होमः (homaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishहोमः [hōmḥ], [हु-मन्]
Offering oblations to gods by throwing ghee into the consecrated fire, (one of the five daily Yajñas, to be performed by a Brāhmaṇa, called देवयज्ञ q. v. )
इष्टिर्यागः । स एवासेचनाधिको होमः ŚB. on MS.* 6.8.7.
A burnt offering.
A sacrifice
3.38
* 12.165.26. -अग्निः the sacrificial fire. -कर्मन् sacrificial act. -कल्पः mode of sacrificing. -कुण्डम् a hole in the ground for receiving the consecrated fire. -तुरङ्गः a sacrificial horse
नियुज्य तं होमतुरङ्गरक्षणे 3.38. -धानम् a sacrificial chamber.
धान्यम् sesamun.
barley.-धूमः the smoke of a burnt offering or sacrificial fire.-धेनुः a cow yielding milk for an oblation. -भस्मन्n. the ashes of a burnt offering. -भाण्डम् a sacrificial implement. -वेला the time for offering oblations.-शाला a sacrificial hall or chamber.
Apte 1890
Englishहोमः [हु-मन्] 1 Offering oblations to gods by throwing ghee into the consecrated fire, (one of the five daily Yajñas, to be performed by a Brāhmaṇa, called देवयज्ञ q. v.).
2 A burnt offering.
3 A sacrifice.
Comp.
अग्निः the sacrificial fire.
कुंडं a hole in the ground for receiving the consecrated fire.
तुरंगः a sacrificial horse
R. 3. 38.
धानं a sacrificial chamber.
धान्यं {1} sesamum. {2} barley.
धूमः the smoke of a burnt-offering or sacrificial fire.
भस्मन् n. the ashes of a burnt offering.
वेला the time for offering oblations.
शाला a sacrificial hall or chamber.
Apte Hindi
Hindiहोमः
- हु + मन्
यज्ञाग्नि में घी की आहुति देना
होमः
- -
"हवन, यज्ञ"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit यज्ञः, यागः, मेधः, क्रतुः, अध्वरः, मखः, इज्या, सवः, इष्टिः, यज्ञकर्म, यजनम्, याजनम्, आहवः, सवनम्, हवः, अभिषवः, होमः, हवनम्, याज्ञिक्यम्, इष्टम्, वितानम्, मन्युः, महः, सप्ततन्तुः, दीक्षा
वैदिकः विधिविशेषः यस्मिन् देवताम् उद्दिश्य वैदिकैः मन्त्रैः सह हविः प्रदीयते।
वैदिककाले यज्ञाः महत्त्वपूर्णाः आसन्। /"अफलाकाङ्क्षिभिर् यज्ञो विधिदृष्टो य इज्यते। यष्टव्यम् एवेति मनः समाधाय स सात्विकः॥ [भ.गी. १७।११]"
आहुतिः, होमः, वषट्कारः
देवतोद्देशेन मन्त्रोच्चारणपूर्वकोऽग्नौ हविर्निक्षेपः।
"आहुतेः पश्चात् पण्डितेन यजमानं रक्षासूत्रं बद्धम्।"
Tamil
Tamilஹோம: : ஹோமம்.
