ॡ (lRR)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
Englishॡ aptote.
1. A divine female.
2. The female nature.
3. A mother.
(ॡः) A name of SIVA.
(ॡः)
1. The mother of the demons.
2.
The mother of the all-bestowing cow. ind. A mystical letter used
once or repeatedly in many Mantras or mystical formulæ. The
letters ॠ and ऌ are employed in the same manner: they have ap-
parently no signification, but are personified and invested with
marvellous properties in the Tantras.
Yates
EnglishWilson
Englishॡ aptote.
1 A divine female.
2 The female nature.
3 A mother.
(-ॡः) A name of ŚIVA.
(-ॡः)
1 The mother of the demons.
2 The mother of the all-bestowing cow. ind. A mystical letter used once or
repeatedly in many Mantras or mystical formulae. The letter ॠ and
ऌ are employed in the same manner: they have apparently no signification,
but are personified and invested with marvellous properties in the Tantras.
ए
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishMonier Williams 1872
Englishॡ ॡ, ind. a mother
a divine female
female nature
(ॡस्) m. a N. of Śiva
(ॡस्), f. the
mother of the Dānavas
wife of a Daitya
the mother
of the all-bestowing cow of plenty
ind. a mystical
letter used once or repeatedly in Mantras or mystical
formularies
(the letters ॠ and ॡ are employed in
the same manner
they have apparently no significa-
tion, but are personified and invested with mystical
properties in the Tantras.)
एकाक्षरनाममाला
Sanskritॡ, वाराही
ॡर्वाराह्यां भवेदेस्तु विष्णावैस्तु वृषध्वजे ॥ ७ ॥
verse 1.1.1.7
page 0119
शब्दकल्पद्रुमः
Sanskritॡ दीर्घ ॡकारः । स तु दशमस्वरवर्णः । अस्यो-च्चारणस्थानं दन्तः । (यथा मुग्धबोधे । “ऌत्रयंतथदधनलसाः वो दन्त्याः” ।) स प्लुतश्च भवति ।इति व्याकरणम् ॥
(उदात्तानुदात्तस्वरितभेदात्त्रिविधोऽपि प्रत्येकं पुनरनुनासिकानुनासिकभे-दात् षड्विधएव ।)“ॡकारं परमेशानि पूर्णचन्द्रसमप्रभम् ।पञ्चदेवात्मकं वर्णं पञ्चप्राणात्मकं सदा ॥
गुणत्रयात्मकं वर्णं तथा विन्दुत्रयात्मकम् ।चतुर्व्वर्गप्रदं देवि स्वयं परमकुण्डली” ॥
इति कामधेनुतन्त्रम् ॥
(वङ्गीयभाषायां) अस्यलेखनप्रकारो यथा, --“तत्क्रोडतुल्यरूपा च रेखा सा वैष्णवी स्मृता ।तासु वन्द्याः सुरेशानि दुर्गा वाणी सरस्वता” ॥
