| YouTube Channel

नृपः (nRpaH)

 
Apte Hindi
Hindi
नृपः
पुं*
नृ-पः -
"मनुष्यों का राजा, राजा, प्रभु"
नृपः
पुं*
- "नरान् पाति रक्षति - नृ+पा+क, नृणां पतिः, ष* त*, "
"मनुष्यों का राजा, राजा, प्रभु"
Wordnet
Sanskrit
Synonyms:
क्षत्रियः, राजन्यः, क्षत्रः, बाहुजः, विराट्, मूर्धाभिषिक्तः, द्विजलिङ्गी, राजा, नाभिः, नृपः, मूर्धकः, पार्थिवः, सार्वभौमः
noun
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां द्वितीयः वर्णः तद्वर्णीयानां कर्म ब्राह्मणादीनाम् अन्यवर्णीयानां शत्रोः रक्षणम् इति।
"शरणागतस्य रक्षा क्षत्रियस्य धर्मः अस्ति।"
Synonyms:
नृपः, नृपतिः, राजा, भूपतिः, भूपः, भूपालः, महीपतिः, पार्थिवः, पार्थः, पृथिवीपतिः, पृथिवीपालः, भूमिपः, भूमिपतिः, महीक्षित्, महीपः, महीपालः, क्षितिपः, क्षितिपतिः, क्षितिपालः, पृथिवीक्षित्, नरेश्वरः, नराधिपः, नरेशः, नरेन्द्रः, प्रजेश्वरः, प्रजापः, प्रजापतिः, जगतीपतिः, अवनीश्वरः, जगतीपालः, जगत्पतिः, अवनीपतिः, अवनीपालः, अवनीशः, क्षितीक्षः, क्षितीश्वरः, पृथिवीशकः, भूमिभृत्, क्षितिभृत्, भूभृत्, क्ष्माभृत्, क्ष्मापः, वसुधाधिपः, अधिपः, अधिपतिः, नायकाधिपः, महीभुक्, जगतीभुक्, क्ष्माभुक्, भूभुक्, स्वामी, प्रभुः, भगवान्, छत्रपः, छत्रपतिः, राज्यभाक्, लोकपालः, लोकेशः, लोकेश्वरः, लोकनाथः, नरदेवः, राट्, इरावान्
noun
राष्ट्रस्य जातेः वा प्रधानशासकः।
"त्रेतायुगे श्रीरामः अयोध्यायाः नृपः आसीत्।"
शब्दकल्पद्रुमः
Sanskrit
नृपः,
पुं,
(नॄन् नरान् पाति रक्षतीति नृ + पारक्षणे + “आतोऽनुपसर्गे कः ।” ।इति कः ।) नरपतिः इत्यमरः ।तस्य लक्षणं यथा, --“चतुर्योजनपर्य्यन्तमधिकारी नृपस्य ।यो राजा तच्छतगुणः एव मण्डलेश्वरः ।तत्तद्दशगुणो राजा राजेन्द्रः परिकीर्त्तितः
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८६ अः
तत्प्रमाणं यथा, --“अपुत्त्रस्य नृपः पुत्त्रो निर्धनस्य धनं नृपः ।अमातुर्जननी राजा अतातस्य पिता नृपः
अनाथस्य नृपो नाथो ह्यभर्त्तुः पार्थिवः पतिः ।अभृत्यस्य नृपो भृत्यो नृप एव नृणां सखा
सर्व्वदेवमयो राजा तस्मात्त्वामर्थये नृप !
”इति कालिकापुराणे ५० अध्यायः
नृपदर्शनदिनं यथा तत्र तिथयः शुभाः ।वाराः शनिमङ्गलभिन्नाः नक्षत्राणि उत्तर-फल्गुन्युत्तराषाढोत्तरभाद्रपद्रोहिणीपुष्याश्विनी-हस्ताचित्रानुराधामृगशिरोरेवतीज्येष्ठाश्रवणाः ।लग्नानि मिथुनकन्याधनुर्मीनवृषभसिंहसंज्ञ-कानि तत्र चन्द्रः शोभनः इति ज्योतिषम्