शब्दकल्पद्रुमः
Sanskritहोमः, (हवनमिति । हु + “अर्त्तिस्तुमुहु-स्रिति ।” उणा ०१ । १३९ । इति मन् ।)पञ्चमहायज्ञान्तर्गतयज्ञविशेषः । इत्यमरः । २ ।७ । १४ ॥
स तु देवयज्ञः । यथा, --“अध्यापनं ब्रह्मयज्ञः पितृयज्ञस्तु तर्पणम् ।होमो दैवो वलिर्भौतो नृयज्ञोऽतिथिपूजनम् ॥
”इति मनुः ॥
तल्लक्षणं यथा, --“विशिष्टदेशावच्छिन्नप्रक्षेपोपहितत्यागः ॥
”इति श्रीकृष्णतर्कालङ्कारः ॥
* ॥
अथ नित्यहोमः । तदुक्तं सोमभुजगावल्याम् ।“नाजप्तः सिद्ध्यते मन्त्रो नाहुतश्च फलप्रदः ।नानिष्टो यच्छते कामान् तस्मात्त्रितयमर्च्चयेत् ॥
पूजया लभते पूजां जपात् सिद्धिर्न संशयः ।विभूतिं चाग्निकार्य्येण सर्व्वसिद्धिञ्च विन्दति ॥
”नीलतन्त्रेऽपि ।“नित्यहोमं प्रवक्ष्यामि सर्व्वार्थं येन बिन्दति ॥
सपर्य्यां सम्यगापाद्म वलिपूर्व्वं चरेद्विधिम् ॥
ततो होमं तर्पणञ्च चरेत् साधकसत्तमः ।वलिवैश्वादिकं चैव ब्राह्मणः समुपाचरेत् ॥
अर्घोदकेन संप्रोक्ष्य तिस्रो रेखाः समालिखेत् ।विधिवदग्निमानीय क्रव्यादेभ्यो नमस्तथा ॥
मूलमन्त्रं समुच्चार्य्य कुण्डे वा स्थण्डिलेऽपि वा ।भूमौ वा संस्तरेद्वह्निं व्याहृतित्रितयेन च ।स्वाहान्तेन त्रिधा हुत्वा षडङ्गहवनं चरेत् ॥
”तथा ।“ततो देवीं समावाह्य मूलेन षोडशाहुतिम् ।हुत्वा स्तुत्वा नमस्कृत्य विसृजेदिम्दुमण्डले ॥
”श्यामादौ विशेषः ।“भैरवांश्च हुनेदष्टौ आज्यान्वितैस्तिलैः शुभैः ।पूर्व्वादिदिक्क्रमेणैव ततो होमं समाचरेत् ॥
” *अथ संक्षेपहोमप्रयोगः ।“कुण्डेवास्थण्डिले वापि वीक्षणादिभिः संस्कृते ।प्रागग्रा उदगग्राश्च तिस्रो रेखाः समालिखेत् ॥
”तथा च ।“वीक्षणं मूलमन्त्रेण शरेण ताडनं मतम् ।तेनैव प्रोक्षणं प्रोक्तं वर्म्मणाभ्युक्षणं मतम् ॥
”ततो मूलमुच्चार्य्य कुण्डाय नमः इति संपूज्यप्रागग्रा उदगग्रास्तिस्रो रेखाः कर्त्तव्याः ।प्रागग्रेषु मुकुन्देशपुरन्दरान् प्रादक्षिण्येनसंपूज्य उदगग्रासु ब्रह्मवैवस्वतेन्दून् पूजयेत् ।सुन्दरीपक्षे तु सर्व्वत्र षट्तारी प्रयोगःषट्तारी च ऐँ ह्रीँ श्रीं ऐं क्लीं सौः ब्रह्मणेनमः एवं क्रमेण पूजयेत् । तथा ब्रह्मसंहि-तायां होमकुण्डे ।“ऐशान्यां वेदिकां हस्तविस्तारोन्नतिशालि-नीम् ।कृत्वास्मिन् स्थापयेत् कुम्भं यथोक्तक्रमयोगतः ॥
तत्र संपूजयेद्देवं यथाविध्युपचारकैः ।ततो होमं प्रकुर्व्वीत देवतासन्निधानतः ॥
