| YouTube Channel

हेरम्बः (herambaH)

 
Apte
English
हेरम्बः [hērambḥ], [हे शिवे रम्बति रम्ब्-अच् अलुक् समा˚ Tv.]
N.
of Gaṇeśa
जेता हेरम्बभृङ्गिप्रमुखगणचमूचक्रिणस्तारकारेः
Mv.*
2.17
हे हेरम्ब, किमम्ब, रोदिषि कथं, कर्णौ लुठत्यग्निभूः Subhāṣ.
A buffalo.
A boastful hero.
Comp.
-जननी
N.
of Pārvatī (mother of Gaṇeśa).
Apte Hindi
Hindi
हेरम्बः
पुं*
- "हे शिवे रम्बति रम्ब् + अच्, अलुक् स*"
गणेश
हेरम्बः
पुं*
- -
भैंसा
हेरम्बः
पुं*
- -
धीरोद्धत नायक
Wordnet
Sanskrit
Synonyms:
गणेशः, गजाननः, गणपतिः, लम्बोदरः, वक्रतुण्डः, विनायकः, आखुवाहनः, एकदन्तः, गजमुखः, गजवदनः, गणनाथः, हेरम्बः, भालचन्द्रः, विघ्नराजः, द्वैमातुरः, गणाधिपः, विघ्नेशः, पर्शुपाणिः, आखुगः, शूर्पकर्णः, गणः
noun
हिन्दूनां एका प्रधाना तथा अग्रपूज्या देवता यस्य शरीरं मनुष्यस्य मस्तकं तु गजस्य अस्ति।
"गणेशस्य वाहनं मूषकः अस्ति।"
Tamil
Tamil
ஹேரம்ப3: : விநாயகர்.
शब्दकल्पद्रुमः
Sanskrit
हेरम्बः,
पुं,
(हे रणे शिवसमीपे वा रम्बते इति ।रवि शब्दे + पचाद्यच् ।) गणेशः इत्यमरः ।१ ४१
महिषः शौर्य्यगर्व्वितः इति मेदिनी
बुद्धविशेषः तत्पर्य्यायः हेरुकः चक्रसम्बरः३ देवः वज्रकपाली निशुम्भो शशि-शेखरः वज्रटीकः इति त्रिकाण्ड-शेषः
*
अथ हेरम्बमन्त्रः ऊकार-युक्तो गकारः सबिन्दुः प्रणवादिनमोऽन्तश्चतु-रक्षरः निबन्धे ।“पञ्चान्तको बिन्दुयुक्तो वामकर्णविभूषितः ।तारादिहृदयान्तोऽयं हेरम्बमनुरीरितः ।चतुर्वर्णात्मको नॄणां चतुर्वर्गफलप्रदः
”अस्य पूजाप्रयोगः प्रातःकृत्यादिपीठन्यासान्तंविधाय गणेशोक्तपीठशक्तीः पीठमनुञ्च विन्यस्यऋष्यादिन्यासं कुर्य्यात् अस्य गणक ऋषि-र्गायत्त्री च्छन्दो हेरम्बा देवता गकारो बीजंविन्दुः शक्तिश्चतुर्व्वर्गसिद्ध्यर्ये विनियोगः शिरसिगणकऋषये नमः इत्यादि ततः कराङ्ग-न्यासौ गां गीं गूं गं गौं गः इत्येतैः षडङ्गानिकुर्य्यात् तथा ।“षड्दीर्घभाजा बीजेन षडङ्गानि प्रकल्पयेत्
”ततो ध्यानम् ।“मुक्ताकाञ्चननीलकुन्दघुसृणच्छायैस्त्रिनेत्रा-न्वितै-र्नागास्यैर्हरिवाहनं शशिधरं हेरम्बमर्क-प्रभम् ।दृप्तं दानमभीतिमोदकरदान् टङ्कं शिरोऽक्षा-त्मिकांमालां मुद्गरमङ्कुशं त्रिशिखकं दोर्भिर्दधानंभजे
