| YouTube Channel

राजा (rAjA)

 
Hindi
Hindi
एक शासक, राजा
Wordnet
Sanskrit
Synonyms:
राजा
noun
यः विशेषवर्गे, दले, क्षेत्रे वा श्रेष्ठः अस्ति।
"अरण्यस्य राजा व्याघ्रः।"
Synonyms:
क्षत्रियः, राजन्यः, क्षत्रः, बाहुजः, विराट्, मूर्धाभिषिक्तः, द्विजलिङ्गी, राजा, नाभिः, नृपः, मूर्धकः, पार्थिवः, सार्वभौमः
noun
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां द्वितीयः वर्णः तद्वर्णीयानां कर्म ब्राह्मणादीनाम् अन्यवर्णीयानां शत्रोः रक्षणम् इति।
"शरणागतस्य रक्षा क्षत्रियस्य धर्मः अस्ति।"
Synonyms:
नृपः, नृपतिः, राजा, भूपतिः, भूपः, भूपालः, महीपतिः, पार्थिवः, पार्थः, पृथिवीपतिः, पृथिवीपालः, भूमिपः, भूमिपतिः, महीक्षित्, महीपः, महीपालः, क्षितिपः, क्षितिपतिः, क्षितिपालः, पृथिवीक्षित्, नरेश्वरः, नराधिपः, नरेशः, नरेन्द्रः, प्रजेश्वरः, प्रजापः, प्रजापतिः, जगतीपतिः, अवनीश्वरः, जगतीपालः, जगत्पतिः, अवनीपतिः, अवनीपालः, अवनीशः, क्षितीक्षः, क्षितीश्वरः, पृथिवीशकः, भूमिभृत्, क्षितिभृत्, भूभृत्, क्ष्माभृत्, क्ष्मापः, वसुधाधिपः, अधिपः, अधिपतिः, नायकाधिपः, महीभुक्, जगतीभुक्, क्ष्माभुक्, भूभुक्, स्वामी, प्रभुः, भगवान्, छत्रपः, छत्रपतिः, राज्यभाक्, लोकपालः, लोकेशः, लोकेश्वरः, लोकनाथः, नरदेवः, राट्, इरावान्
noun
राष्ट्रस्य जातेः वा प्रधानशासकः।
"त्रेतायुगे श्रीरामः अयोध्यायाः नृपः आसीत्।"
अभिधानरत्नमाला
Sanskrit
इन्दु
इन्दु, चन्द्र, चन्द्रमस्, ओषधीश, सोम, राजा, रोहिणीवल्लभ, अब्ज, ऋक्षेश, अत्रिनेत्रप्रसूत, प्रालेयांशु, श्वेतरोचिस्, शशाङ्क, द्विजराज, रजनिकर, पीयूषरुचि, निशीथिनीनाथ, जैवातृक, मृगाङ्क, विधु, दाक्षायणीरमण
इन्दुश्चन्द्रश्चन्द्रमा ओषधीशः,
सोमो राजा रोहिणीवल्लभोऽब्जः
ऋक्षेशः स्यादत्रिनेत्रप्रसूतः,
प्रालेयांशुः श्वेतरोचिः शशाङ्कः ४२
द्विजराजो रजनिकरः पीयूषरुचिर्निशीथिनीनाथः
जैवातृको मृगाङ्को विधुश्च दाक्षायणीरमणः ४३
verse 1.1.1.42
page 0006
पुराणम्
English
राजा / RĀJĀ. One of the two gate-keepers of Sūryadeva. (bhaviṣya purāṇa, Brāhmakāṇḍa).