”ततः कुण्डमध्ये षट्कोणवृत्तत्रिकोणं तद्वहि-रष्टदलपद्मं तद्वहिश्चतुरस्रं चतुर्द्वारसमेतंलिखित्वा तदुपरि मूलेन पुष्पाञ्जलीन् दद्यात् ।सुन्दरीपक्षे तु बालया । ततः सर्व्वाणि प्रणवे-णाभ्युक्ष्य वह्नेर्योगपीठमर्च्चयेत् । तद् यथा ।कर्णिकोपर्य्याधारशक्यादोन् संपूज्य अग्न्यादि-कोणचतुष्केषु ओँ धर्म्माय नमः ओँ ज्ञानायवैराग्याय ऐश्वर्य्याय पूर्व्वादिदिक्षु अधर्म्मायअज्ञानाय अवैराग्याय अनैश्वर्य्याय मध्ये ओँअनन्ताय नमः । एवं पद्माय अं अर्कमण्डलायद्वादशकलात्मने नमः । उं सोममण्डलायषोडशकलात्मने नमः । मं वह्निमण्डलाय दश-कलात्मने नमः । ततः केशरेषु पूर्व्वादिमध्ये चओँ पीताय नमः । एवं श्वेतायै नमः अरुणायैनमः । कृष्णायै धूम्रायै तीब्रायै स्फुलिङ्गिन्यैरुचिरायै ज्वालिन्यै ततो रं वह्न्यासनाय नमः ।ततः ।“वागीश्वरीमृतुस्नातां नीलेन्दीवरलोचनाम् ।वागीश्वरेण संयुक्तां क्रीडाभावसमन्विताम् ॥
”इति ध्यात्वा ओँ ह्रीँ वागीश्वराय नमः ओँवागीश्वर्य्यै नमः । इति मन्त्रेण पञ्चोपचारैःसंपूज्य सूर्य्यकान्तादिसम्भूतं श्रोत्रियगेहजं वावह्निमानयेत् । सन्दरीपक्षे तु कामेश्वरं कामे-श्वरीं पूजयेत् । गौतमीये ।“पाषाणभववह्निञ्च यदि वारणिसम्भवम् ।श्रोत्रियाणां गेहजञ्च वनस्थं वाथवा हरेत् ॥
यदृच्छालाभसंयुक्तो अयोग्यो यागकर्म्मणि ।निरग्निब्राह्मणाल्लब्धो ह्यर्द्धलाभकरो भवेत् ॥
क्षत्रबन्धोश्चतुर्थांशफलं दद्याद्धुताशनः ।वैश्यात् शूद्राच्च विफलं जायते होमकर्म्मणि ।तस्मात् सर्व्वप्रयत्नेन वह्निमुक्तं समाहरेत् ॥
”तन्त्रान्तरे ।“द्विजातिभवनाद्वापि वह्निमानीय साधकः ।वौषडन्तेन मूलेन मन्त्रितं तं विलोकयेत् ॥
अग्निमावाहयेदस्त्रमन्त्रेण तदनन्तरम् ।हूँ फडन्तेन मूलेन क्रव्यादांशं परित्यजेत् ॥
”ततः ओँ वह्नेर्योगपीठाय नमः चतुर्दिक्षु ओँवामायै नमः एवं ज्येष्ठायै रौद्र्यै अम्बिकायै ।ततो मूलमुच्चार्य्य अमुकदेवताकुण्डाय नमः ।इति कुण्डं संपूज्य तदधो वागीश्वरीं तत्तद्देवता-रूपां ऋतुमतीं ध्यात्वा यथोक्तवह्निमानीयवीक्षणादिभिः संस्कृत्य रमिति तस्मात् वह्नि-मुद्धृत्य मूलमुच्चार्य्य हूं फट् क्रव्यादेभ्यः स्वाहाइत्येनेन क्रव्यादाशं परित्यज्य वह्निमन्त्रेन संरक्ष्यंहूं इत्यवगुण्ठ्य धेनुमुद्रया अमृतीकृत्य बाहुभ्यांसमुद्धृत्यं कुण्डोपरि त्रिः परिभ्राम्य जानुस्पृष्ट-महीतलः शिवबीजबुद्ध्या आत्मनोऽभिमुखंदेव्या योनी एन क्षिपेत् । ततो ह्रीं वह्निमूर्त्तयेनमः इत्यभ्यर्च्च्य रं वह्निचैतन्याय नमः इतिचैतन्यं तत्र संयोज्य ओँ चित् पिङ्गल हन हनदह दह पच पच सर्व्वं ज्ञापय ज्ञापय स्वाहाइति ज्वालयेत् । ततः ।