| YouTube Channel

“वङ्गिः (“vaGgiH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“वगि गत्यर्थः”@} 2 “वङ्गिः गतिवैकल्ये रूढः
वङ्गति, वङ्गः” इति क्षीरतरङ्गिण्याम्।
वङ्गकः-ङ्गिका, वङ्गकः-ङ्गिका, विवङ्गिषकः-षिका, वावङ्गकः-ङ्गिका
वङ्गिता-त्री, वङ्गयिता-त्री, विवङ्गिषिता-त्री, वावङ्गिता-त्री
इत्यादीनि सर्वाण्यपि रूपाणि भौवादिककङ्कतिवत् 3 ऊह्यानि।
अस्य धातोः परस्मैपदित्वात् शुद्धे शानच्प्रत्ययो भवति।
4 ण्यन्ते--वङ्गयमानः इति।
5 वङ्गः।
वङ्गुरिः-भूषणभेदः।
वङ्गितः।
प्रासङ्गिक्यः
01
=>
(१५३२)
02
=>
(१-भ्वादिः-१४७। सक। सेट्। पर।)
03
=>
(१४०)
04
=>
[पृष्ठम्११८३+ २८]
05
=>
[[१। वङ्गतीति वङ्गः = जनपदः। ‘हलश्च’ (३-३-१२१) इति संज्ञायामधिकरणे घञ्प्रत्यये रूपमेवम्।]]