अमरकोशः
Sanskrit
Word: राजा
Root: राजन्
Gender: पुं
Number: all
Meaning(s):
king
chief
yakSa
prince
kSatriya
guidance
sovereign
government
man of the royal tribe or the military caste
Shloka(s):
2|8|1|2 राजा राट्पार्थिवक्ष्माभृन्नृपभूपमहीक्षितः॥ (क्षत्रियवर्गः)
2|8|17|2 स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गबलानि च॥ (क्षत्रियवर्गः)
3|3|60|2 ग्रहभेदे ध्वजे केतुः पार्थिवे तनये सुतः॥ (नानार्थवर्गः)
3|3|61|1 स्थपतिः कारुभेदेऽपि भूभृद्भूमिधरे नृपे। (नानार्थवर्गः)
3|3|61|2 मूर्धाभिषिक्तो भूपेऽपि ऋतुः स्त्री कुसुमेऽपि च॥ (नानार्थवर्गः)
3|3|111|2 इनः सूर्ये प्रभौ राजा मृगाङ्के क्षत्रिये नृपे॥ (नानार्थवर्गः)
3|3|206|4 हालः स्यान्नृपतौ मद्ये शकलच्छदयोर्दलम्॥ (नानार्थवर्गः)
Synonym(s):
2|8|1|2 राट् (राज्) (पुं) king, chief, radiant, shining, sovereign, kind of metre, anything the best or chief of its kind
2|8|1|2 राट् (राज्) (पुं) king, chief, radiant, shining, sovereign, kind of metre, anything the best or chief of its kind
2|8|1|2 पार्थिवः (पार्थिव) (पुं) king, royal, earthy, prince, earthly, warrior, earthen, princely, terrestrial, earthen vessel, lord of the earth, particular god of fire, inhabitant of the earth, fit for kings or princes, 19th year in Jupiter's cycle of 60 years, being in or relating to or coming from the earth
2|8|1|2 क्ष्माभृत् (क्ष्माभृत्) (पुं)
2|8|1|2 नृपः (नृप) (पुं) king, prince, sovereign, kind of measure, protector of men
2|8|1|2 भूपः (भूप) (पुं) king, prince, earth-protector, term for the number sixteen
2|8|1|2 महीक्षित् (महीक्षित्) (पुं)
2|8|17|2 स्वामी (स्वामिन्) (पुं) king, lord, chief, owner, lover, master, prince, husband, employer, commander, proprietor, lord or owner of, spiritual preceptor, image or temple of a god, learned Brahman or Pandit
3|3|60|2 सुतः (सुत) (पुं) son, king, urged, allowed, begotten, impelled, extracted, offspring, authorized, pressed out, brought forth, child [offspring]
3|3|61|1 भूभृत् (भूभृत्) (पुं) king, prince, mountain, earth-supporter, term for the number seven
3|3|61|2 मूर्धाभिषिक्तः (मूर्धाभिषिक्त) (पुं) minister, anointed, universally, consecrated, acknowledged, royal counsellor, consecrated king, having the head sprinkled, man of the kSatriya or warrior caste
3|3|111|2 राजा (राजन्) (पुं) king, chief, yakSa, prince, kSatriya, guidance, sovereign, government, man of the royal tribe or the military caste
