हृद्रोगः (hRdrogaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Wordnet
Sanskrit हृद्रोगः, हृदयव्याधि
हृदयसम्बन्धिनी व्याधिः।
"रक्तचापः एकः हृद्रोगः अस्ति।"
शब्दकल्पद्रुमः
Sanskritहृद्रोगः, कुम्भराशिः । इति शुद्धिदीपिका ॥
(हृदयस्य रोग इव ।) कामः । यथा, --“हृद्रोगमाश्वपहिनोत्यचिरेण धीरः ।”इति श्रीभागवतम् ॥
हृदयस्य रोगः ।) हृदयपीडा । तत्र हृद्रो-गस्य विप्रकृष्टं निदानमाह ।“अत्युष्णगुर्व्वम्लकषायतिक्त-श्रमाभिघाताध्ययनप्रसङ्गैः ।सञ्चिन्तनैर्व्वेगविधारणैश्चहृदामयः पञ्चविधः प्रदिष्टः ॥
”प्रसङ्गः सततं सेवा । सञ्चिन्तनमतिचिन्ता राज-भयादिकमिति यावत् । पञ्चविधः वातिकःपैत्तिकः श्लैष्मिकः सान्निपातिकः क्रिमिज-श्चेति ॥
* ॥
तस्य संप्राप्तिपूर्व्वकं लक्षणमाह ।“दूषयित्वा रसं दोषा विगुणा हृदयङ्गताः ।हृदि वाधां प्रकुर्व्वन्ति हृद्रोगं तं प्रचक्षते ॥
”विगुणाः दुष्टाः । वाधां दोषभेदे नानाविधांव्यथाम् । भङ्गवत् पीडामिति गयदासः ॥
* ॥
वातिकं हृद्रोगमाह ।“आयम्यते मारुतजे हृदयं तुद्यते तथा ।निर्मथ्यते दीर्य्यते च स्फोट्यते पाट्यतेऽपि च ॥
”मारुतजे हृद्रोगे इति शेषः । आयम्यते व्यथयाविस्तार्य्यत इव । तुद्यते सूचीभिरिव । निर्म-थ्यते मन्थानेनेव । दीर्य्यते करपत्रेण द्विधाक्रियत इव । स्फोट्यते आरयेव । पाट्यते कुठा-रेण बहुधा क्रियत इव ॥
* ॥
पैत्तिकमाह ।“तृष्णोष्मदाहचोषाः स्युः पैत्तिके हृदये क्लमः ।धूमायनञ्च मूर्च्छाच र्क्लदः शोषो मुखस्य च ॥
”उष्मा शीतगात्रस्यैव शीतवाताभिलाषहेतुकिञ्चिदन्तरौष्णम् । दाहः पार्श्वस्थेन वह्रिनेवदुःखहेतुर्गात्रसन्तापः । चोषः चूषणेनेव पीडा ।हृदये क्लमः हृदयाकुलत्वं ग्लानिरित्यर्थः । धूमा-यनं कण्ठाद्धूमनिर्गम इव । क्लेदः किञ्चिद्दर्गन्धःसटित इव ॥
* ॥
श्लैष्मिकमाह ।“गौरवं कफसंस्रावोऽरुचिस्तम्भोऽग्निमार्द्दवम् ।माधुर्य्यमपि चास्यस्य वलासा वर्त्तते हृदि ॥
”वलासा वर्त्तते हृदि कुपितकफव्याप्तेः । गौरवंहृदयस्य । स्तम्भो जडता । मार्दवं जलप्लुत-मिव । माधुर्य्यं मुखे ॥
* ॥
त्रिदोषजमाह ।“विद्यात् त्रिदोषमप्येवं सर्व्वलिङ्गं हृदामयम् ॥
”कृमिजमाह । कृमयो जायन्ते अस्मिन्नितिकृमिज इति निरुक्तिः ॥
* ॥
तस्य निदान-पुर्व्विकां संप्राप्तिमाह ।“त्रिदोषहेतुहृद्रोगे यो दुरात्मा निषेवते ।तिलक्षीरगुडादींश्च ग्रन्थिस्तस्योपजायते ॥
मर्म्मैकदेशसंक्लेदं रसश्चाप्युपगच्छति ।सक्लेदात् कृमयश्चास्य भवन्त्युपहतात्मनः ॥
