विराट् (virAT)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Chandas
Sanskritसम-वृत्तम्, 40, 10
मात्राः - 16
सङ्ख्याजातिः - वीरज/ पङ्क्तिः
दा दा दा द द दा द दा द दा
लक्षणम् - म्सौ ज्गौ शुद्धविराडिदं मतम् । २५
लक्षण-मूलम् - वृत्तरत्नाकरः
उदाहरणम् - कुर्वन् राज्यमपीह संततं कामक्रोधविवर्जितः सदा । मित्रो मे न समोभयानतः(?) सत्यं शुद्धविराडसि प्रभो ॥ २५
Wordnet
Sanskrit विशाल, बृहत्, विराट्
आकारमात्रादिना विस्तारः।
"सुरसां वञ्चितुं हनुमता विशालं रूपं गृहीतम्।"
क्षत्रियः, राजन्यः, क्षत्रः, बाहुजः, विराट्, मूर्धाभिषिक्तः, द्विजलिङ्गी, राजा, नाभिः, नृपः, मूर्धकः, पार्थिवः, सार्वभौमः
हिन्दूधर्मशास्त्रानुसारेण चातुर्वर्ण्यव्यवस्थायां द्वितीयः वर्णः तद्वर्णीयानां कर्म ब्राह्मणादीनाम् अन्यवर्णीयानां शत्रोः रक्षणम् इति।
"शरणागतस्य रक्षा क्षत्रियस्य धर्मः अस्ति।"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
पुराणम्
Englishविराट् १ / VIRĀṬ I. The son of the daughter of priyavrata. svāyambhuva manu married śatarūpā. Two sons priyavrata and uttānapāda were born to them. A daughter was born to priyavrata. prajāpati kardama married her. three sons named samrāṭ, kukṣi and virāṭ were born to them. (agni purāṇa, Chapter 18).
विराट् २ / VIRĀṬ II. (virāṭ puruṣa). virāṭ puruṣa is the first incarnation of brahmā. (For details see under sṛṣṭi).
शब्दकल्पद्रुमः
Sanskritविराट्, [ज्] (विशेषेण राजते इति । राजदीप्तौ + क्विप् ।) क्षत्त्रियः । इत्यमरः ॥
स्थूल-शरीरसमष्ट्युपहितचैतन्यम् । इति वेदान्त-सारः ॥
* ॥
(ब्रह्मणो विराड्मूर्त्तिवर्णनं यथा, शङ्करविजये ६ प्रकरणे । “व्यूहमूर्त्तिर्विराट्चतुर्द्दशलोकात्मकः । तस्य ब्रह्माण्डकर्परपर्य्यन्त-माकाशः शिरः, चन्द्रसूर्य्यौ नेत्रे, प्रागादिदिशःश्रोत्रे, अन्तरीक्षलोको घ्राणं, मेरुः पृष्ठवंशः, शिखरत्रयं भुजकण्ठाः, प्रत्यन्तपर्वताः पृष्ठपार्श्व-वक्षांसि, उपपर्वताः शाल्मल्यादीनि, समुद्रा रक्तं, लता स्नायूनि, तृणवृक्षाः रोमाणि, भूमिःकुक्षिः, द्वीपा वलयः, भूरेखा रोमराजिः, भूमध्यप्रदेशो वस्तिः, शेषः शिश्नं, दिग्दन्ति-पङ्क्तिर्नितम्बोरुभागः, अतलादिसप्तकं कटि-पादान्तरालः, कूर्म्मः पादौ इति ॥
” * ॥