3|3|206|4 हालः (हाल) (पुं) plough, scraper, horse of a yellowish brown or tawny colour
Related word(s):
अवयव_अवयवीसंबन्धः राजसमूहः
परा_अपरासंबन्धः स्वदेशाव्यवहितदेशराजा
स्व_स्वामीसंबन्धः हस्तिपकः
जातिः मनुष्यः
अन्यसंबन्धाः सेवकः
गुण-गुणी-भावः राज्यगुणः
पति_पत्नीसंबन्धः राज्ञी
जन्य_जनकसंबन्धः राज्ञः_बाला
शब्दकल्पद्रुमः
Sanskrit
राजा, [न्]
पुं,
(राजते शोभते इति राज् +“कणिन् युवृषितक्षिराजीति ।” उणा० ।१५६ इति कणिन् ।) प्रभुः नृपतिः (यथा-रघुः ११ ।“यथा प्रह्लादनात् चन्द्रः प्रतापात् तपनोयथा ।तथैव सोऽभूदन्वर्थो राजा प्रकृतिरञ्जनात्
”)क्षत्त्रियः (यथा, मनुः ३२ ।“शर्म्मवद्ब्राह्मणस्य स्यात् राज्ञो रक्षासम-न्वितम् ।वैश्यस्य पुष्टिसंयुक्तं शूद्रस्य प्रैष्यसंयुतम्
”)चन्द्रः यक्षः इन्द्रः इति मेदिनी
उत्तर-पदे चेत् श्रेष्ठार्थवाचकः
अथ नृपतेःपर्य्यायः राट् पार्थिवः क्ष्माभृत् नृपः ५भूषः महीक्षित् इत्यमरः
नरपतिः ८पार्थः नृपतिः १० भूपालः ११ भूभृत् १२महीपतिः १३ नाभिः १४ नाराट् १५भूमीन्द्रः १६ नरेन्द्रः १७ नायकाधिपः १८ ।इति शब्दरत्नावली
प्रजेश्वरः १९ भूमिपः २०इनः २१ दण्डधरः २२ अवनीपतिः २३स्कन्दः २४ स्कन्धः २५ भूभुक् २६ अर्थपतिः २७ ।इति जटाधरः
*
अस्य व्युत्पत्तिर्यथा, --“महता राजराज्येन पृथुर्वैण्यः प्रतापवान् ।सोऽभिषिक्तो महातेजा विधिवद्धर्म्मकोविदैः
पित्रापरञ्जितास्तस्य प्रजास्तनानुरञ्जिताः ।अनुरागात्ततस्तस्य नाम राजेत्यभाषत
”इति विष्णुपुराणे अंशे १३ अध्यायः
अपि ।“रागी राजसिकं स्वर्ग्यं कुरुते कर्म्म रागतः ।रागान्धाश्च राजसिकास्तेन राजा प्रकीर्त्तितः
”इति ब्रह्मवैवर्त्ते गणपतिखण्डे ३५ अध्यायः
*
तस्य सर्व्वपितृत्वं यथा, --शच्युवाच ।“शृणु वत्स ! महाराज हे तात ! भयभञ्जन ।भयत्राता राजा सर्व्वेषां पालकः पिता
भ्रष्टश्रीश्च महेन्द्रोऽद्य त्वञ्च स्वर्गे नृपोऽधुना ।यो राजा पिता पाता प्रजानामेष निश्चयः
”इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ५९ अध्यायः
पृथोरेवादौ राजा इति संज्ञा आसीत् यथा, “देवैर्विप्रैस्तथा सर्वैरभिषिक्तो महामनाः ।राज्ञाञ्चैवाधिकारे वै पृथुर्वैण्यः प्रतापवान्
तदा पित्रा प्रजाः सर्व्वाः कदा नैवानुरञ्जिताः ।तेनानुरञ्जिताः सर्व्वाः सुखैर्म्मुमुदिरे तदा ।अनुरागात्तस्य वीरस्य नाम राजेत्यभाषत
”इति पाद्मे भूखण्डे २९ अध्यायः
*
अथ राजलक्षणम् ।“सोऽपि कृष्णपटे बालं दृष्ट्वाशीविषपीडितम् ।नरेन्द्रलक्षणोपेतं चिन्तामाप नरेश्वरः
तस्यास्यं चन्द्रविम्बाभं सुभ्रु रम्यं समुन्नसम् ।नीलाः केशाः कुञ्चिताश्च समा दीर्घास्तर-ङ्गिताः
राजीवनेत्रयुगलो विम्बोष्ठपुटसंवृतः ।चतुर्द्दंष्ट्रश्चतुष्किष्कुर्द्दीर्घास्यो दीर्घबाहुकः
