| YouTube Channel

हृषु (hRSu)

 
Apte
English
हृषु [hṛṣu],
a.
Pleased, rejoiced.
Telling lies.
षुः Fire.
The sun.
The moon.
Monier Williams Cologne
English
हृषु
mfn.
glad, happy,
L.
telling lies,
L.
हृषु
m.
Agni or fire,
L.
the sun,
L.
the moon,
L.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
हृष्
मूलधातुः:
हृषु
धात्वर्थः:
अलीके
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
हर्षति
धातुप्रदीपः
Sanskrit
हृषुँ हृषु अलीके
- हर्षति हृषिताः केशा हृष्टा वा हृष तुष्टाविति दिवादौ हृष्यति ।। 709 ।।
क्षीरतरङ्गिणी
Sanskrit
हृषुँ हृषु अलीके
- हर्षति हृष्ट्वा, हर्षित्वा हृष्टः हृषेर्लोमसु (7229) इति [ हृष्टानि ] हृषितानि लोमानि विस्मितप्रतिघातयोश्च (7222वा0) हृष्टश्चैत्रः, हर्षितः हृषेरुलच् (उ0 198) हर्षुलः स्तनिहृषि (उ0 329) इति हर्षयित्नुः दिवादौ हृष तुष्टौ (4122) हृष्यति 689
धातुवृत्तिः
Sanskrit
हृषुँ हृषु (अर्थः) अलीके
(हर्षति हृष्टानि लोमानि हर्षितातिलोमानि हृष्टं लोम, ईर्षितं लोमभिः ) अत्रोदित्वान्न्त्यिसनिट्त्वे प्राप्ते "हृषेर्लोमसु'' इति लोमविषयालीकवाचित्वात्पक्षे इडगमः यस्तु दिवादौ हृष तुष्टाविति पठ्यते तस्य तु सेट्कत्वान्निष्ठायामनेन पक्षे इण्निषिध्यते इतीयमुभयत्र विभाषा, अत्र लोमान्यङ्गजानि केशाश्चेति वृत्तावुक्तम् लोमभ्योन्यत्र हृष्टमित्येव भवति, दैवादिकस्य तु हृषितमिति ( हष्टो देवदत्तः हृषितो देवदत्तः, ) विस्मत इत्यर्थः ( हृष्टा दन्ता हृषिता दन्ताः ) प्रतिहता इत्यर्थः [ विस्मितप्रतिघातयोश्चेति वक्तव्यम् ] इति इङ्विक्पः (हर्षुलः) "हृषेरुलच्'' इत्युलच् (हर्षयित्नुः) स्तनिहृषीत्यादिना ण्यन्तादित्नुच् 696
कृदन्तरूपमाला
Sanskrit
1 {@“हृषु अलीके”@} 2 ‘…क्रमतोऽलीके तुष्टौ हर्षति हृष्यति।’ 3 इति देवः।
‘अलीकम् = आनन्दः’ इति काशकृत्स्नधातुपाठकन्नडव्याख्या।
4 हृष्टः, 5 हृष्टो लोम हृषितं वा, ‘भयसंहृष्टरोमाणः’ 6, 7 हृष्टो दन्तः, हृषितो वा, 8 हृष्यम्।
सामान्यरूपाणि सर्वाणि पोषतिवत् 9 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(२०१८)
02
=>
(१-भ्वादिः-७०९। अक। सेट्। पर।)
03
=>
(श्लो। १७६)
04
=>
[[३। धातोरुदित्त्वात् क्त्वायामिड्विकल्पः। तेन निष्ठायामिण्निषेधः।]]
05
=>
[[४। निष्ठायामस्य धातोः इटः प्राप्त्यभावात् ‘हृषेर्लोमसु’ (७-२-२९) इति लोमसु वाच्येषु इड्विकल्पो विधीयते। अत्राप्राप्तविभाषा।]]
06
=>
(भट्टिः-९।२२)
07
=>
[[५। ‘हृष्टो दन्तः’ इत्यत्र भग्न इत्यर्थः। ‘विस्मितप्रतिघातयोश्च’ (वा। ७-२-२९) इति इड्विकल्पः।]]
08
=>
[[६। ‘ऋदुपधात्--’ (३-१-११०) इति क्यप्।]]
09
=>
(१०२६)