| YouTube Channel

हृष (hRSa)

 
Yates
English
हृष (य, ड) हृष्यति 4.
a. To rejoice,
exult. (उ) हर्षति 1.
a. To tell a lie.
Wilson
English
हृष (इर उ) इरहृषु r. 4th cl. (हृष्यति) To rejoice, to
exult, to be pleased or delighted. (उ) हृषु r. 1st cl. (हर्षति) To
lie, to affirm falsely.
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
हृष्
मूलधातुः:
हृष
धात्वर्थः:
तुष्टौ
गणः:
दिवादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
हृष्यति
धातुप्रदीपः
Sanskrit
हृषँ हृष तुष्टौ
- हृष्यति अहृषत् हृष्टं लोम हृषितम् लोम हृषु अलीक इत्यस्य तु हर्षति अहर्षीदिति 123
शब्दकल्पद्रुमः
Sanskrit
हृष, हृष्टौ इति कविकल्पद्रुमः
(भ्वा०-पर०-अक०-सेट् क्वावेट् ।) हृष्टिश्चित्तोत्साहः ।उ, हर्षित्वा हृष्ट्वा क्त्वा इमो वेटत्वान्नेम डी-श्वीत्वादिना इमे निषेधे निष्ठायां हृष्टःअस्मात् पुषादित्वान्नित्यं इत्यन्ये इतिदुर्गादासः
हृष, ञि अलीके इति कविकल्पद्रुमः
(भ्वा०-पर०-सक०-सेट् क्वावेट् ।) उ, हर्षित्वाहृष्ट्वा ञि, हृष्टोऽस्ति अलीकं मिथ्याकरणम् ।हर्षति कथां नीचः मिथ्या करोति इत्यर्थः ।इति दुर्गादासः
हृष, ञि इर् हृष्टौ इति कविकल्पद्रुमः
(दिवा०-पर०-अक०-सेट् ।) य, हृष्यति लोकःसुखात् ञि, हृष्टोऽस्ति इर अहृषत् अह-र्षीत् अस्मात् पुषादित्वा न्नित्यं ङ, इत्यन्ये ।इति दुर्गादासः
वाचस्पत्यम्
Sanskrit
हृष चित्तोत्साहे म्वा०
पर०
अक० सेट् हर्षति अहर्षीत् उदित् हृषित्वा हृष्ट्वा हृष्टः
हृष हर्षे चित्तोत्साहे दि० प० अ० सेट् हृष्यति इरित्अहृषत् अहर्षीत् ञीत् हृष्टोऽस्ति
हृष मिथ्याकरणे
भ्वा०
पर०
सक०
सेट् उदित् क्त्वा वेट् हर्षति अहर्षीत्
क्षीरतरङ्गिणी
Sanskrit
हृषँ हृष तुष्टौ
- हृष्यति अहृषत् हृषितः भ्वादौ हृषु अलोके (1468) हर्षति, अहर्षीत्, हृष्टः हृषेर्लोमसु (7229) इति वेट्-संहृष्टानि लोमानि, संहृषितानि विस्मितप्रतीघातयोश्च (7229 वा0)-हृष्टश्चैत्रः हृषितः, हृष्टा दन्ताः हृषिताः नन्दी अस्याप्युदित्वमाह 117
धातुवृत्तिः
Sanskrit
हृषँ हृष (अर्थः) तुष्टौ
( हृष्यति ) इत्यादि श्यनङौ वर्जयित्वा भौवादिकवत् अयमुदिदिति नन्दीति स्वामी तद्वृत्त्यादिविरोधदुपेक्ष्यम् यदाह "हृषेर्लोमसु' इत्यत्र हृषु अलीक' इत्ययं निष्ठायामनिट्, हृष तुष्टावित्ययं सेट्, अनयोरुभयोरिदं ग्रहणमित्युभयत्र विभाषेयम् इति अत्रैव न्याये "हृषु अलीक'इत्ययमनिडिति "उदितो वा'' इति क्त्वाप्रत्यय इड्विकल्पविधानात् "यस्य विभाषा'' इति निष्ठायामनिट्, हृष तुष्टावित्ययं सेट्'' इति वर्धमानोऽप्येवमाह 121
कृदन्तरूपमाला
Sanskrit
1 {@“हृष तुष्टौ”@} 2 ‘…क्रमतोऽलीके तुष्टौ हर्षति हृष्यति।’ 3 इति देवः।
“‘हृषु’ इति नन्दी, स्वामी च” -इति माधवः।
क्षीरस्वामी ‘हृष’ इत्येव पपाठ।
4 हृष्टः, हृषितः, 5 संहृष्टानि-संहर्षितानि लोमानि।
हृष्टश्चैत्रः, हृष्टाः 6 दन्ताः, हृषिता वा।
7 हर्षयित्नुः।
8 हर्षुलः।
हर्षः-श्रीहर्षः, प्रहर्षी।
सामान्य- रूपाणि भौवादिकरेषतिवत् 9 बोध्यानि।
प्रासङ्गिक्यः
01
=>
(२०१७)
02
=>
(४-दिवादिः-१२२९। अक। सेट्। पर।)
03
=>
(श्लो। १७६)
04
=>
[[८। धातोः सेट्त्वेऽपि ‘विस्मितप्रतिघातयोश्च’ (वा। ७-२-२९) इति वचनात् इड्विकल्पो निष्ठायाम्। अनिट्पक्षे तकारस्य ष्टुत्वेन टकारः। विस्मितत्वं विषण्णत्वं दन्ताः सूचयन्तीति भावः।]]
05
=>
[[९। ‘हृषेर्लोमसु’ (७-२-२९) इति लोमसु वाच्येषु निष्ठाया इड्विकल्पः। प्राप्तविभाषे- यम्। ‘लोमानि अङ्गजानि, केशाश्च’ इति वृत्तिः। तुष्टिं लोमानि सूचयन्तीत्यर्थः।]]
06
=>
[पृष्ठम्१४२०+ २८]
07
=>
[[१। णिजन्तात् औणादिके इत्नुच्प्रत्यये रूपमेवम्।]]
08
=>
[[२। ‘हृषेरुलच्’ (द। उ। ८-१०६) इत्युलच्प्रत्ययः। हर्षुलः = सन्तुष्टः।]]
09
=>
(१४०८)