चतुर्लेखाकरो मास्ययववृद्धैकपर्व्वकः ।शिरालपादो गम्भीरः सूक्ष्मत्वक् त्रिबलीधरः
”इति मार्कण्डेयपुराणे हरिश्चन्द्रोपाख्याना-ध्यायः
*
अन्यच्च ।“अस्वेदिनौ मृदुतरौ कमलोदरसन्निभौ ।श्लिष्टाङ्गुली ताम्रनखौ पादावुष्णौ शिरोज्-झितौ ।कूर्म्मोन्नतौ गूढगुल्फौ सुपार्ष्णी नृपतेः स्मृतौ
मृदुलोमा समा जङ्घा तथा करिकरप्रभा ।उरवो जानवस्तुल्या नृपस्योपचिताः स्मृताः
कोषगूढे नृपो दीर्घैर्भुग्नैश्च धनवर्ज्जितः ।समाभ्यां क्षितिपः प्रोक्तः प्रलम्बेन शताब्दवान्
सशब्दनिःशब्दमूत्राः स्यर्द्दरिद्राश्च मानवाः ।एकद्वित्रिचतुःपञ्चषड्धारादिभिरेव
दक्षिणावर्त्तचलितशुभ्राभिश्च नृपाः स्मृताः ।नृपाः पुष्पगन्धिशुक्रा मधुगन्धे धनं बहु
मांसलस्फिक् सुखी स्याच्च सिंहस्फिक् भूपतिःस्मृतः ।भवेत् सिंहकटी राजा निस्वः कपिकटिर्नरः
नृपाश्चोन्नतकक्षाः स्युर्ज्जिह्मा विषमकक्षकाः ।वलिमध्यगता नाभिः शूलधारां करोति हि
अधो गवाढ्यं कुर्य्याच्च नृपत्वं पद्मकर्णिका ।अनुद्धतैश्चुचुकैश्च भवन्ति सुभगा नराः ।निर्द्धना विषमैर्दीर्घैः पीतोपचितकैर्नृपाः
समोन्नतञ्च हृदयमकम्प्यं मांसलं पृथु ।नृपाणामधमानाञ्च खरलोम शिरालकम्
कम्बुग्रीवश्च नृपतिर्लम्बकर्णोऽतिभक्षणः ।आजानुलम्बिनौ बाहू वृत्तौ पीनौ नृपेश्वरे
मणिबन्धैर्निगूढैश्च सुश्निष्टशुभसन्धिभिः ।नृपा हीनैः करच्छेदमशब्दैर्धनवर्ज्जिताः
निस्वाश्चक्रनखैस्तद्वद्वर्णैश्च परतर्ककाः ।ताम्रैर्भूपा धनाढ्याश्च अङ्गुष्ठैः सयवैस्तथा
घनाङ्गुलिश्च सधनस्तिस्रो रेखाश्च यस्य वै ।नृपतेः करतलगा मणिबन्धे समुत्थिताः
शङ्खातपत्रशिविका गजपद्मोपमा नृपे ।कुम्भाङ्कुशपताकाभा मृणालाभा निरीश्वरे
दामाभाश्च गवाढ्यानां स्वस्तिकाभा नृपेश्वरे ।चक्रासितोमरधनुःकुन्ताभा नृपतेः करे
मांसलैश्च धनोपेता अवक्रैरधरैर्नृपाः ।विम्बोपमैश्च स्फुटितैरोष्ठै रूक्षैश्च खण्डितैः
विवर्णैर्धनहीनाश्च दन्ताः स्निग्धा घनाः शुभाः ।तीक्ष्णा दंष्ट्राः समाः श्रेष्ठा जिह्वा रक्ता समाशुभा
श्लक्ष्णा दीर्घा विज्ञेया तालु श्वेतं धनेश्वरे ।कृष्णा परुषा वक्त्रं समं सौम्यञ्च संवृतम्
भूपानाममलं श्लक्ष्णं विपरीतञ्च दुःखिनाम् ।शङ्कुकर्णाश्च राजानो रोमकर्णाः शतायुषः
कराः स्निग्धावनद्धैश्च व्यालम्बैर्म्मांसलैर्नृपाः ।स्त्रीमृत्युश्चिपिटनास ऋज्वी भाग्यवतां भवेत्
अल्पच्छिद्रा सुपुटा अवक्रा नृपेश्वरे ।संवृतैश्च ललाटैश्च कृपणा उन्ननैर्नृपाः
ललाटोपसृतास्तिस्रो रेखाः स्युः शतवर्षिणाम् ।नृपत्वं स्याच्चतसृभिरायुः पञ्चनवत्यथ
छत्राकारैः शिरोभिस्तु नृपा निम्नशिरा धनी ।षडुन्नतश्चतुर्ह्नस्वो रक्तः सप्तस्वसौ नृपः
”इति गारुडे नरस्त्रीलक्षणं नाम ६६ अध्यायः
अपि ।“पार्थिवस्य तु वक्ष्यामि भृत्यानाञ्चैव लक्षणम् ।सर्व्वाणि यो महीपालः सम्यङ्नित्यं परीक्षयेत्