इति वर्णोद्धारतन्त्रम् ॥
* ॥
तन्नामानि यथा, --“ॡकारः कमला हर्षा हृषीकेशो मधुव्रतः ।सूक्ष्मा कान्तिर्व्वामगण्डो रुद्रः कामोदरी सुरा ॥
शान्तिकृत् स्वस्तिका शक्रो मायावी लोलुपो वियत् ।कुशमी सुस्थिरो माता नीलपीतो गजाननः ॥
कामिनी विश्वषा कालो नित्या शुद्धः शुचिः कृती ।सूर्य्यो धैर्य्योत्कर्षिणी च एकाकी दनुजप्रसूः” ॥
इति तन्त्रशास्त्रम् ॥
(मातृकान्यासे वामगण्डेन्यस्यतया तन्नाम्नाप्यभिधानम् । मातृकान्यास-मन्त्रो यथा ॥
“ऌं नमो दक्षिणगण्डे ॡं नमोवामगण्डे” ॥
मुग्धबोधमते तन्त्रमते च ऌकारस्यदीर्घत्वमस्ति पाणिनिमते तु नास्ति । अत्रेदं ज्ञा-तव्यं ऌकारस्य दीर्घत्वाभावेऽपि “ऌति ॡवा”इति वार्त्तिकोक्तेः ॡकार एव तत्र विधेयः । तेनहोतॣकार इत्यादौ ॡकारस्य व्यवहारः । मुग्ध-बोधेऽपि एतदनुसारेण एकमात्रद्विमात्रत्रिमा-त्रापेक्षा “ऌत्रयम्” इत्युक्तन्तेन न विरोधः ॥
)
वाचस्पत्यम्
Sanskritॡ ॡकारः तन्त्रमते मुग्धबोधमते च स्वरवर्ण्णभैदः पा० मतेतस्य दीर्घत्वं नास्ति तेन उदात्तानुदात्तस्वरित भेदात् अनु-नासिकानुनासिकभेदाच्च षड्विधः । अत्रेदं बोध्यम् ऌ-वर्ण्णस्य दीर्घत्वाभावेऽपि “ऌति ॡवा” वार्त्ति० उक्तेः लका-रद्वययुत ऌवर्ण्णएव तत्र विधेयः तत्र लकारद्वयरूपव्य-ञ्जनद्वयस्य एका मात्रा अचश्चापरा इति द्विमात्रत्वं तेनहोॡकारः इत्यादौ दीर्घत्वव्यवहारः । मुग्धबोधे ऌत्रय-मित्युक्तिरपि एकमात्रद्विमात्रत्रिमात्रत्वभेदापेक्षया । तेनन विरोधः । अतएव शिक्षायां “दुस्पुष्टश्चेति विज्ञेयऌकारः प्लुतएव वेति” ऋकारऌकारयोः दुःस्पृष्टत्वोक्तिः ।दुःस्पृष्टत्वञ्च ईषत्स्पृष्टत्वं तस्य रकारलकारादित्वे एवसम्भवति “अचोऽस्पृष्टायणस्त्वीषन्नेमस्पृष्टाःशलस्तथा”शिक्षाणां यवरलानामीषत्स्पृष्टत्वोक्तेः । “तेन ऋकारऌकारयोरीषत्स्पृष्टत्वात् दुःस्पृष्टत्वम् । एवं सर्वसामञ्जस्येऌवर्णस्य न दीर्घत्वकल्पनमिति सूक्ष्ममीक्षणीयम् । अस्यच लकारद्वयघटितत्वात् दन्त्यता । अन्ते च स्वरवर्णयोगात्अस्पृष्टत्वम् । तस्य च उदात्तादिभेदैः षड्विधत्वमपि ।मातृकान्याशे च तस्य वामगण्डे न्यस्यता तेन तच्छब्देना-प्यस्याभिधानम् । कामधेनुतन्त्रे तस्य ध्येयस्वरूपमुक्तम्यथा “ॡकारं परमेशानि पूर्णचन्द्रसमप्रभम् । पञ्चदेवा-त्मकं वर्णं पञ्चप्राणात्मकं तथा । ऋणत्रयात्मकं वर्णंतथाविन्दुत्रयात्मकम् । चतुर्वर्गप्रदं देवि! ध्यायेत् परम-कुण्डलीम्” ।
ॡ ऋ--रस्य लः । १ देवनार्याम् २ दैत्यस्त्रियाम् ३ दनु-जमातरि ४ कामधेनुमातरि च स्त्री एकाक्षरकोषः ।५ महादेवे एकाक्षरकोषः ।इति वाचस्पत्ये ॡकारादिशब्दार्थसङ्कलगह् ।
