| YouTube Channel

हेडकः-डिका (heDakaH-DikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“हेड वेष्टने”@} 2 घटादिः।
‘हेडतेऽनादरे हेडेर्वेष्टने हिडयेन्मिथः।।’ 3 इति देवः।
हेडकः-डिका, हेडकः-डिका, हिहेडिषकः-षिका, हेहेडकः-डिका
इत्यादीनि रूपाणि भौवादिककेलतिवत् 4 यथासम्भवमूह्यानि।
अनादरार्थकस्य भौवादिकस्यैव मित्त्वार्थं परस्मैपदार्थं घटादिषु पाठ इति केचित्।
प्रासङ्गिक्यः
01
=>
(२०२०)
02
=>
(१-भ्वादिः-७७८। सक। सेट्। पर।)
03
=>
(श्लो। ८५)
04
=>
(२६२)