राज्यं पालयते नित्यं सत्यधर्म्मपरायणः ।निर्ज्जित्य परसैन्यानि क्षितिं धर्म्मेण पालयेत्
पुष्पं पुष्पं विचिन्वीयान्मूलच्छेदं कारयेत् ।मालाकार इवारण्ये यथाङ्गारकारकः
दुग्धी क्षीरन्तु भुञ्जीत विक्रेतारो भुञ्जते ।परराष्ट्रं महीपालो कालव्यालांश्च दूषयेत्
नोधश्छिन्द्यात्तु यो धेन्वाः क्षीरार्थी लभते पयः ।एवं राष्ट्रमयोगेन पीड्यमानं वर्द्धते
तस्मात् सर्व्वप्रयत्नेन पृथिवीमनुपालयेत् ।पालकस्य भवेद्भूमिः कीर्त्तिरायुर्यशो बलम्
अभ्यर्च्य विष्णुं धर्म्मात्मा गोब्राह्मणहिते रतः ।प्रजाः प्रालयितुं शक्तः पार्थिवो यो जितेन्द्रियः
ऐश्वर्य्यमध्रुवं प्राप्य राजा धर्म्मे मतिञ्चरेत्
”इति गारुडे १११ अध्यायः
*
ब्रह्माभिषिक्तराजानो यथा, --श्रीपराशर उवाच ।“यदाभिषिक्तः पृथुः पूर्व्वं राज्ये महर्षिभिः ।ततः क्रमेण राज्यानि ददौ लोकपितामहः
नक्षत्रग्रहविप्राणां वीरुधां वाप्यशेषतः ।सोमं राज्ये दधाद्ब्रह्मा यज्ञानां तपसामपि
राज्ञां वैश्रवणं राज्ये जलानां वरुणं तथा ।आदित्यानां पतिं विष्णुं वसूनामथ पावकम्
प्रजापतीनां दक्षन्तु वासवं मरुतामपि ।दैत्यानां दानवानाञ्च प्रह्लादमधिपं ददौ
पितॄणां धर्म्मराजानं यमं राज्येऽभ्यसेचयत् ।ऐरावतं गजेन्द्राणामशेषाणां पतिं ददौ
पतत्रीणाञ्च गरुडं देवानामपि वासवम् ।उच्चैःश्रवसमश्वानां वृषभन्तु गवामपि
शेषन्तु नागराजानं मृगाणां सिंहमीश्वरम् ।वनस्पतीतां राजानं प्लक्षमेवाभ्यषेचयत्
एवं विभज्य राज्यानि दिशां पालाननन्तरम् ।प्रजापतिपतिर्ब्रह्मा स्थापयामास सर्व्वतः
पूर्व्वस्यां दिशि राजानं वैराजस्य प्रजापतेः ।दिशःपालं सुधन्वानं पुत्त्रं वै सोऽभ्यषेचयत्
दक्षिणस्यां दिशि तथा कर्द्दमस्य प्रजापतेः ।पुत्त्रं शङ्खपदं नाम राजानं सोऽभ्यषेचयत्
पश्चिमायां दिशि तथा रजसः पुत्त्रमच्युतम् ।केतुमन्तं महात्मानं राजानमभिषिक्तवान्
तथा हिरण्यरोमाणं पर्ज्जन्यस्य प्रजापतेः ।उदीच्यां दिशि दुर्द्धर्षं राजानमभिषिक्तवान्
तैरियं पृथिवी सर्व्वा सप्तद्वीपा सपत्तना ।यथाप्रदेशमद्यापि धर्म्मतः प्रतिपाल्यते
एते सर्व्वे प्रवृत्तस्य स्थितौ विष्णोर्म्महात्मनः ।विभूतिभूता राजानो ये चान्ये मुनिसत्तम
ये भविष्यन्ति येऽतीताः सर्व्वभूतेश्वरा द्विज ।ते सर्व्वे सर्व्वभूतस्य विष्णोरंशा द्विजोत्तम
”इति श्रीविष्णुपुराणे प्रथमेऽंशे २२ अध्यायः
*सूत उवाच ।“एवं सृष्टासु सर्व्वासु स्थावरासु चरासु ।ब्रह्मा क्रमेण राज्यानि व्यादेशमुपचक्रमे
द्विजानां वीरुधाञ्चैव नक्षत्राणां ग्रहैः सह ।यज्ञानां तपसाञ्चैव सोमं राज्येऽभ्यषेचयत्
बृहस्पतिञ्च सर्व्वेषां ददावङ्गिरसामपि ।भृगूणामाधिपत्ये काव्यं राज्येऽभ्यषेचयत्
आदित्यानां पुनर्व्विष्णुं वसूनामथ पावकम् ।प्रजापतीनां दक्षञ्च मरुतामथ वासवम्
