| YouTube Channel

आपादनम् (ApAdanam)

 
Apte
English
आपादनम् [āpādanam], 1 Causing to arrive at, leading or contributing to, bringing about
tending to
द्रव्यस्य संख्या- न्तरापादने Sk.
Apte Hindi
Hindi
आपादनम्
नपुं*
- आ+पद्+णिच्+ल्युट्
"पहुँचाना, प्रकाशित करना, झुकाव होना"
E Bharati Sampat
Sanskrit
(न) आ+पद(गतौ)+णिच्+ल्युट् ‘ल्युट् च’ ३.३.११५। १.सम्पादनम् २.दोषारोपणम्
कृदन्तरूपमाला
Sanskrit
1 {@“पद गतौ”@} 2 ‘पदॢ--’ इति पुरुषकारसम्मतः पाठः।
‘--श्यनि गत्यर्थे पद्यते पदयेत णौ।।’ 3 इति देवः।
पादकः-दिका, पादकः-दिका, 4 पित्सकः-त्सिका, 5 पनीपदकः-दिका
पत्ता-पत्त्री, पादयिता-त्री, पित्सिता-त्री, पनीपदिता-त्री
-- पादयन्-न्ती, पादयिष्यन्-न्ती-ती
-- -- 6 प्रणिपद्यमानः, पादयमानः, पित्समानः, पनीपद्यमानः
पत्स्यमानः, पादयिष्यमाणः, पित्सिष्यमाणः, पनीपदिष्यमाणः
7 पत्-पद्-पदौ-पदः
-- -- -- 8 प्रपन्नः-पन्नवान्, पादितः, पित्सितः, पनीपदितः-तवान्
पदः, 9 उत्पदिष्णुः, 10 पदनः, 11 पादुकः- 12 पादुका, 13 पादः, 14 सम्पद्यः, 15 सम्पादी, 16 प्रणिपेदिवान्, 17 पादः, पित्सुः, पनीपदः
पत्तव्यम्, पादयितव्यम्, पित्सितव्यम्, पनीपदितव्यम्
पदनीयम्, पादनीयम्, पित्सनीयम्, पनीपदनीयम्
पाद्यम्, पाद्यम्, पित्स्यम्, पनीपद्यम्
ईषत्पदः-दुष्पदः-सुपदः
-- -- -- पद्यमानः, पाद्यमानः, पित्स्यमानः, पनीपद्यमानः
पादः, 18 पदम्, 19 आस्पदम्, 20 21 गोष्पदम्, पादः, पित्सः, पनीपदः
पत्तुम्, पादयितुम्, पित्सितुम्, पनीपदितुम्
22 सम्पत्-सम्पत्तिः, विपत्-प्रतिपत्-आपत्, 23 पद्या, पादना, पित्सा, पनीपदा
पदनम्, आपादनम्, पित्सनम्, पनीपदनम्
पत्त्वा, पादयित्वा, पित्सित्वा, पनीपदित्वा
प्रणिपद्य, सम्पाद्य, प्रपित्स्य, प्रपनीपद्य
24 25 गेहानुप्रपादम्, गेहंगेहमनुप्रपादम्, गेहमनुप्रपादमनुप्रपादमास्ते
पादम् २, पत्त्वा २, पादम् २, पादयित्वा २, पित्सम् २, पित्सित्वा २, पनीपदम्
पनीपदित्वा
26 इत्यूप्रत्ययः, प्रत्ययस्य णित्त्वं च।
पद्यते इति पादूः = पादुका।
‘पादुका’ इत्यत्र संज्ञायां कनि, ‘केऽणः’ 27 इति ह्रस्वो ज्ञेयः।]] पादूः, 28 मन्प्रत्यये रूपम्।
पद्यते मधुकरैरिति पद्मम् = कमलम्।
अर्शआद्यजन्ते मत्वर्थीये पद्मा = लक्ष्मीः।
मत्वर्थीय एव इनिप्रत्यये पद्मिनी इति च।]] पद्मम्-पद्मिनी।
प्रासङ्गिक्यः
01
=>
(९७२)
02
=>
(४-दिवादिः-११६९। सक। अनि। आत्म।)
03
=>
(श्लो। १०९)
04
=>
[[१। ‘सनि मीमाघुरभलभशकपतपदामच इस्’ (७-४-५४) इति सन्नन्ते सर्वत्र इस्। ‘अत्र लोपोऽभ्यासस्य’ (७-४-५८) इत्यभ्यासलोपः। ‘स्कोः संयोगाद्योरन्ते च’ (८-२-२९) इति सकारलोपः। ‘इको झल्’ (१-२-९) इति सनः कित्त्वम्। ‘खरि च’ (८-४-५५) इति दकारस्य चर्त्वं भवति।]]
05
=>
[[२। यङन्ताण्ण्वुलि, ‘नीग् वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम्’ (७-४-८४) इत्यभ्यासस्य नीगागमः। अभ्यासदीर्घापवादः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
06
=>
[[३। ‘नेर्गदनदपतपद--’ (८-४-१७) इत्यादिना नेर्णत्वम्।]]
07
=>
[[४। पद्यतेऽनेनेति पत् = पादः। क्विबन्ते चर्त्वविकल्पः।]]
