| YouTube Channel

हैतुकः (haitukaH)

 
Apte Hindi
Hindi
हैतुकः
पुं*
- -
"तर्कयुक्त हेतुवादी, तार्किक"
हैतुकः
पुं*
- -
मीमांसक
हैतुकः
पुं*
- -
"तर्कवादी, अनीश्वरवादी, नास्तिक"
शब्दकल्पद्रुमः
Sanskrit
हैतुकः,
पुं,
(हेतुना चरतीति हेतु + ठक् ।सद्युक्तिव्यवंहारी यथा, मनुः ।“त्रैविद्यो हैतुकस्तर्की निरुक्तो धर्म्मपाठकः ।त्रयश्चाश्रमिणः पूर्व्वे परिषत् स्याद्दशावरा
”त्रैविद्यः त्रिवेदपारगः हैतुकः सद्युक्तिव्यव-हारी इति व्यवहारतत्त्वम्
हेतुद्वारा सत्-कर्म्मसु सन्देहकर्त्ता यथा, --“पाषण्डिनो विकर्म्मस्थान् वैडालव्रतिकान्शठान् ।हैतुकान् वकवृत्तींश्च वाङ्मात्रेणापि नार्च्चयेत्
”इति विष्णुपुराणे १८ ९९
पाषण्डादीनां लक्षणम्“भ्रष्टः स्वधर्म्मात् पाषण्डो विकर्म्मस्थो निषिद्ध-कृत् ।यस्य धर्म्मध्वजो नित्यं सुरध्वज इवोच्छ्रितः ।प्रच्छन्नानि पापानि वैडालं नाम तद्व्रतम्
”तद्वान् वैडालव्रतिकः ।“प्रियं वक्ति पुरोऽन्यत्र विप्रियं कुरुते भृशम् ।व्यक्तापराधचेष्टश्च शठोऽयं कथितो बुधैः
सन्देहकृत् हेतुभिर्यः सत्कर्म्मसु हैतुकः ।अर्व्वाग्दृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः ।शठो मिथ्याविनीतश्च वकवृत्तिरुदाहृतः
”इति तट्टीका
(फलाभिसन्धानयुक्ते, त्रि
)