| YouTube Channel

हेमहस्तिरथः (hemahastirathaH)

 
शब्दकल्पद्रुमः
Sanskrit
हेमहस्तिरथः,
पुं,
(हेमनिर्म्मतहस्तिविशिष्टोरथो यत्र तु दानार्थं कल्पितः ।) महा-दानविशेषः तद्विवरणं यथा, --“अथातः संप्रवक्ष्यामि हेमहस्तिरथं शुभम् ।यस्य प्रदानात् भवनं वैष्णवं याति मानवः
पुण्यां तिथिं समासाद्य तुलापुरुषदान-वत् ।विप्रवाचनकं कुर्य्यात् लोकेशावाहन बुधः
ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम् ।अत्राप्युपोषितस्तद्वत् ब्राह्मणैः सह भोजनम्
कुर्य्यात् पुष्परथाकारं काञ्चनं मणिमण्डि-तम् ।वलभीभिर्विचित्राभिश्चतश्चक्रसमन्वितम्
लोकपालाष्टकोपेतं ब्रह्मार्कशिवसंयुतम् ।मध्ये नारायणोपेतं लक्ष्म्या चैव समन्वितम्
कृष्णाजिनतिलद्रोणं कृत्वा संस्थापयेद्रथम् ।तथाष्टादश धान्यानि भाजनामनचन्दनैः
दीपकोपानहच्छत्रदर्पणं पादुकान्वितम् ।ध्वजे तु गरुडं कुर्य्यात् कूवराग्रे विनायकम्
नानाफलसमायुक्तमुपरिष्टाद्वितानकम् ।कौषेयपञ्चवस्त्रञ्च अम्लानकुसुमान्वितम्
चतुर्भिः कलसैः मार्द्धं गोभिरष्टाभिरन्वितम् ।चतुर्भिर्हेममातङ्गैर्मुक्तादामविभूषितम्
स्वरूपतः करिभ्यान्तु युक्तं कृत्वा निवेदयेत् ।कुर्य्यात् पञ्चपलादूर्द्ध्वमभावादपि शक्तितः
ततो मङ्गलशब्देन स्नापितो वेदपुङ्गवैः ।त्रिः प्रदक्षिणमावृत्य गृहीतकुसुमाञ्जलिः
इममुच्चारयन्मन्त्रं ब्राह्मणेभ्यो निवेदयेत्
नमो नमः शङ्करपद्मजार्क-लोकेशविद्याधरवासुदेवैः ।त्वं मन्यसे वेद पुराण यज्ञतेजोमयस्यन्दन पाहि तस्मात्
यत्तत् पदं परमगुह्यतमं मुरारे-रानन्दहेतु गुणरूपविमुक्तमन्तः ।योगैकमानसदृशो मुनयः समाधौपश्यन्ति तत्त्वमसि नाथ रथेऽधिरूढः
यस्मात्त्वमेव भवसागरसंप्लुताना-मानन्दभाण्डभृतमध्वरपानपात्रम् ।तस्मादघौघशमनेन कुरुप्रसादंचामीकरेभरथमाधवसंप्रदानात्
इत्थं प्रणम्य कनकेभरथप्रदानंयः कारयेत् सकलपापविमुक्तदेहः ।विद्याधरामरमुनीन्द्रगणाभिजुष्टंप्राप्नोत्यसौ पदमतीन्द्रियमिन्दुमीलेः
कृतदुरितवितानादुल्लसद्वह्निजाल-व्यतिकरकृतदाहोद्वेगभाजोऽपि बन्धून् ।नयति पितृपुत्त्रान् बान्धवानप्यशेषान्कृतगजरथदान शाश्वतं सद्म विष्णोः
”इति मत्स्यपुराणे महादानानुकीर्त्तने हेम-हस्तिरथप्रदानिको नाम २९२ अध्यायः