08
=>
[[५। ‘रदाभ्यां निष्ठातो नः पूर्वस्य दः’ (८-२-४२) इति निष्ठातकारधातुदकारयोर्नत्वे रूपम्।]]
09
=>
[[६। ‘अलङ्कृञ्निराकृञ्प्रजनोत्पचोत्पद--’ (३-२-१३६) इत्यादिना इष्णुच् प्रत्ययः तच्छीलादिषु कर्तृषु भवति--इति माधवः। एतच्च प्रकृतसूत्रे (३-२-१३६), उत्पद इति पाठाश्रयणेन साध्यते। परं तु--पतॢधातौ (९६८) स्वयमेव माधवेन उत्पत इत्येतस्मादेव इष्णुच् साधितः। पदधातौ तु “केचित्तु ‘उत्पत’ इति पततिं पठन्ति” इति वदतः को वाऽत्र स्वाभिमतः पाठ इति ज्ञायते।]]
10
=>
[[७। ‘जुचङ्क्रम्यदन्द्रम्यसृगृधिज्वलशुचलषपतपदः’ (३-२-१५०) इत्यादिना ताच्छी- लिको युच्प्रत्ययः।]]
11
=>
[[८। ‘लषपतपद--’ (३-२-१५४) इत्यादिना तच्छीलादिषु कर्तृषु उकञ् प्रत्ययः। अदन्तत्वात् स्त्रियां टाप्।]]
12
=>
[[आ। ‘प्रकृतिं प्रतिपादुकैश्च पादैश्चकॢपे भानुमतः पुनः प्रसर्तुम्।’ शि। व। २०-३९।]]
13
=>
[[९। ‘पदरुजविशस्पृशो घञ्’ (३-३-१६) इति कर्तरि घञ्।]]
14
=>
[[१०। सम्पूर्वकादस्मात् कर्तरि शप्रत्यये, दिवादित्वात् श्यनि, पररूपे, रूपमेवम्। शप्रत्ययसद्भावे निदानं तु ‘कृभ्वस्तियोगे सम्पद्यकर्तरि--’ (५-४-५०) इति सूत्रे सम्पद्य इति निर्देश एव।]]
15
=>
[पृष्ठम्०८४६+ २९]
16
=>
[[१। ‘पपुष आगतं पपिवद्रूप्यम्’ इति भाष्य (४-३-२४) प्रयोगात्, छान्दसोऽपि क्वसुः क्वचिद् भाषायां भवति इति ज्ञायते। तेन क्वसौ, एत्वाभ्यासलोपयोः, ‘वस्वेकाजाद्धसाम्’ (७-२-६७) इति इडागमे रूपमेवम्।]]
17
=>
[[आ। ‘प्रायेण प्रणिपेदुषां निजमसौ योगं स्वयं शिक्षयन्।’ कामासिकाष्टके ५।]]
18
=>
[[२। ‘खनो च’ (३-३-१२५) इत्यत्र चकारात् संज्ञायामन्यत्रापि घप्रत्ययो भवति इति ज्ञायते-इत्याश्रयणेन घप्रत्यये रूपम्।]]
19
=>
[[३। आङ्पूर्वकादस्मात् संज्ञायां घप्रत्यये, ‘आस्पदं प्रतिष्ठायाम्’ (६-१-१४६) इत्यत्र निपातनात् सुडागमः।]]
20
=>
[[B। ‘कृतास्पदा भूमिभृतां सहस्रैरुदन्वदम्भःपरिवीतमूर्तिः।’ शि। व। ३-३४।]]
21
=>
[[४। ‘गोष्पदं सेवितासेवितप्रमाणेषु’ (६-१-१४५) इत्यनेन सेविते असेविते प्रमाणे विषये सुट् निपात्यते। षत्वं भवति।]]
22
=>
[[५। ‘सम्पदादिभ्यः--’ (वा। ३-३-९४) इत्यनेन स्त्रियां भावादौ क्विप्। ‘क्तिन्न- पीष्यते’ (भाष्येष्टिः ३-३-९४) इति वचनात् क्तिनि सम्पत्तिः इत्यादिकमपि साध्वेव। प्रतिपत् = ज्ञानम्, प्रथमा तिथिश्च।]]
23
=>
[[६। ‘संज्ञायां समजनिषदनिपत--’ (३-३-९९) इत्यत्र ‘निपद’ इति क्षीर- स्वामिपाठमाश्रित्यात्र क्यप् बोध्यः। पद्या = काव्यविशेषः। ‘एकप्रघट्टकं पद्या मुक्तकानां निबन्धनम्।’ इति तल्लक्षणम्। अत्र पक्षे ‘उपेयिवान्--’ (३-२-१०९) इत्यत्र ‘उप’ इत्यस्येव अत्र ‘नि’ इत्यस्याविवक्षितत्वं ज्ञेयम्।]]
24
=>
[पृष्ठम्०८४७+ २५]
25
=>
[[१। ‘विशिपतिपदिस्कन्दां व्याप्यमानासेव्यमानयोः’ (३-४-५६) इति सोपपदात् णमुल्। ‘तृतीयाप्रभृतीनि--’ (२-२-२१) इति समासविकल्पः। समासे, ‘नित्य- वीप्सयोः’ (८-१-४) इति द्विर्वचनं भवति। समासेनैव नित्यवीप्सार्थयोरुक्तत्वात्।]]
26
=>
[[२। ‘णिच्च कसि पद्यर्त्तेः’ [द। उ। १-१६८]
27
=>
(७-४-१३)
28
=>
[[३। औणादिके [द। उ। ७-२६]