ॡ ॡकारः कमलाकर्षी हृषीकेशोमधुव्रतः । सूक्ष्मा कान्ति-र्वामगण्डोरुद्रःकामोदरी शुभा । दशमी सुस्थिरोमातानीलपीतोगजाननः । कामिनी विश्वपः कालोनित्यशुद्धःशुचिः कृती । सूर्य्योधैर्य्याकर्षिणी च एकाक्षी दनुजप्रसूः” ।एकारादीनां वाचका तत्तच्छब्दे उक्ता । एषामधिष्ठातृदेव-ताश्च तत्रैवोक्ता यथा “अकारे भीषणा कीर्त्तिर्विद्युज्जि-ह्वेति कीर्त्तिता । आकारे तामसी कालजिह्वाग्रा काल-भैरवी । इकारे गजिनी चण्डा ज्ञेया रुद्रभयङ्करी ।ईकारे सूचिनी ख्याता चण्डीग्रा धूम्रभैरवी । उकारेकालरक्ताख्या प्रचण्डा चण्डवल्लभा । विद्या ह्यूकारगाप्रोक्ता तालजङ्घा कपालिनी । ऋकारे कालिका देवीपितृकालो भयङ्करो । ऋकारे स्यान्महारीद्री ज्वालिनी यो-गिनीत्यपि । संहारिणी ऌकारे स्यान्मेघनादोग्रवासिनी ।रुद्रचण्डा कालरात्री ॡकारे च कपालिनी” । एका-रादीनमधिष्ठातृदेवताश्च एकारादिशब्दानामादौ दर्शिताःअकारादीना ध्येयरूपञ्च कामधेनुतन्त्रे दर्शितं यथा
ॡ ॡकारं परमेशानि! पूर्णचन्द्रसमप्रभम् । पञ्चदेवात्मकं वर्णंपञ्चप्राणात्मकं सदा । गुणत्रयात्मकं वर्णं तथा विन्दु-त्रयात्मकम् । चतुर्व्वर्गप्रदं देवि! स्वयं परमकुण्डलीम् ।एकारादीनां ध्येयरूपाण्येकारादिशब्देषु उक्तानि” ।इति वाचस्पत्ये स्वरविभागादि ।व्यञ्जनवर्ण्णविभागादिव्यञ्जनवर्ण्णाः त्रिविधाः स्पर्शान्तस्थोष्मभदात् तत्र कादयोमावसानाः स्पर्शाः, यरलवा अन्तःस्था शषसहा ऊष्माणः ।“आत्मा बुद्ध्या समेत्यार्थान् मनोयुङ्क्ते विवक्षया । मनःकायाग्निमाहन्ति स प्रेरयति मारुतम् । सोदीर्ण्णोमूर्द्ध्न्य-भिहतो वक्त्रमापद्य मारुतः । वर्ण्णान् जनयते तेषां विभागःपञ्चधा मतः । स्वरतः कालतः स्थानात् प्रयत्नानुपदानतः”इति शिक्षोक्तेः सर्वेषां वर्ण्णाना प्राणवायुजन्यत्वम् । तथाहिचेतनेन ज्ञातार्थविवक्षया तद्बोधकशब्दनिष्पादनाय प्रे-रितमन्तःकरण मूलाधारस्थितमनलं चालयति तच्चालित-श्चानलस्तत्स्थलस्थानिलचालनाय प्रभवति तच्चालितेनचानिलेन तत्रैव सूक्ष्मरूपेणोत्पादितः शब्दः परा वा-गित्यभिधीयते । ततोनाभिदेशपर्य्यन्तं चलितेन तेन तद्द शसंयोगादुत्पादितः शब्दः पश्यन्तीति कीर्त्त्यते एतद्द्व-यस्य सूक्ष्मसूक्ष्मतरतया ईश्वरयोगिमात्रगम्यता नास्म-दीयश्रुतिगोचरता । ततस्तेनैव हृदयदेशं परिसरता हृ-दयसंयोगेन निष्पादितः शब्दो मध्येत्युच्यते सा चस्वकर्णपिधानेन ध्वन्यात्मकतया सूक्ष्मरूपेण कदाचिदस्मा-कमपि समधिगम्या । ततो मूर्द्धपर्य्यन्तमाक्रमता तेनआहत्य मूर्द्धानं तत्प्रतिघातेन ततः परावृत्य मुखविवरेकण्ठादितत्तत्स्थानेषु स्वाभिघातेनोत्पादितः