होलाकाधिकरण (holAkAdhikaraNa)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritहोलाकाधिकरण जैमि० प्रथमस्य द्वितीयपादे दर्शितेन्यायभेदे तच्च तत्त्वबोधन्याम संक्षिप्य दर्शितं यथा“होलाका प्राच्याभिमानिभिरनुष्ठीयते होलाका च वसन्तोत्सविशेषः हुलीतिप्रसिद्धः । एवमादीनेषुकादिकंदक्षिणात्यैः, आदीनेषुक स्वस्वकुरांगतं करञ्जार्कादिस्थावरदेवतापूजादिकं तद्देशप्रसिद्धम् । उद्वृषभयज्ञादि-कमुदीच्यैः क्रियते उद्वृषभयज्ञश्च ज्यैष्ठस्य पौर्णभास्यांबलीवर्द्दानभ्यर्च्यधारयन्ति यत् सः तद्देशप्रसिद्धः एवं हा-रीताद्युक्तस्मृतयोऽपि काश्चित् कस्मिंश्चिद्देशविशेषे दृश्यन्तेगृह्योक्तकर्माणि तत्तच्छाखीकर्त्तृकानीत्येषां मूलभूताःश्रुतयः कल्पनीयाः । ताश्च किं प्राच्यैर्होलाका कर्त्त-व्येत्यादिरूपा प्राच्यादिपदघटिता व्यवस्थितविषया उत-होलाका कर्त्तव्या इति तत्तत्पदाघटिता सामान्यवि-षया इति संशयः तत्र प्राच्यादिंपदघटितैव कल्प्या देश-विशेषाणामाचारदर्शनात् लिङ्गव्यवस्थया हि लिङ्ग्यनु-मीयते यथा यत्र धूमोऽवगतस्तत्रैव वह्निरनुमीयते ना-न्यत्र तथा च सूत्रम् “अनुमानव्यवस्तानात्तत्संयुक्तं प्र-माणं स्यात्” अस्यार्थः । अनुमानव्यवस्थानात् धूमादि-व्यवस्थया वह्न्याद्यनुमानव्यवस्थादर्शनात् तत्संयुक्तंप्राच्यादिपदघटितम् अनुमेयश्रुतिवाक्यं प्रमाणं स्यादितिप्राप्ते राद्धान्तायोक्तम् “विशेषाभावमात्रेण प्रसिध्येत्सवधर्मता । विशेषणात् व्यवस्था स्यात् तच्च नेहोपपद्यते” ।अस्यार्थः विशेषाभावमात्रेण हारीतस्मृतिगोभिलगृ-ह्यादौ शाखिविशेषप्रतिपादकपदाभावन तत्तत्स्मृत्युक्तस्यसर्वधर्मता सर्वसाधारणी कर्त्तव्यता प्रसिध्येत् । तथाहि छन्दोगोहि गोभिलादिः स्वशिष्यानध्यापयामास ते-ऽप्यन्यान् छन्दोगानेवमन्यत्रापि गृह्यग्रन्थादिकमुक्तमूह्यम्अतस्तत्तच्छाखिनस्तत्तच्छाखोक्तमाचरन्ति इति स्मृतिवा-क्यानुसारिणी श्रुतिः कल्पनीया । आचारे त्वाह विशे-षणात् प्राच्यादीनां विशेषव्यवहारदर्शनेनानुमेयश्रुतौप्राच्यादिविशेषणपदान्तर्भावात् व्यवस्था स्यात् प्राच्यादी-नामेव तदाचरणमिति विधानव्यवस्था स्यात् तच्च नेहो-पपद्यते । अयम्भावः सर्वाचरितृष्वनुगतम् अनाचरितृ-भ्यश्च व्यावृत्तम् आकृतिव्यक्तिगुणादिकं किचित् विशेषणंन सम्भवति यदुपादाय होलाकाद्यधिकरणं स्यात् । नच प्राचीभवत्वादिरूपप्राच्यादिपदसमाख्या तथेति वाच्यंतद्देशभवानामपि केषाञ्चिदनाचरणात् चिरविनिर्गतस्यतत्तद्देशीयस्य पुत्रपौत्राणां समाख्यायामसत्यामपिहोलाका कर्त्तव्येति सामान्यश्रुत्यैवोपपत्तौ प्राच्यादि-पदघटितश्रुतिकल्पनमन्याय्यं गौरवात् न चाप्राच्यानामननुष्ठानार्थं प्राच्यादिपदवती कल्पनीया अनाचरणरूपस्याननुष्ठानस्याश्रुतिकल्पकत्वात् तस्येच्छाविरहेणैव सम्भवात् ।न हि यदि श्रुतिविहितं स्यात् तदा अप्राच्यैरपि अ-नुष्ठितं स्यादिति तर्कयितुं शक्यते होलाकाया नित्यत्वेमानाभावेन काम्यत्वात् । न हि सर्वमेव श्रुतिविहितंकाम्यं सर्वैः सद्भिरनुष्ठीयते न वैकस्य कर्त्तुर्विधानमन्यस्यतन्निषेधयति येनाप्राच्यानां निषिद्धाचरणेनानिष्टजन-कताज्ञापनार्थं तत्पदमर्थवत् स्यात् । अत्र च शास्त्रदीपि-काधिकरणमालादायमागप्रभृतिषु प्राच्यानामिति पाठः ।प्राच्याश्चात्र शास्त्रीयाः ते च सुमेरुलङ्कयोर्मध्येया रेखाज्यीतिः शास्त्रादौ प्रसिद्धा तस्याः पूर्वदेशीयाः प्राच्याःन तु गौडदेशावधिकपूर्वंदेशीयाः । तस्याः पश्चिम-देशीयाश्च पाश्चात्त्याः । एतेन प्रतीच्यानां तथाचरणमितिस्वदेशाभिप्रायेणैव गौडीयेनोदीच्येन लिखितं तद्धेयंगौडीयानामेव श्रुतिकल्पनम् अप्रत्यक्षवेदानां तथाचाव्यवस्थितश्रुतिकल्पना स्यात् न चायमपि दोषः विशेष-कल्पने भविष्यति तथा सति पार्थसारथिमिश्रादिभिर्निबन्धृभिरयमप्युद्भावितः स्यात् न चैवम् । तस्माज्ज्योतिरादिशास्त्रप्रसिद्धप्राच्यादिमादायैवेयमाशङ्केति” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
