| YouTube Channel

ह्वेञ् (hveJ)

 
धातुप्रदीपः
Sanskrit
ह्वेञ् स्पर्द्धायां, शब्दे
- ह्वयति ह्वयते निह्वयते हूयते जुहाव जुहुवे जुहुवतुः जुहुवाते ह्वाता अह्वास्त ।अह्वत् ।अह्वत जोहूयते जुहूषति जुहूषते जुहावयिषति अजूहवत् प्रह्वः हूतः निहवः हवः आहवः हूतिः मित्रह्वायः ।। 1016 ।।
क्षीरतरङ्गिणी
Sanskrit
ह्वेञ् स्पर्धायां, शब्दे
- ह्वयते, ह्वयति निसमुपविभ्यो ह्वः (1330) तङ्-निह्वयते, संह्वयते, उपह्वयते, विह्वयते स्पर्धायामाङः (1331) मल्लो मल्लमाह्वयते आहूयते ह्वः सम्प्रसारणम्, आभ्यस्तस्य (6132, 33) जुहुवुः, णौ संश्चङोः जुहावयिषति, अजूहवत् लिपिसिचिह्वश्च (3153) इत्यङ् आह्वत् आत्मनेपदेष्वन्यतरस्याम् (3154) आह्वत आह्वास्त शाछासा (7337) इति युक्-ह्वाययति ह्वावामश्च (322) इत्यण्-स्वर्गाह्वायः आतश्चोपसर्गे (31136) प्रह्वः ह्वः सम्प्रसारणं न्यभ्युपविषु (3372) इत्यप् निहवः आङि युद्धे (3373) आहवः निपानमाहावः (3374) भावेऽनुपसर्गस्य (3375) हवः छित्वरादौ (द्र0 उ0 31) उपह्वरः बाहुलकाद् आह्वयः 978
धातुवृत्तिः
Sanskrit
ह्वेञ् (अर्थः) स्पर्धायाम्, शब्दे
( ह्वयति ह्वयते जुहाव जुहुवतुः जुहुविथ जुहोथ ) अत्र "अभ्यस्तस्य च'' इत्यभ्यस्तीभविष्यतो ह्वेञः प्रागेव द्विर्वचनात्संप्रसारणेऽन्तरङ्गत्वात्परपूर्वत्त्वे पश्चाद् द्विर्वचनम् पूर्वं तु द्विर्वचने "न संम्प्रसारणे संप्रसारणम्'' इत्याभ्यासस्य संप्रसारणं स्यात् व्यवधानान्नायं निषेधः स्यादिति वाच्यम् तत्र समानाङ्गग्रहणस्यं चोदितत्वात् तत्र णलि वृद्ध्यवादेशयोः स्थानिवत्त्वाद्घुशब्दस्य द्विवेचनम्, अत्र परपूर्वत्वाभावे "आत णलः'' इति स्यात् जुहुवतुरित्यादौ "अचि श्नुधातुः'' इत्यादिनेयङादेशः तत्रापि संप्रसारणेऽन्तरङ्गत्वात्परपूर्वत्वमवश्यमेष्टव्यम् अन्यथा "अतो लोपः'' इत्याल्लोपे तस्य स्थानिवत्त्वाद् द्विर्वचने "असिद्धवदत्र'' इत्यसिद्धत्वाद्व्यवधानादुवङ् स्यात् थलि गुणः भारद्वाजनियमादिड्विकल्पः उत्तमे णलि णित्त्वाभावपक्षे गुणेऽवादेशः ( जुहुवे जुहुवाते जुहुविषे जुहुविध्वे जुहुविढ्वे ह्वाता ह्वातासे ह्वास्यति ह्वास्यते ह्वय तु ह्वयताम् अह्वयत् ह्वयेत् आशिषि हूयात् ह्वासाष्ट ) यासुटि कित्त्वात्संप्रसारणे "हलः'' इति दीर्घः ( अह्वत् अह्वताम् ) "लिपिसिचिह्वश्च" इति परस्मैपदे सिजपवादोऽङ् "आत्मनेपदेष्वन्यतरस्याम्'' इत्यङा विकल्पनात् ( अह्वता अह्वताम् अह्वत अह्वास्त अह्वासाताम् अह्वासत) इत्युभयं भवति, अडि सर्वत्र'' आतो लोप इटि च''इत्याल्लोपः इदमङ्विकल्पन कर्त्तरीति कर्म्मणि (अह्वायि अह्वासाताम्) इत्यादौ चिण्सिचावेव भवतः चिण्वदिटि अह्वायिषातामित्यादि एवं स्यसिच्सीयुट्तासिषु (ह्वायिष्ते ह्वायिषीष्ट ह्वायित) इत्यादि द्रष्टव्यम् कर्मकर्त्तरि तु शब्दे "अचः कर्म्मकत्तेरि'' इति चिणो