शब्दोवैखरीत्युच्यते । इत्येवं वर्ण्णोत्पत्तिस्तेषाञ्च विभागः पञ्चधातद्यथा स्वरतः १ उदात्तानुदात्तस्वरितभेदात् अचांत्रैविध्यम् तथाकालतोऽपि २ त्रैविध्यम् “उदात्तमनुदात्तञ्चस्वरितञ्च स्वरास्तथा । ह्रस्वोदीर्घः प्लुतश्चेति कालतोनियमा अचि” इत्युक्तेः अचामेव स्वरवत्त्वात्तथात्वम्कालस्तु उच्चारणकालभेदः स च यद्यपि अचामेवोक्तस्तथापि“एकमात्रोभवेद् ह्रस्वोद्विमात्रोदीर्घ उच्यते । त्रिमात्रस्तुप्लुतोज्ञेयो यञ्जनञ्चार्द्धमात्रकम्” इत्युक्तेः व्यञ्जनाना-मप्यर्द्धमात्राकालेनोच्चार्य्यत्वात् कालकृतविभागोऽस्त्येव ।मात्राकालस्तु “दशगुर्वक्षरैः पाणःषड्भिः प्राणैर्विनाडिका”इत्युक्तेः विनाडिकायाः पलात्मिकायाः षष्टितमभागरूपका-लार्द्धभागो मात्रा “द्विमात्रो दीर्घ उच्यते” इत्युक्तेः दीर्षस्यगुरुतया पलषष्टितमभागत्वात् तथा च १५ पञ्चदशानु-पलात्मककालः अर्द्धमात्राकालः त्रिंशदनुपलात्मकः कालःएकमात्राकालः, विपलात्मकः कालः द्विमात्रकालःसार्द्धविफलात्मक कालः त्रिमात्रकालः । तत्तत्कालो-च्चार्य्यत्वात् वर्ण्णानां कालकृतविभागवत्त्वम् । इत्यास्तुविशेषः स्वराणामिव व्यञ्जनानां न ह्रस्वादिविभागःकिन्तु सर्वेषामर्द्धमात्रत्वमेवेति । स्थानतो(३)विभागोयथा “कष्टौ स्थानानि वर्ण्णानामुरः कण्ठः शिरस्तथा ।जिह्वामूलञ्च दन्ताश्च नासिकौष्ठौ च तालु चेति” सामा-न्यत उक्त्वा वर्णभेदेन स्थानविशेषः शिक्षायामुक्तः यथा“हकारं पञ्चमैर्य्युक्तमन्तःस्थाभिश्च संयुतम् । औरस्यन्तंविजानीयात् कण्ठ्यमाहुरसंयुतम् । कण्ठ्यावहाविचुय-शास्तालव्या ओष्ठजावुपू । स्युर्मूर्द्धन्या ऋट्रषा हन्त्याऌतुलसाः स्मृताः । जिह्वामूले तु कुः प्रोक्तः दन्तोष्ठ्योवः स्मृतो वुधैः । ए ऐ तु कण्ठ्यतालव्यावोऔ कण्ठोष्ठजौ स्मृतौ । अर्द्धमात्रा तु कण्ठ्या स्यादेकारैकारयोर्भवेत् । ओकारौकारयोस्तद्वदिति” “अनुस्वारयमानाञ्चनासिका स्थानमुच्यते । अयोगवाहा विज्ञेया आश्रय-स्थानभागिनः” इति च । यद्यपि सर्व्वेषां वर्णानामुच्चारणेकण्ठव्यापार आवश्यकस्तथापि चकाराद्युच्चारणे ताल्वा-दिव्यापारोऽधिकोऽप्यपेक्षित इति तन्मात्रामात्रकृतत्वेनवर्णानां वैलक्षण्यम् । “जिह्वामूले तु कुः प्रोक्तः” इतिपाणिनिशिक्षाभिधानात् कवर्गस्य कण्ठमूलीयत्वम् कण्ठ्य-त्वव्यवहारस्तु कण्ठशब्दस्य कण्ठमूलपरतया भाक्त एव तव-र्गस्य दन्तभूलीयत्वेऽपि दन्त्यत्ववत् अन्यथा भग्नदन्तस्य तद-नुच्चारापत्तेः । जिह्वामूलीयस्य आश्रयस्थानभागित्वेनोक्तेःतदाश्रयस्य कोरपि जिह्वामूलस्थानत्वौचित्यात् । दन्तो-ष्ठ्योवैत्यादाबुभयोरेव वकारस्थानत्वं नतु