”एवं ध्यात्वा मानसैः संपूज्य शङ्खस्थापनं कुर्य्यात् ।ततो गणेशोक्तपीठपूजान्तं कृत्वा ओँ हुँ हुँमहासिंहाय गां हेरम्बासनाय नम इत्यासनंपूजयेत् तथा निबन्धे ।“प्रणवं कवचद्वन्द्वं महासिंहाय गां ततः ।हेरम्बेति पदं पश्चात् आसनाय हृदन्ततः
अयमासनमन्त्रः स्यात् प्रदद्यदिमुनासनम्
”इति
पीठन्यासोऽप्येवं मन्त्रः तत ओँ मं मन्त्रेणमूर्त्तिं संकल्पयेत् तथा निबन्धे ।“तारादिविघ्नबीजेन मूर्त्तिं तस्य प्रकल्पयेत् ।”पुनर्ध्यात्वावाहनादिपञ्चपुष्पाञ्जलिदानपर्य्यन्तंविधाय आवरणपूजामारभेत् यथा अग्न्यादि-कोणे मध्ये दिक्षु गां हृदयाय नम इत्या-दिना पूजयेत् तद्वहिरिन्द्रादीन् वज्रादींश्चसपूज्य धपादिविसर्जनान्तं कर्म्म समापयेत् ।अस्य पुरश्चरणं त्रिलक्षजपः तथा ।“त्रिलक्षञ्च जपेन्मन्त्रं दशांशं जुहुयात्ततः ।”होमद्रव्यं यथा, “लक्षत्रयं जपेन्मन्त्रमिक्षुदण्डैर्दशांशतः ।अपूपैराज्ययुक्तैर्व्वा जुहुयान्मन्त्रसिद्धये
*
मन्त्रान्तरम् गं क्षिप्रप्रसादनःय हृत् तथा चनिबन्धे ।“सम्बर्त्तको नेत्रयुतः पार्श्वो वह्न्यासने स्थितः ।प्रसादनाय हृन्मन्त्रं स्वबीजाद्यो दशाक्षरः
”अस्य पूजा प्रातःकृत्यादिपीठन्यासान्तं कर्म्मविधाय ऋष्यादिन्यासं कुर्य्यात् शिरसि गणक-ऋषये नमः मुखे विराट्छन्दसे नमः हृदिक्षिप्रप्रसादनाय देवतायै नमः तथा निबन्धे ।“गणको मुनिराख्यातो विराट् छन्द उदी-रितम् ।क्षिपप्रसादनो विघ्नो देवतास्य प्रकीर्त्तिता ।दीर्घयुक्तेन बीजेन षडङ्गानि प्रकल्पयेत्
”एकाक्षरवत् कराङ्गन्यासौ कृत्वा ध्यायेत् ।“पाशाङ्कुशौ कल्पलतां विषाणंदधत्स्वशुण्डाहितबीजपूरः ।रक्तस्त्रिनेत्रस्तरुणेन्द्रमौलि-र्हारोज्ज्वलो हस्तिमुखोऽवताद्वः
”इति धात्वा मानसैः संपूज्य शङ्खस्थापनं कृत्वापीठपूजां विधाय पुनर्ध्यात्वावाहनादिपञ्चषुष्पा-ञ्जलिदानपर्य्यन्तं विधाय आवरणपूजामारभेत् ।अग्न्यादिषु गां हृदयाय नम इत्यादिना पूजयेत् ।तथा निबन्धे ।“अङ्गानि पूर्व्वमभ्यर्च्च्य विघ्नानष्टौ यजेत्ततः ।पत्राग्रे पूजयेदेता ब्राह्म्याद्यास्तदनन्तरम्
”पत्रेषु ।“विघ्नं विनायकं शूरं वीरं वरदसंज्ञकम् ।इभवक्त्रं चैकरदं लम्बोदरं प्रपूजयेत्
”पत्राग्रेषु ब्राह्म्याद्यास्तद्वहिरिन्द्रादीन् वज्रा-दींश्च पूजयेत् ततो धूपादिविसर्जनान्तं कर्म्मसमापयेत् अस्य पुरश्चरणं लक्षजपः ।तथा ।“लक्षं जपेज्जपस्यान्ते जुहुयादयुतं तिलैः ।मधुरत्रितयैव्वापि द्रव्यैरष्टाभिरीरितैः
”इति कृष्णानन्दकृततन्त्रसारः