) महा-विराजुत्पत्तिर्यथा, --श्रीनारायण उवाच ।“अथ डिम्बो जले तिष्ठन् यावद्वै ब्रह्मणो वयः ।ततः स काले सहसा द्विधा भूतो बभूव ह ॥
तन्मध्ये शिशुरेकश्च शतकोटिरविप्रभः ।क्षणं रोरूयमानश्च स्तनन्धः पीडितः क्षुधा ॥
पितृमातृपरित्यक्तो जलमध्ये निराश्रयः ।ब्रह्माण्डसंघनाथो यो ददर्शोर्द्ध्वमनाथवत् ॥
स्थूलात् स्थूलतमः सोऽपि नाम्ना देवो महा-विराट् ।परमाणुर्यथा सूक्ष्मात् परः स्थूलात्तथाप्यसौ ॥
तेजसा षोडशांशो यः कृष्णस्य परमात्मनः ।आधारोऽसंख्यविश्वानां महान् विष्णुश्च प्राकृतः ।प्रत्येकं लोमकूपेषु विश्वानि निखिलानि च ।तस्यापि तेषां संख्याञ्च कृष्णो वक्तुं न हि क्षमः ॥
संख्या चेद्रजसाभस्ति विश्वानां न कदाचन ।ब्रह्मविष्णुशिवादीनां तथा संख्या न विद्यते ॥
प्रतिविश्वेषु सन्त्येवं ब्रह्मविष्णुशिवादयः ।पातालाद्ब्रह्मलोकान्तं ब्रह्माण्डं परिकीर्त्तितम् ॥
अत ऊर्द्ध्वे च वैकुण्ठो ब्रह्माण्डाद्वहिरेव च ।स च सत्यस्वरूपश्च शश्वन्नारायणो यथा ॥
अत ऊर्द्ध्वञ्च गोलोकः पञ्चाशत्कोटियोजनात् ।नित्यं सत्यस्वरूपश्च यथा कृष्णस्तथाप्ययम् ॥
सप्तद्वीपमिता पृथ्वी सप्तसागरसंयुता ।ऊनपञ्चाशदुपद्वीपासंख्यशैलसमन्विता ॥
ऊर्द्ध्वं स्वर्गाः सप्त लोका ब्रह्मलोकसमन्विताः ।पातालानि च सप्ताधश्चैवं ब्रह्माण्डमेव च ॥
ऊर्द्ध्वं धराया भूर्लोको भुवर्लोकस्ततः परः ।ततः परश्च स्वर्लोको जनो लोकस्ततः परः ॥
ततः परस्तपोलोकः सत्यलोकस्ततः परः ।ततः परो ब्रह्मलोकस्तप्तकाञ्चननिर्म्मितः ॥
एवं सर्व्वं कृत्रिमञ्च धराभ्यन्तरमेव च ।तद्विनाशे विनाशश्च सर्व्वेषामेव नारद ॥
जलबुद्वुदवत् सर्व्वं विश्वसंघमनित्यकम् ।नित्यौ वैकुण्ठगोलोकौ सत्यौ शश्वदकृत्रिमौ ॥
प्रतिलोमकूपे ब्रह्माण्डं प्रत्येकमस्य निश्चितम् ।एषां संख्या न जानाति कृष्णोऽन्यस्यापि काकथा ॥
प्रत्येकं प्रतिब्रह्माण्डे ब्रह्मविष्णुशिवादवः ।तिस्रः कोट्यः सुराणाञ्च संख्याः सर्व्वत्र पुत्त्रक ॥
दिगीशाश्चैव दिक्पाला नक्षत्राणि ग्रहादयः ।भुवि वर्णाश्च चत्वारोऽप्यधो नागाश्चराचराः ॥
अथ काले च स विराट् ऊर्द्ध्वं दृष्ट्वा पुनः पुनः ।डिम्बान्तरञ्च शून्यञ्च न द्बितीयञ्च कञ्चन ॥
चिन्तामवाप क्षुद्युक्तो रुरोद च पुनः पुनः ।ज्ञानं प्राप्य तदा दध्यौ कृष्णं परमपूरुषम् ॥
ततो ददर्श तत्रैव ब्रह्मज्योतिः सनातनम् ।नवीनजलदश्यामं द्विभुजं पीतवाससम् ॥
सस्मितं मुरलीहस्तं भक्तानुग्रहकारकम् ।जहास बालकस्तुष्टो दृष्ट्वा जनकमीश्वरम् ॥