दैत्यानामथ राजानं प्रह्लादं दितिनन्दनम् ।नारायणन्तु साध्यानां रुद्राणां वृषभध्वजम्
मृगाणामथ शार्दूलं गरुडं पततां वरम् ।गन्धर्व्वाणां चित्ररथं नागानामथ वासुकिम्
गन्धानां मरुतञ्चैव भूतानाञ्च शरीरिणाम् ।सर्व्वेषां दंष्ट्रिणां शेषं सर्पाणाञ्चैव तक्षकम्
सागराणां नदीनाञ्च मेघानां वर्षितस्य ।आदित्यानामन्यतमं पर्ज्जन्यमभिषिक्तवान् ।सर्व्वाप्सरोगणानाञ्च कामदेवं तथा प्रभुम्
ऋतूनामधिमासानां दिवसानां तथैव ।पक्षाणाञ्च क्षपाणाञ्च मुहूर्त्ततिथिपर्व्वणाम्
कलाकाष्ठाप्रमाणानां गतेरयनयोस्तथा ।गणितस्याथ योगस्य चक्रे संवत्सरं प्रभुम्
प्रजापतेर्व्विरजसः पूर्व्वस्यामभिषेचयन् ।पुत्त्रं नाम्ना सुधामानं राजानञ्चाभ्यषेचयत्
यथाप्रदेशं राजानं दक्षिणस्यां प्रजापतेः ।कर्द्दमस्य शङ्खपदं पुत्त्रं राज्येऽभिषिक्तवान्
पश्चिमस्यां दिशि तथा रजसः पुत्त्रमुत्तमम् ।केतुमन्तं महात्मानं राजानं ह्यभ्यषेचयत्
तथा हिरण्यरोमाणं पर्ज्यन्यस्य प्रजापतेः ।दिगुत्तरायां पुत्त्रन्तु राजानमभ्यषेचयत्
मानुषाणामधिपतिं चक्रे वैवस्वतं मनुम् ।तैरेव पृथिवी सर्व्वा सप्तद्बीपा सपत्तना ।यथाप्रदेशमद्यापि धर्म्मेण परिगृह्यते
स्वायम्भुवेऽन्तरे पूर्व्वं ब्रह्मणा तेऽभिषेचिताः ।इन्द्रादिलोकपालास्तु पुनर्व्वैवस्वतेऽन्तरे
राजसूयेऽभिषिक्तस्तु पृथुः पूर्व्वं महर्षिभिः ।मनुभिंर्व्विधिना तद्बत् सोऽधिराजः प्रताप-वान्
”इत्याद्ये वह्निपुराणे वराहप्रादुर्भावनामाध्यायः
राजकर्त्तव्यकर्म्माणि यथा, --मदालसोवाच ।“वत्स ! राज्ञाभिषिक्तेन प्रजारञ्जनमादितः ।कर्त्तव्यमविरोधेन स्वधर्म्मञ्च महीभृता
”अविरोधेन धर्म्मशास्त्राविरोधेन ।“व्यसनानि परित्यज्य सप्तमूलहराणि वै ।आत्मा रिपुभ्यः संरक्ष्यो वहिर्मन्त्रविनिर्गमात्
अष्टधा नाशमाप्नोति स्वचक्रस्पन्दनाद्यथा ।तथा राजाप्यसन्दिग्धं वहिर्मन्त्रं विनिगमात्
दुष्टादुष्टांश्च जानीयादमात्यानरिदोषतः ।चरैश्चरास्तथा शत्रोरन्वेष्टव्याः प्रयत्नतः
विश्वासो तु कर्त्तव्यो राज्ञा मित्रात्मबन्धुषु ।कार्य्ययोगादमित्रेषु विश्वसीत नराधिपः
स्थानवृद्धिक्षयज्ञेन षाड्गुण्यविदितात्मना ।भवितव्यं नरेन्द्रेण कामवशवर्त्तिना
प्रागात्मा मन्त्रिणश्चैव ततो भृत्यो महीभृता ।जेयाश्चानन्तरं पौरा विरुध्येत ततोऽरिभिः
यस्त्वेतानविजित्यैव वैरिणो विजिगीषते ।सोऽजितात्मा जितामात्यः शत्रुवर्गेण बाध्यते
तस्मात् कामादयः पूर्व्वं जेयाः पुत्त्र महीभृता ।तज्जये हि जयो राज्ञो राजा नश्यति तैर्जितः
कामः क्रोधश्च लोभश्च मदो मानस्तथैव ।हर्षश्च शत्रवो ह्येते नाशाय कुमहीभृताम्
कामप्रसक्तमात्मानं स्मृत्वा दण्डं निपातितम् ।निवर्त्तयेत्तथा क्रोधादनुह्नादं हतात्मजम्
हतमैलं तथा लोभान्मदाद्वेणं द्विजैर्हतम् ।मानादनायुषः पुत्त्रं हतं हर्षात् पुरञ्जयम्
