेव रोचिष्णु कृमिश्लेष्मानिलापहम् ।हृद्यं सुगन्धि गुणवल्लघुस्रोतोविशोधनम् ॥
”अथ सात्विकानां मद्यं पिबतां चेष्टाविशेषाः ।सात्विके गीतहास्यादि राजसे साहसादिकम् ।तामसे निन्द्यकर्म्माणि निद्राञ्च मदिराचरेत् ॥
”आचरेत् कुर्य्यात् ।“विधिना मात्रया काले हितैरन्नैर्यथाबलम् ।प्रहृष्टो यः पिबेन्मद्यं तस्य स्यादमृतं यथा ॥
किन्तु मद्यं स्वभावेन यथैवान्नं तथा स्मृतम् ।अयुक्तियुक्तं रोगाय युक्तियुक्तं यथामृतम् ॥
”अथ मद्यगन्धनाशनोपायः ।“मुस्तैलबालगदजीरकधान्यकैला-यश्चर्व्वयन् सदसि वाचमभिव्यनक्ति ।स्वाभाविकं मुखजमुज्झति पूतिगन्धंगन्धञ्च मद्यलशुनादिभवञ्च नूनम् ॥
”इति भावप्रकाशः ॥
अपि च ।“प्रकृत्या मद्यमत्युष्णमम्लञ्चोष्णं विपाकतः ।सर्व्वसामान्यतस्तस्य विशेष उपदेक्ष्यते ॥
कृशानां सक्तमूत्राणां ग्रहण्यर्शोविकारिणाम् ।सुरा प्रशस्ता वातेषु रक्तपित्तक्षयेषु च ॥
प्रसन्ना गुल्मवातार्शोविबन्धानाहनाशिनी ।शूलप्रवाहिकाटोपकफवातार्शसां हिता ॥
”जगलो ग्राहिरूक्षोष्णः शोथघ्नो भक्तपाचनः ।शोथार्शोग्रहणीदोषान् हन्त्यरिष्टः कफामयान् ॥
”अरिष्टो मद्यविशेषः ॥
“प्रायशोऽभिनवं मद्यं गुरु दोषलमीरितम् ।स्रोतसां शोधनं जीर्णं दीपनं लघु रोचनम् ॥
हर्षणं प्रीणनं बल्यं मद्यं शोकश्रमापहम् ।प्रागल् भ्यप्रतिभापुष्टिवीर्य्यतुष्टिस्वरप्रदम् ॥
”इति राजवल्लभः ॥
अन्यत् मद्यशब्दे द्रष्टव्यम् ॥
(वसुदेवपत्नी । यथा, श्रीमद्भागवते । ९ । २४ ।४५ ।“पौरवी रोहिणी भद्रा मदिरा रोचना इला ।देवकीप्रमुखाश्चासन् पत्न्य आनकदुन्दुभेः ॥
”)
वाचस्पत्यम्
Sanskritमदिरा स्त्री मद--करणे किरच् । “माध्वीकं पानसं द्राक्षंखार्जूरं तालमैक्षवम् । मैरेयं माक्षिकं टाङ्कं मधूकनारिकेलजम् । मुख्यमन्नविकारोत्थं मद्यानि द्वादशैवतु” इत्युक्ते १ मद्यसामान्ये २ मत्तखञ्जने शब्दरत्ना० ।३ रक्तखदिरे शब्दच० । कालभेदे तद्भेदग्राह्यता यथा“गौडी त शिशिरे पेया पैष्टी हेमन्तवर्षयोः । शरद्-ग्रीष्मवसन्तेषु माध्वी ग्राह्या न चान्यथा । कादम्बरीशर्करजादिमद्यं सुशीतलं वृष्यकर मदात्मम् । माध्वीसमंस्यात् तृणवृक्षजातं मद्यं सुशीतं गुरु तर्पणञ्च । अन्यथाकुरुते पानं मद्यं सन्तापशोपदम् । अन्नदोषमदात्यय-कारकं मूर्च्छनञ्च तत्” । “पर्य्युषितमल्पमेलनमल्पं वापिच्छिलं विगन्धं वा । दोषावहमविशेषान् मद्यं हृद्यंविवर्जयेत् सर्वम् । मद्यप्रयोगं कुर्वन्ति शूद्रादिषु महार्त्तिषु ।द्विजैस्त्रिभिस्तु न ग्राह्यं यद्यप्युज्जीवयेन्मृतम्” राजनि० ।अधिकं मद्यशब्दे दृश्यम् । ४ वसुदेवस्य पत्न्यां हरिवं०३६ अ० । ५ दुर्गायां १७८ अ० । “सप्तभकारकृतावसितौच गुरुः कविभिः कथिता मदिरा” वृ० र० टी० उक्तेद्वाविंशत्यक्षरपादके ६ छन्दोभेदे स्त्री ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