वरं तस्मे ददौ तुष्टो वरेशः समयोचितम् ।मत्समो ज्ञानयुक्तश्च क्षुत्पिपासादिवर्ज्जितः ॥
ब्रह्माण्डासंख्यनिलयो भव वत्स लयावधि ।निष्कामो निर्भयश्चैव सर्व्वेषां वरदो वरः ॥
जरामृत्युरोगशोकपीडादिवर्ज्जितो भव ।इत्युक्त्वा च द्रक्षकर्णे महामन्त्रं षडक्षरम् ॥
त्रिःकृत्वश्च प्रजजाप वेदागमवरं परम् ।प्रणवादिचतुर्थ्यन्तं कृष्ण इत्यक्षरद्वयम् ॥
वह्निजायान्तमिष्टञ्च सर्व्वविघ्नहरं परम् ।मन्त्रं दत्त्वा तदाहारं कल्पयामास स प्रभुः ॥
श्रूयतां मद्वचः श्रुत्वा निबोध कथयामि ते ।प्रतिविश्वेषु यन्नैवद्यं ददाति विष्णवे जनः ॥
तत्षोडशांशं विषयिणो विष्णोः पञ्चदशस्य वै ।निर्गुणस्यात्मनश्चैव परिपूर्णतमस्य च ॥
नैवेद्येन च कृष्णस्य नहि किञ्चित् प्रयोजनम् ।यद्यद्ददाति नैवेद्यं यस्मै देवाय यो जनः ॥
स च खादति तत् सर्व्वं लक्ष्मीदृष्ट्या पुनर्भवेत् ।तञ्च मन्त्रं वरं दत्त्वा तमुवाच पुनर्व्विभुः ॥
वरमन्यं किमिष्टन्ते तन्मे ब्रूहि ददामि च ।कृष्णस्य वचनं श्रुत्वा तमुवाच महाविराट् ॥
अदन्तो बालकस्तत्र वचनं समयोचितम् ॥
श्रीमहाविराडुवाच ।वरं मे त्वत्पदाम्भोजे भक्तिर्भवतु निश्चला ।सन्ततं यावदायुर्मे क्षणं वा सुचिरं हि वा ॥
त्वद्भक्तियुक्तो यी बालो जीवन्मुक्तश्च सन्ततम् ।तद्भक्तिहीनो मूर्खश्च जीवन्नपि मृतो हि सः ॥
किन्तज्जपेन तपसा यज्ञेन पूजनेन च ।कृष्णभक्तिविहीनस्य मूर्खस्य जीवनं वृथा ॥
येनात्मना जीवितश्च तमेव नहि मन्यते ।यावदात्मा शरीरेऽस्ति तावत् स शक्तिसंयुतः ॥
पश्चाद्यान्ति गते तस्मिन् न स्वतन्त्राश्च शक्तयः ।स च त्वाञ्च महाभाग सर्व्वात्मा प्रकृतेः परः ॥
स्वेच्छामयश्च सर्व्वेभ्यो ब्रह्मज्योतिः सनातनः ।इत्युक्त्वा बालकस्तत्र विरराम च नारद ॥
उवाच कृष्णः प्रत्युक्तिं मधुरां श्रुतिसुन्दरीम् ॥
श्रीकृष्ण उवाच ।सुचिरं सुस्थिरं तिष्ठ यथाहं त्वं तथा भव ।ब्रह्मणोऽसंख्यपाते च पातस्ते न भविष्यति ॥
अंशेन प्रतिब्रह्माण्डे त्वञ्च क्षुद्रविराड्भव ।तन्नाभिपद्मे ब्रह्मा च विश्वस्रष्टा भविष्यति ॥
ललाटे ब्रह्मणश्चैव रुद्राश्चैकादशैव तु ।शिवांशेन भविष्यन्ति सृष्टिसञ्चारणाय वै ॥
कालाग्निरुद्रस्तेष्वेको विश्वसंहारकारकः ।पाता विष्णुश्च विषयी क्षुद्रांशेन भविष्यति ॥
मद्भक्तियुक्तः सततं भविष्यसि वरेण मे ।ध्यानेन कमनीयं मां नित्यं द्रक्ष्यसि निश्चितम् ॥
मातरं कमनीयाञ्च मम वक्षःस्थलस्थिताम् ।यामि लोकं तिष्ठ वत्सेत्युक्त्वा सोऽन्तरधीयत ॥