विकल्पनात्तदभावे "आत्मनेपदेष्वन्यतरस्याम्'' इति पक्षेऽङ् तदभावे सिच् तस्य पक्षे चिण्वदिटि ( अह्वायि अह्वत अह्वास्त ) अह्वायिष्टेति चातूरूप्यम्भवति (निह्वयते संह्वयते उपह्वयते विह्वयते आह्वयते) "निसमुपविभ्यो ह्वः'' "स्पर्द्धायामाङः'' इत्यत्र कर्त्रभिप्राये तङ् अत्र स्पर्द्धा धात्वर्थस्य शब्दनस्य हेतुतया विषय इति वृत्त्यादौ स्थितम् स्वर्द्धमान आह्वानं करोतीत्यर्थः अत्र ह्व इतिन प्रयोगस्थस्याकारान्तस्यानुकरणं किन्तु धातारेवैजन्तस्य, आत्वन्तु लक्षणवशादिति निह्वयतइत्यादौ तङ् भवति एकदेशविकृतस्यानन्यत्वान्निह्वास्यतइत्यादिष्वपि ( जुहूषति जुहूषते ) "अभ्यस्तस्य च'' इति संप्रसारणे परपूर्वत्वे "हलः'' इति दीर्घे धातोरिगन्तत्वात् "इको ज्ञल्'' इति सनः कित्त्वाद्गुणो भवति ( जोहूयते जोहोति जोहूतः जोहुवति ) "हुश्नुवोः सार्वधातुके'' इति यण् हुशब्दस्य लाक्षणिकत्वादनर्थकत्वाच्च भवति (ह्वाययति जुहावयिषति अजूहवत् अजूहवताम् अजूहवन् ) अत्र "ह्वः संप्रसारणम्'' इति सन्परे चङ्परे णौ संप्रसारणे परपूर्वत्वे वृद्ध्यावादेशयोर्णौ कृतं स्थानिवदिति स्थानिवत्त्वाद्धशब्दस्य हौशब्दस्य वा द्विर्वचनं "णौ चड्युपधाया ह्रस्वः''इदं "सम्प्रसारणं तदाश्रयं कार्यं बलवत्'इति वा "णौ संश्चडोः''इति विषयसप्तमीत्वात् "आतो युक्''इति युकः प्राक् प्रवर्त्तते कृते चान्तरङ्गत्वात्परपूर्वत्वमिति युग्न भवति नन्वत्र "अभ्यस्तस्य च'' इति अभ्यस्तकारणस्य ह्वयतेः संप्रसारणविधानात्सिद्धमेव तदिति किं "ह्वःसंप्रसारणम्'' इत्यनेनेति ज्ञापनार्थमभ्यासनिमित्तप्रत्ययेन व्यवधाने यदि भवति णावेवेति तेन ह्वायकमिच्छति जिह्वायकिषति, ह्वायकीयतेः सन् जिह्वायकीयिषतीत्यादौ संप्रसारणं भवति एवञ्च सन्परे चङ्परे णौ "अभ्यस्तस्य च'' इत्येव सप्रसारणं तच्चाभ्यस्तीभविष्यत इति जुहावयिषति, अजूहवदित्यत्रापि णिजुतपत्तेः प्रागेव प्रसारणेऽन्तरङ्गत्वात्परपूर्वत्वे नैव युक्तः प्रसङ्गः ( आह्वः ) "आतोनुपसर्गेकः'' इत्यत्र भाष्ये सर्वत्र प्रसारणिभ्यो डो वक्तव्य इति डप्रत्यये टिलोपमुक्त्वा "आतोऽनुपसर्गे कः" इति कप्रत्यये वा परत्वादाल्लोपे संप्रसारणे यणि आह्व इति सिद्धमित्युक्तम् उवङ् तु आल्लोपस्य "असिद्धवदत्रा'' इत्यसिद्धत्वाद्व्यवधानान्न भवति ( निहवः अभिहवः उपहवः विहवः ) "ह्वः संप्रसारणं न्यभ्युपविषु'' "आङि युद्धे'' "भावेऽनुपसर्गस्य'' इत्यप्प्रत्यये ( 1 ) ( 1 ) मूलपुस्तकानुरोधेन प्रसारणं इति पाठः स्थापितः तत्र तत्र सम्प्रसारणं इति पाठेनं भाव्यमिति प्रतिभाति प्रसारणम् ( आहावः ) "निपानमाहावः'' इति प्रसारणे वृद्धौ निपात्यते निपानमुपकूपं जलाशये यत्र गावः पानार्थमाहूयन्ते ( आह्वा ) "आतश्चोपसर्गे'' इति स्त्रियामङ्ग्याल्लोपः ( आहूतिः संहूतिः ) इति बाहुलकात् क्तिन् वेञादयस्त्रयोऽनुदात्ता उभयतो भाषाः 988