गभिर्जितैर्जितं सर्व्वं मरुत्तेन महात्मना ।स्मृत्वा विवर्ज्जयेदेतान् षड्दोषांश्च महीपतिः
काककोकिलभृङ्गाणां वकव्यालशिखण्डिनाम् ।हंसानां लोहकुट्टानां शिक्षेत चरितं नृपः
”काकात् सर्व्वशङ्किता कोकिलात् माधुर्य्यम् ।भृङ्गात् प्रपीडया अर्थादानम् वकात् शत्रु-ग्रहणे एकाग्रताम् व्यालात् दुरुपसर्पित्वम् ।शिखण्डिनश्चित्रतां सर्पग्रहणाय मूकतां रात्रा-वात्मगोपनञ्च हंसस्य सारग्राहित्वम् लोह-कुट्टात् सन्धानम्
“कौशिकस्य क्रियां कुर्य्याद्विपक्षे मनुजेश्वरः ।चेष्टां पिपीलिकानाञ्च काले भूपः प्रदर्शयेत्
”कौशिकस्य उलूकस्य रात्रौ काकावस्कन्दनम् ।पिपीलिकानां सेनाबहुत्वं सर्पभक्षणञ्च ।“ज्ञेयाग्निविस्फुलिङ्गानां बीजचेष्टा शाल्मलेः ।चन्द्रसूर्य्यस्वरूपश्च नीत्यर्थे पृथिवीक्षिता
”अग्निविस्फुलिङ्गात् दूरात् दाहः बीजान्मह-दर्थनिष्पादनम् उष्णकाले चन्द्रः सुखदायीशीतकाले एवं सूर्य्यः शीते सुखदायीउष्णकाले एवं कालानुसारेण सुखदुःख-दातृत्वम्
“वधकात् पद्मशरभशूलिन्या गुर्व्विणीस्तनात् ।प्रजा नृपेण चादेया तथा चण्डालयोषितः
”वधकात् निर्घृणत्वम् पद्मात् कण्टकगोपनंस्मितमुखता शरभात् हत्वापि शत्रून्नोद्रेकः यथा शरभोऽष्टापदः परोन्नतिं नसहते शूलिन्या आर्त्तिज्ञापनम् गुर्व्विण्यास्तनात् कालेऽर्थादानम् चण्डालयोषित्शौनकी छागशिरो दर्शयित्वा अन्यद्विक्रीणाति ।“शक्रार्कयमसोमानां तद्बद्वायोर्महीपतिः ।रूपाणि पञ्च कुर्व्वीत महीपालनकर्म्मणि
यथेन्द्रश्चतुरो मासान् वार्य्यौघेणैव भूतलम् ।आप्याययेत्तथा लोकान् परिचारैर्महीपतिः
”परिचारैरर्थदानादिभिः ।“मासानष्टौ यथा सूर्य्यस्तोयं हरति रश्मिभिः ।सूर्य्येणैवाभ्युपायेन तथा शुल्कादिना नृपः
यथा यमः प्रियद्बेष्यौ प्राप्ते काले नियच्छति ।तथा प्रियाप्रियौ राजा दुष्टादुष्टे समो भवेत्
पूर्णेन्दुमालोक्य यथा प्रीतिमान् जायते नरः ।एवं यत्र प्रजाः सर्व्वा निर्व्वृत्तास्तच्छशिव्रतम्
मारुतः सर्व्वभूतेषु निगूढश्चरते यथा ।एवं चरेन्नृपश्चारैः पौरामात्यारिबन्धुषु
लोभार्थैर्न कामार्थैर्नार्थार्थैर्यस्य मानसम् ।पदार्थैः कृष्यते धर्म्मान् राजा स्वर्गमृच्छति
”लोभादिप्रयोजनैः ।“उत्पथग्राहिणो मूढान् स्वधर्म्माच्चलितान्नरान् ।यः करोति निजे धर्म्म राजा स्वर्गमृच्छति
”उत्पथग्राहिणः पापिनः ।“वर्णधर्म्मा सीदन्ति यस्य राष्ट्रे तथाश्रमाः ।राज्ञस्तस्य सुखं तात परत्रेह शाश्वतम्
एतद्राज्ञः परं कृत्यं तथैतद्वृद्धिकारणम् ।स्वधर्म्मे स्थापनं नॄणां चाल्यते कुबुद्धिभिः
पालनेनैव भृत्यानां कृतकृत्यो महीपतिः ।सम्यक् पालयिता भागं धर्म्मस्याप्नोति वै यतः
एवमाचरते राजा चातुर्व्वर्णस्य रक्षणैः ।स सुखी विहरत्येष शक्रस्येति सलोकताम्
”इति मार्कण्डेयपुराणे मदालसोपाख्यानाध्यायःतट्टीका
*