गत्वा स्वलोकं ब्रह्माणं शङ्करं स उवाच ह ।स्रष्टारं स्रष्टुमीशश्च संहर्त्तारश्च तत्क्षणम् ॥
श्रीकृष्ण उवाच ।सृष्टिं स्रष्टुं गच्छ वत्स नाभिपद्मोद्भवो भव ।महाविराड्लोमकूपे क्षुद्रस्य च विधे शृणु ॥
गच्छ वत्स महादेव ब्रह्मभालोद्भवो भव ।अंशेन च महाभाग स्वयञ्च सुचिरं तपः ॥
इत्युक्त्वा जगतां नाथो विरराम विधिस्ततः ।जगाम ब्रह्मा तं नत्वा शिवश्च शिवदायकः ॥
महाविराड्लोमकूपे ब्रह्माण्डे गोलोके जले ।बभूव च विराट् क्षुद्रो विराडंशेन सांप्रतम् ॥
श्यामो युवा पीतवासाः शयानो जलतल्पके ।ईषद्धास्यः प्रसन्नास्यो विश्वव्यापी जनार्द्दनः ॥
तन्नाभिकमले ब्रह्मा बभूव कमलोद्भवः ।संभूय पद्मदण्डञ्च बभ्राम युग-लक्षकम् ॥
नान्तं जगाम दण्डस्य पद्मनाभस्य पद्मजः ।नाभिजस्य च पद्मस्य चिन्तामाप पिता तव ॥
स्वस्थाने पुनरागत्य दध्यौ हृष्टः पदाम्बुजम् ।ततो ददर्श क्षुद्रन्तं कालेन दिव्यचक्षुषा ॥
शयानं जलतल्पे च ब्रह्माण्डे गोलकावृते ॥
यल्लोमकूपे ब्रह्माण्डं तञ्च तत् परमेश्वरम् ।श्रीकृष्णञ्चापि गोलोकं गोपगोपीसमन्वितम् ॥
तं संस्तूय वरं प्राप ततः सृष्टिञ्चकार सः ।बभूवुर्ब्रह्मणः पुत्त्रा मानसाः सनकादयः ॥
ततो रुद्राः कपालाच्च शिवांशैकादश स्मृताः ।बभूव पाता विष्णुश्च क्षुद्रस्य वामपार्श्वतः ॥
चतुर्भुजश्च भगवान् श्वेतद्वीपनिवासकृत् ।क्षुद्रस्य नाभिपद्मे च ब्रह्मा विष्णुं ससर्ज्ज च ॥
स्वर्गं मर्त्यञ्च पातालं त्रिलोकं सचराचरम् ।एवं सर्व्वं लोमकूपे विश्वं प्रत्येकमेव च ॥
प्रतिविश्वे क्षुद्रविराट् ब्रह्मविष्णुशिवादयः ।इत्येवं कथितं वत्स श्रीकृष्णकीर्त्तनं परम् ॥
सुखदं मोक्षदं सारं किं भूयः श्रोतुमिच्छसि ॥
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ३ अध्यायः ॥
स्वायम्भुवमनुः । यथा, --“गतेषु तेषु सृष्ट्यर्थं प्रणामावनतामिमाम् ।उपयेमे स विश्वात्मा शतरूपामनिन्दिताम् ॥
सम्बभूव तया सार्द्धमतिकामातुरो विभुः ।सलज्जां चकमे देवः कमलोदरमन्दिरे ॥
यावदन्दशतं दिव्यं यथान्यः प्राकृतो जनः ।ततः कालेन महता ततः पुत्त्रोऽभवन्मनुः ॥
स्वायम्भुव इति ख्यातः स विराडिति नः श्रुतम् ।तद्रूपगुणसामान्यादधिपूरुष उच्यते ॥
वैराजा यत्र ते जाता बहवः शंसितव्रताः ।स्वायम्भुवा महाभागा सप्त सप्त तथापरे ॥
स्वारोचिषाद्या सर्व्वे ते ब्रह्मतुल्याः स्वरूपिणः ।औत्तमिप्रमुखास्तद्वद्येषां त्वं सप्तमोऽधुना ॥
”इति मात्स्ये ३ अध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