प्रत्येकस्थ तथासतिदन्त्यौष्ठ्यैत्येव परिशिक्ष्येत । अतस्तस्य दन्तौष्ठोभवकार्य्य-भाक्त्वम् एवमग्रेऽपि द्रष्टव्यम् । यमानां प्रातिशाख्यप्रसि-द्धानां कँखँगँघँ इत्येषां यम्प्रत्त्याहारसंज्ञाबोधितानाञ्चनासिकापि स्थानमधिकमुपदिश्यते । तत्र च यमेत्युपलक्षणम्“अमोऽनुनासिका नह्रौ” इत्युक्त्या हकाररकारभिन्नानाम्अम्प्रत्याहारबोधितानाम् नासिकास्थानत्वविधानात्नासामनुगतः स्थानत्वेनेत्यनुनासिक शब्दव्युत्पत्त्या नासि-कास्थानत्वप्राप्तेश्च । तत्र नह्राविति पुनः हकाररकारयोःपर्य्युदासः । “मुखनासिकावचनोऽनुनासिकः” पा० सूत्रेमुखपदस्य कण्ठादितत्तत्स्थानपरतया यमानामुभयस्था-नत्वम् । अयोगवाहा अनुस्वाराः विसर्गाश्च जिह्वामूली-योपाध्मानीययोरपि विसर्गविशेषरूपत्वेनाश्रयस्थान भागि-त्वम् । आश्रयस्थानभागित्वञ्च यमाश्रित्यैते उच्चार्य्यन्तेतत्स्थानभागित्वमतः विसर्गस्य कखयोः परयोर्जिह्वामूलो-च्चार्य्यमाणयोराश्रयत्वेन तत्स्थानभागित्वात् जिह्वामूलीय-रूपान्वितनामता समुन्नेया । पफयोः परयोरोष्ठोच्चार्य्यमा-णायोराश्रयत्वेनोपाध्मानीयता । उश्च पश्च आध्मायेते अ-नेन स्थानेनेति व्युत्पत्तेः उपाध्मानशब्द ओष्ठवचनः ।तत्स्थानोच्चार्य्यत्वादन्वितनामता चावधेया । अतएव कौ-मुद्यां “जिहुमूलीयस्य जिह्वामूलमुपाध्मानीयस्योष्ठौ” इत्यु-क्तम् । यद्यपि सर्व्वेषां वर्णानामाकाशस्थानत्वं करण-त्वञ्च कण्ठादीनां तदुत्पत्तौ युक्तं तथापि तेषां स्थानत्व-व्यवहारः ताल्वादौ वर्णाभिव्यञ्जकवर्णजनकवायुसंयोगा-धारे वर्णाधारत्वारोपेण भाक्त एव । तत्तत्स्थानेषु जि-ह्वाग्रादिसम्बन्धेन वर्णोत्पत्त्या जिह्वाग्रादिस्थिते तत्-सम्बन्धजनकप्रयत्नविशेषे आभ्यन्तरप्रयत्नवाच्ये स्पृष्टता-दावेव करणत्वव्यवहारः इति मञ्जूषायां स्थितम् ।प्रयत्नाः ४ आभ्यन्तरप्रयत्नाः अनुप्रदानानि ५ बाह्यप्रयत्नास्तरपि वर्ण्णानां विभागः । तत्र वर्ण्णभेदे प्रयत्नभेदादिकंबाह्याभ्यन्तरप्रयत्नस्वरूपनिरूपणपूर्व्वशं शब्दार्थरत्नेऽणा-भिर्निरूपितं यथाआभ्यन्तरप्रयत्नास्तु वर्णोत्पत्तेः प्राग्भाविनः, बाह्यास्तुतदुत्पत्तेः पश्चाद्भाविन इति विवेकः । तथा हि नाभि-देशात् प्रयत्नप्रेरितः प्राणवायुरूर्द्ध्वमाक्रमन्नुरःप्रभृतीनिस्थानान्याहत्य वर्णान् तदभिव्यञ्जकध्वनींश्च उत्पाद-यति तत्र वर्णोत्पत्तेः प्राक् जिह्वाग्रोपाग्रमध्यमूलानितत्तद्वर्णोत्पत्तिस्थानं ताल्वादिकं यदा सम्यक् स्पृशन्तितदा स्पृष्टता प्रयत्नः, यदा ईषत् स्पृशन्ति तदा ईषत्-स्पृष्टता, तेषां समीपावस्थाने संवृतता, दूरावस्थाने विवृतताइत्येवनाभ्यन्तरप्रयत्नभेदैः