“अग्निं प्रज्वलितं वन्दे जातवेदं हुताशनम् ।सुवर्णवर्णममलं समिद्धं विश्वतोमुखम् ॥
”इत्युपतिष्ठेत् ॥
ततो अग्ने त्वममुकनामासीति नाम कृत्वा ओँवेखानरं जातवेद इहावह लोहिताक्ष सर्व्व-कर्म्माणि साधय स्वाहा । अनेनार्घ्यादिभिःसंपूज्य ओँ अग्नेर्हिरण्यादिसप्तजिह्वाभ्यो नमः ।ओँ सहस्रार्च्चिषे हृदयाय नमः इत्यादि अग्नि-षडङ्गेभ्यो नमः । ओँ अग्नये जातवेदसे इत्या-द्यष्टमूर्त्तिभ्यो नमः । तद्वाह्ये ओँ ब्राह्म्याद्यष्ट-शक्तिभ्यो नमः । तद्बहिः ओँ पद्माद्यष्टनिधिभ्योनमः । तद्वाह्ये ओँ इन्द्रादिलोकपालेभ्यो नमः ।तद्वाह्ये ओँ वज्राद्यस्त्रेभ्यो नमः । ततः प्रादेश-मात्रं कुशपत्रद्वयं घृतमध्ये निक्षिप्य सव्यासव्य-मध्याभागेषु इडां पिङ्गलां सुषुम्नां ध्यात्वा होमंकुर्य्यात् । स्रुवेण दक्षिणभागादाज्यं गृहीत्वाओँ अग्नये स्वाहा इति अग्नेर्दक्षिणनेत्रे जुहु-यात् । तथा वामभागादाज्यं गृहीत्वा ओँसोमाय खाहा इति वामनेत्रे जुहुयात् । ततोमध्यभागादाज्यं गृहीत्वा ओँ अग्निसोमाभ्यांस्वाहा इत्यग्नेर्ललाटनेत्रे जुहुयात् । पुनर्दक्षि-णतः नम इति घृतं गृहीत्वा ओँ अग्नयेस्विष्टिकृते स्वाहा इत्यग्निमुखे । ततो महा-व्याहृतिहोमः । ओँ भूः स्वाहा ओँ भुवः स्वाहाओँ स्वः स्वाहा ओँ वैस्वानर जातवेद इहावहलोहिताक्ष सर्व्वकर्म्माणि साधय स्वाहा इत्यनेनत्रिवारं जुहुयात् । ततः अग्नौ मूलेन पीठ-पूर्व्वकं देवतां संपूज्य तन्मुखे घृतेन मूलमन्त्रेणपञ्चविंशतिवारं जुहुयात् । वह्निदेवतयोरा-त्मना सह ऐक्यं विभाव्य मूलमन्त्रेण एकादशा-हुतीर्ज्जुहुयात् । ततो मूलमन्त्रस्य अङ्गदेव-ताभ्यः स्वाहा शक्तश्चेत् प्रत्येकमेकैकाहुतिंजुहुयात् । ततः सङ्कल्पं विधाय तत्तत्कल्पोक्त-द्रव्येण होमं कुर्य्यात् । ततो मूलमन्त्रेण पूर्णाहुतिंदत्त्वा संहारमुद्रया स्वेष्टदेवता हृदये समांनीयक्षमस्वेति विसृज्य दक्षिणां दत्त्वा अच्छिद्राव-धारणं कुर्य्यात् । इति तन्त्रसारः ॥
बृहद्धोम-प्रयोगस्तु तत्रैव द्रष्टव्यः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