”मर्म्मैकदेशे हृदयैकदेशे संक्लेदं सटितत्वं रसउपगच्छति संक्लेदात् । रसस्य सटितत्वात् ।उपहतात्मनः तिलाद्यहिताहारेण ॥
* ॥
तस्यलक्षणमाह ।“उत्क्लेदः ष्ठोवनं तोदः शूलं हृल्लासकस्तमः ।अरुचिः श्यावनेत्रत्वं शोषञ्च कृमिजे भवेत् ॥
”उत्क्लेदः वमनमिवोपस्थितम् । शोषो यक्ष्मा ॥
हृद्रोगस्योपद्रवानाह ।“क्लोमसादो भ्रमः शोषो ज्ञेयास्तेषामुपद्रवाः ।कृमिजे तु कृमीणां ये श्लैष्मिकाणां हि तेमताः ॥
”क्लोम्नः पिपासास्थानस्य सादः शोषः । शोषोमुखस्य । तेषां हृद्रोगाणाम् । कृमिजे तु हृद्रोगेश्लैष्मिकाणां कृमीणां ये उपद्रवा हृल्लासात्प्रस्रवणान्ता विपाकादयस्ते मताः ॥
* ॥
अथहृद्रोगस्य विकित्सा ।“घृतेन दुग्धेन गुडाम्भसा वापिबन्ति चूर्णं ककुभत्वचो ये ।हृद्रोगजीर्णज्वररक्तपित्तंहत्वा भवेयुश्चिरजीनिनस्ते ॥
१ ॥
हरीतकी वचा रास्ना पिप्पली नागरोद्भवम् ।षटी पुष्करमूलोत्थं चूर्णं हृद्रोगनाशनम् ॥
२ ॥
पुटदग्धहरिणशृङ्कपिष्टं गव्येन सर्पिषा पिबतः ।हृत्पृष्ठशूलमचिरादुपैति शान्तिं सुकष्टमपि ॥
३ ॥
तैलाज्यगुडविपक्वंचूर्णं गोधूमपार्थोत्थम् ।पिबति पयोमुक् स भवति गतसकलहृदामयःपुरुषः ॥
पार्थः कौह इति लोके ॥
४ ॥
गोधूमककुभचूर्णं पक्वमजाक्षीरगव्यसर्पिर्भ्याम् ।मधुशर्करासमेतं शमयति हृद्रोगमुल्वणंपुंसाम् ॥
५ ॥
पार्थेन कल्केन रसेन सिद्धंशस्तं घृतं सर्व्वहृदामयेषु ॥
अर्ज्जुनघृतम् ॥
६ ॥
घृतं वला नागवलार्ज्जुनानांक्वाथेन कल्केन च षष्टिकायाः ।सिद्धं निहन्याद्धृदयामयं हिसवातरक्तक्षतरक्तपित्तम् ॥
”वलादिघृतम् ॥
७ ॥
इति हृद्रोगाधिकारः ।इति भावप्रकाशः ॥
* ॥
अपि च ।धन्वन्तरिरुवाच ।“हद्रोगादिनिदानं ते वक्ष्येऽहं सुश्रुताधुना ।कृमिहृद्रोगलिङ्गैश्च स्मृताः पञ्च तु हृद्गदाः ॥
वातेन शूल्यतेऽत्यर्थं तुद्यता रुदतीति च ।भिद्यते शुष्यते स्तब्धं हृदयं शून्यताद्रवः ॥
अकस्माद्दीनता शोको भयं शब्दोऽसहिष्णुता ।वेपथुर्वेपनं मोहः श्वासरोधोऽल्पनिद्रता ॥
पित्तातृष्णा श्रमो दाहः स्वेदोऽम्लः कफजःक्रमः ।छर्दनञ्चाम्लपित्तस्य धूमकम्पितता ज्वरः ॥
श्लेष्मणा हृदयस्तब्धं भावितं चाश्मगर्भवत् ।कासास्थिसादनिष्ठेव निद्रालस्यारुचिर्ज्वरः ॥
सर्व्वलिङ्गं त्रिभिर्दोषैः क्रिमिभिः श्यामनेत्रता ।तमःप्रवेशौ हृल्लासः शोफः कण्डुः कफस्रुतिः ॥
हृदयं प्रततञ्चात्र क्रकचेनेव दार्य्यते ।चिकित्सेदामयं घोरं तच्छ्रीघ्रं शीघ्रकारणम् ॥
”इति गारुडे । १५८ । १ -- ७ ॥
* ॥
“शुण्ठी सौवर्च्चलं हिङ्गु पीत्वा हृदयरोगनुत् ।”इति च गारुडे । १८८ । ४३ ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
