| YouTube Channel

हेडृ (heDR)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
हेड्
मूलधातुः:
हेडृ
धात्वर्थः:
अनादरे
गणः:
भ्वादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
आत्मनेपदी
रूपम्:
हेडते
अनुबन्धादिविशेषः:
ऋदित्
धातुप्रदीपः
Sanskrit
हेडृँ हेडृ
मानकरूपान्तरम् - होडृँ
होडृ अनादरे
- हेडते त्यजतीत्यर्थः अजिहेडत् हेडा हेला होडते जुहोडे होडा होडः विहोडते विहोडाञ्चक्रे (49) हेड वेष्टन इति घटादौ पठ्यते हेडति ।हिडयति अनादरे तु हेडयति ।। 281, 282 ।।
क्षीरतरङ्गिणी
Sanskrit
हेडृँ हेडृ अनादरे
- हेडते हेडस्तिरस्कारः आसुनि (द्र0 उ0 4188) सान्तः अचि (द्र0 31134) हेडोऽदन्तः गुरोश्च हलः (33103) इति हेला अजिहेडत् घटादौ हेड वेष्ठने (1526) हेडति हिडयति 279
धातुवृत्तिः
Sanskrit
हेडृँ हेडृ
मानकरूपान्तरम् - होडृँ
होडृ (अर्थः) अनादरे
(हेडते जिहेडे हेडिता जिहेडिषते जेहेड्यते जेहेड्डि हेडयति अजिहेडत् ) ऋदित्त्वान्नोपधाह्रस्वः एवं (होडत जुहोडे) इत्यादि होडः पचाद्यच् होडइवाचरति (होडते) [ आचारेऽवगल्भक्लीबहोडेभ्यःक्विब्वा ] इति क्विपि "सनाद्यन्ता''इति धातुत्वे लादयः होडादीनामकारस्यानुदात्तत्वानुनासिकत्वयोः प्रतिज्ञानात् "अनुदात्तङितः'' इति तङ् तथा भाष्यम् सर्वप्रातिपदिकेभ्यः क्विबित्युक्त्वा तर्हीदानीं गल्भाद्यनुक्रमणं कर्त्तव्यं, कर्त्तव्यं च, आत्मनेपदार्थमनुबन्धानासङ्क्ष्यामीति क्किब् भवति, "कर्तुः क्यङ्सलोपश्च'' इति उपमानात्त्कर्तुः सुबन्तादाचारे क्यङिति क्यङ् उपमानस्य कर्तृत्वं संनिधानादाचरणक्रियापेक्षं, लोपश्चेति चशब्दस्यान्वाचयशिष्टत्वात् यत्रान्त्यः सकारः संभवति तस्य लोपः, व्यवस्थितविभाषया, ( होडायते) अनुनासिकत्वप्रतिज्ञानं क्विप्सिंनियोगेनैवेतीत्संज्ञाया अभावात् "अकृत्सार्वधातुकयोः'' इति दीर्घः हेडृ वेष्टनइति घटादौ होडॄ गतावित्यग्रे परस्मैपदी 272
कृदन्तरूपमाला
Sanskrit
1 {@“हेडृ अनादरे”@} 2 ‘हेडतेऽनादरे हेडेर्वेष्टने हिडयेन्मिथः।।’ 3 इति देवः।
सर्वाणि रूपाणि भौवादिककेलति 4 वत् यथासम्भवमूह्यानि।
5
प्रासङ्गिक्यः
01
=>
(२०२१)
02
=>
(१-भ्वादिः-२८४। सक। सेट्। आत्म।)
03
=>
(श्लो। ८५)
04
=>
(२६२)
05
=>
[पृष्ठम्१४२१+ २८]