| YouTube Channel

हृद्यः (hRdyaH)

 
शब्दकल्पद्रुमः
Sanskrit
हृद्यः,
पुं,
(हृदय + यत् हृदादेशः ।) वशकृद्-वेदमन्त्रः इति मेदिनी
हृद्यः, त्रि, (हृदयस्य प्रियमिति हृदय + “हृद-यस्य हृल्लेखयदण्लासेषु ।” ५० ।इति यत् हृदादेशश्च ।) मनोहरः इत्यमरः ।३ ५३
अस्य पर्य्यायः मनोज्ञशब्दे द्रष्टव्यः
हृज्जः हृद्धितः हृत्प्रियः इति मेदिनी
(यथा, मनौ २२७ ।“भक्ष्यं भोज्यञ्च विविधं मूलानि फलानि
हृद्यानि चैव मांसानि पानानि सुरभीणि
”)