| YouTube Channel

ह्लादी (hlAdI)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
ह्लाद्
मूलधातुः:
ह्लादी
धात्वर्थः:
सुखे, अव्यक्ते शब्दे
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
ह्लादते
धातुप्रदीपः
Sanskrit
ह्लादीँ ह्लादी सुखे
- ह्लादते जह्लादे प्रह्लन्नः। प्रह्लन्नवान् आह्लादः प्रह्लादः ।। 2 6 ।।
क्षीरतरङ्गिणी
Sanskrit
ह्लादीँ ह्लादी सुखे
चशब्दादव्यक्ते शब्दे ह्लादते णिचि (द्र03126) आह्लादितः श्वीदितो निष्ठायाम् (7214) नेट्, निष्ठायां ह्लादो ह्रस्वः (द्र06495) प्रह्लन्नः क्तिनि अपीष्यते - प्रह्लत्तिः 26
धातुवृत्तिः
Sanskrit
ह्लादीँ ह्लादी (अर्थः) सुखे
चकारादव्यक्तशब्दे ह्लादत इत्यादि हादिवत् विशेषस्त्वीदित्यात् "श्वीदितो निष्ठायाम्'' इतीडभावो "ह्लादो निष्ठायाम्'' इत्युपधाह्रस्वश्च तथा ( सूत्रम्) रदाभ्यां निष्टातो नः पूर्वस्य दहः (इति सूत्रम्) इति निष्टातकारस्य पूर्वकारस्य नकारः, आह्लन्नः आह्लन्नदवान् 27
कृदन्तरूपमाला
Sanskrit
1 {@“ह्लादी सुखे च”@} 2 चकारात् पूर्वधात्वर्थः ‘अव्यक्तशब्दे’ इति अनुषज्यते।
3 आह्लन्नः-आह्लन्नवान्, 4 आह्लत्तिः।
रूपाणि गाधतिवत् 5 यथासम्भवमूह्यानि।
प्रासङ्गिक्यः
01
=>
(२०३६)
02
=>
(१-भ्वादिः-२७। अक। सेट्। आत्म।)
03
=>
[[३। ‘श्वीदितः--’ (७-२-१४) इति निष्ठायामिण्निषेधः। ‘ह्लादो निष्ठायाम्’ (६-४-९५) इति निष्ठायां ह्रस्वे निष्ठातकारधातुदकारयोर्नत्वे रूपमेवम्।]]
04
=>
[[४। क्तिनि रूपमेवम्। ‘ह्लादः--’ (६-४-९५) इत्यत्र योगविभागात् क्तिन्यपि ह्रस्व इति काशिकादिषु स्पष्टम्। भाष्ये योगविभागो दृश्यते।]]
05
=>
(३९४)