वर्णानां भेदाः । अतएवइचवर्गयशानां तालव्यत्वाविशेषेऽपि चवर्गोच्चारणे कर्त्तव्येतालुस्थाने जिह्वाग्रादीनां सम्यक्स्पर्शः, यकारो-च्चारणे तु ईषत्स्पर्शः, शकारोच्चारणे समीपावस्थानम् इव-र्ण्णोच्चारणे दूरावस्थानमिति भेदः । एतेषां चाभ्यन्तरत्वम्ओष्ठप्रभृतिकाकलीध्वनिजनककाकलस्थानपर्य्यन्तरूपास्या-न्तर्गततत्तत्स्थानेषु जिह्वाग्रादीनां प्रागुक्तस्पर्शादिचतुष्टय-रूपाभ्यन्तरकार्य्यकारित्वात् वर्णोत्पत्त्यव्यवहितप्राग्भावि-त्वाच्च बोध्यम् । विवारसंवारौ तु गलबिलस्य विकाशावि-काशात्मकौ बाह्यौ प्रयत्नौ विवृतसंवृताभ्यां भिन्नायेवतयोः समीपदूरावस्थानात्मकत्वादिति विवेक्तव्यम् ।अथ वर्ण्णभेदेनाभ्यन्तरप्रयत्नभेदस्तावदभिधीयते । तत्र का-दिमावसानानां स्पृष्टता, अतएव तेषां सम्यक्स्पर्श-वत्त्वेन स्पर्शपदवाच्यता । यणः ईषत्स्पृष्टता । तेषा-ञ्च स्पृष्टविवृतयोर्म्मध्यस्थितत्वेन लौकिकव्यवहारेष्वपिशषसहानां वर्ग्याणाञ्च मध्यस्थितत्वेन चान्तःस्थाशब्द-वाचाता । शसषहानाम् अचाञ्च विवृतता । शषसहानाञ्चऊष्मशब्दाभिधेयवायुप्रधानत्वात् ऊष्मशब्दवाच्यता । अचाञ्चस्वयंराजमानत्वात् उदात्तादिस्वरवत्त्वाच्च स्वराभिधेयता“अचः स्वयं विराजन्ते” इत्युक्तेः “उदात्तमनुदात्तञ्चस्वरितञ्च स्वरास्त्रयः । ह्रस्वोदीर्घः प्लुतश्चेति कालतो नि-यमा अचि” इति चोक्तेः । तत्र ह्रस्वस्य संवृतता । “संवृतंत्वेकमात्रंस्यात् विवृतन्तु द्विमात्रकम्” इत्युक्तेः ह्रस्वस्यैक-मात्रतया प्रयोगे संवृतता प्रक्रियायान्तु विवृततैव । तत्रमूलं “अचोऽस्पृष्टा यणस्त्वीषन्नेमस्पृष्टाः शतस्तथा ।शेषाः स्पृष्टा हलः प्रोक्ता” इति शिक्षावाक्यमेव वोध्यम् ।अत्राचः स्पर्शाभावरूपविवृतत्ववन्तः यणः यरलवास्त्वीषत्पृष्टा इत्यर्थः नेमैत्यर्द्धवाची । शलः शषसहा नेमस्पृष्टाअर्द्धस्पृष्टा अर्थादर्द्धविवृताः “स्वराणामूष्मणाञ्चैव विवृतंकरणं स्मृतम्” इत्येकवाक्यत्वात् । एते च स्थानप्रयत्नाःसवर्णसंज्ञायामुपयुक्ताः । बाह्यप्रयत्नास्तु आन्तरतम्यपरी-क्षायामेवोपयोगिनैति “तुल्यास्यप्रयत्नं सवर्णमिति” पा०सूत्रभाष्यादौ स्पष्टम् । तेन तकारस्थाने विवारश्वासघो-षाल्पप्राणरूपबाह्यप्रयत्नसाम्येन चकारटकारादेश इति“स्थानेऽन्तरतमः” इति सूत्रभाष्ये स्पष्टम् बहुसमान-धर्म्मत्वमेवान्तरतम्ये हेतुरिति बोध्यम् ।बाह्याः प्रयत्नाश्चाष्टविधाः काकलकाधास्थलगलबिलसङ्कोचविकाशश्वासोत्पादकध्वनिविशेषघोषाल्पघोषप्राणा-ल्पचमहत्त्वरूपकार्य्यकरा यथाक्रमं विवारसंवारश्वास-नादघोषाघोषाल्पप्राणमहाप्राणनामानो मन्तव्याः ।