राजाभिषेकस्य विहित-नक्षत्राणि यथा, --“पुष्यानुराधा ज्येष्ठा रोहिणी चोत्तरात्रयम् ।हस्ताश्विनी रेवती नृपाभिषेचनोत्तमाः
”इति ज्योतिःसारसंग्रहः
अस्य विवरणं अभिषेकशब्दे द्रष्टव्यम्
*
राज्ञि वर्णनीयानि यथा, --“नृपे कीर्त्तिप्रतापाज्ञादुष्टशास्तिविवेकिताः ।धर्म्मप्रयाणसंग्रामशस्त्राद्याः सनयक्षमाः
प्रजारागोऽरिशैलादिवासोऽरिपुरशून्यता ।औदार्य्यधैर्य्यगाम्भीर्य्यशौर्य्यैश्वर्य्योद्यमादयः
”इति कविकल्पलतायाम् स्तवके कुसुमम्
*
राजान्नभक्षणे दोषो यथा, --वाराह उवाच ।“शुद्धा भागवता भूत्वा मम कर्म्मपरायणाः ।ये तु भुञ्जन्ति राजान्नं लोभेन भयेन
आपद्गता हि भुञ्जीत राजान्नन्तु वसुन्धरे ।दशवर्षसहस्राणि पच्यन्ते नरके नराः
भगवद्वचनं श्रुत्वा सा मही शंसितव्रता ।उवाच मधुरं वाक्यं सर्व्वलोकसुखावहम्
धरण्युवाच ।शृणु तत्त्वेन मे देव हृदये हि व्यवस्थितम् !को नु दोषो हि राज्ञान्तु तन्मे त्वं वक्तुमर्हसि
ततो भूम्या वचः श्रुत्वा सर्व्वधर्म्मविदां वरः ।प्राह नारायणो वाक्यं धर्म्मकामां वसुन्धराम्
वाराह उवाच ।शृणु सुन्दरि ! तत्त्वेन गुह्यमेतदनिन्दिते ।राजान्नन्तु भोक्तव्यं शुभैर्भागवतैः सदा
यद्यप्येष समत्वेन राजा लोके प्रवर्त्तते ।राजसस्तामसो वापि कुर्व्वन् कर्म्म सुदारुणम्
अपि वा गर्हितं तेन राजान्नन्तु वसुन्धरे ।धर्म्मसन्धारणार्थाय तु मे रोचते भुवि
ततोऽन्यं संप्रवक्ष्यामि तच्छणुष्व वसुन्धरे ।यथा राज्ञान्तु भोज्यं वै शुद्धैर्भागवतैः शुभैः
स्थापयित्वा तु मां देवि विधिदृष्टेन कर्म्मणा ।धनधान्यप्रवृद्धानि दत्त्वा भागवतैरपि
सिद्धं भागवतैश्चान्नं मम प्रापणशेषकम् ।भुञ्जानस्तु वरारोहे पापेन लिप्यते
एवं विष्णुवचः श्रुत्वा धरणी शंसितव्रता ।वाराहरूपिणं देवं पत्युवाच वरानना
*
तदन्नभोजनप्रायश्चित्तानि यथा, --धरण्युवाच ।“राजान्नन्तु ततो भुक्त्वा शुद्धो भागवतः शुचिः ।कर्म्मणा केन शुद्ध्येत तन्मे ब्रूहि जनार्द्दन
वाराह उवाच ।शृणु तत्त्वेन मे देवि यन्मां त्वं भीरु भाषसे ।तरन्ति मनुजा येन राजान्नस्योपभुञ्जकाः
एकं चान्द्रायणं कृत्वा तप्तकृच्छ्रञ्च पुष्कलम् ।कुर्य्यात् सान्तपनञ्चैकं शीघ्रं मुञ्चति किल्विषात्
भुक्त्वा वै राज्ञोऽन्नानि इदं कर्म्म समारभेत् ।न तस्यैवापराधोऽस्ति वसुधे वै वचो मम
एवमेव भोक्तव्यं राजान्नन्तु कदाचन ।ममात्र प्रियकामाय यदीच्छेत् परमां गतिम्
”इत्यादि वाराहे राजान्नभक्षणप्रायश्चित्तं नामा-ध्यायः
*
अपि ।“राजान्नं तेज आदत्त शूद्रान्नं ब्रह्मवर्च्चसम् ।इत्याद्यभिधाय, --भुक्त्वा चान्यतमस्यान्नममत्या क्षपयेत्त्र्यहम् ।मत्या भुक्त्वा चरेत् कृच्छ्रं रेतो विण्मूत्रमेव
”इति प्रायश्चित्ततत्त्वम्
(राजनम् यथा, ऋग्वेदे १० ४९ ।“अहं भुवं यजमानस्य राजनि ।”“अहं यजमानस्य राजनि राजनार्थं भुवंअभवं समर्थ इति शेषः ।” इति तद्भाष्येसायणः
)