प्रयत्नप्रेरितो बायुर्व्वर्णानभिव्यञ्ज्य यत्नविशेषेण गलबिल-विकाशादीनपि सम्पादयति अतो गलबिलविकाशादि-करत्वादास्यवहिर्द्देशकार्य्यकरत्वात् चैते बाह्या इति ।ते च “खयां यमाः खयः + कँपौ विसर्गः शरएव च ।एतेश्वासानुप्रदाना अघोघाश्च बिवृण्वते । कण्टम्, अन्येतु घोषाः स्युः संवारा नादमागिनः । अयुग्मा वर्गयम-गायणश्चाल्पासवः स्मृताः” इतिसिद्धान्तकौमुद्युक्तदिशाव-सेयाः । खयां स्थाने जाता ये यमाः कँ खँ गँ घँ इत्येतेप्रातिशाख्यप्रसिद्धाः स्वयः, जिह्वामूलोयोपध्मानीयविसर्गाःशरः शषसाश्च एते श्वासा अघोषाः कण्ठं विवृण्वत च ।अन्ये एतद्भिन्नाः सर्वेवर्णा घोषसंवारनादरूपबाह्यप्रयत्न-वन्तः । वर्गीयप्रथमतृतीयपञ्चमवर्णाः पूर्व्वोक्ताः प्रथम-तृतीयवर्गजातयमाश्च यणः यरलवाः एते अल्पप्राणा-स्तद्भिकाः सर्व्वे महाप्राणाः इति विवेकः ।तदेवं परस्परविभाजकैर्बाह्याभ्यन्तरप्रयत्नैः स्वरकाल-विशेषैर्वर्ण्णानां परस्परविलक्षणरूपता । प्रासद्धा हि वर्ण्णाःपुरस्कृत्यैव कञ्चिद्विशेषम् विलक्षणतामासादयन्ति तत्रवर्ण्णविभाजकानि सूचोपत्रे दृश्यानिताव्यादौ विन्यस्तवर्ण्णानां फलमुक्तं वृत्तरत्ना० टी० यथागणप्रसङ्गेनाक्षरशुद्धिरप्यभिधीयते “अक्षरे परिश्रुद्धे चनायको भूतिमृच्छात इत्युक्तेरक्षरश्रुर्द्धेरावश्यकत्वात् ।“अवणात् सस्पत्तिर्भवति शमिवर्णाद्धनशतान्युवर्णाद-ख्यातिः, सरभसमृवर्णात् वराहतात् । तथाह्येचः सौख्यंङ्ञणरहितादक्षरगणात् पदादौ विन्यासात् भरबह-लपूर्बैर्विरहितात्” । भरबहलास्तत्पूर्वाणि यान्यचराणि तैर्विरहितादित्यर्थः । हल्वर्णानां फलान्युक्तानि-तत्रैव । “कः खो गो घश्च लक्ष्मीं वितरति, वियशोङ, स्तथा चः सुखं छः प्रीतिं, जोमित्रलाभं, भयमरण-करौ झ्ञो, टठौ खेददुःखे, । डः शोभां, ढो विशोभां, भ्रमणमथ च णस्तस्तु ख, थस्तु युद्धं, दो, धः, सौख्यं, मुदं, नः, सुखभयमरणक्लेशदुःखं पवर्गः । या लक्ष्मीं, रस्तु दाहं, व्यसनमथ लवौ शः सुखं, षस्तु खेदं, सः-सौख्यं, हस्तु खेदं, विलयमपि च लः, क्षः समृद्धिंकरोति । संयुक्तं चेह न स्यात् सुखभरणपटुर्वर्णविन्या-सयोगं पद्यादौ, गद्यवक्त्रे, वचसि च सकले, प्राकृतादौस-मोऽयम्” । एतेषां फलाधारनिरूपणमपि तत्रैव “नायकोवर्ण्यते यत्र फलं तस्य समादिशेत् । अन्यथा तु कृतेकाव्ये कवेर्दोषावहं फलम्” । तस्य प्रतिप्रसवोऽप्युक्तः ।“देवता वर्ण्यते यत्र क्वापि काव्ये कवीश्वरैः । मित्रामित्र-विचारा वा न तत्र फलकल्पना । देवतावाचकाः शब्दा येच भद्रादिवाचकाः” ।इति वाचस्पत्ये व्यञ्जनवर्णविभागादि ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
