| YouTube Channel

हृदयं (hRdayaM)

 
Apte 1890
English
हृदयं 1 The heart, soul, mind
हृदये दिग्धशरैरिवाहतः Ku. 4. 25
so अयोहृदयः R. 9. 9
पाषाणहृदय &c.
2 The bosom, chest, breast
बाणभिन्नहृदया निपेतुषी R. 11. 19.
3 Love, affection.
4 The interior or essence of anything.
5 The secret science
अश्व°, अक्ष° &c.
6 True or divine knowledge.
7 The Veda.
Comp.
आत्मन् m. a heron.
आविध् a. heart-rending, heart-piercing
Bk. 6. 73.
ईशः, ईश्वरः a husband. (
शा,
री f.) {1} a wife. {2} a mistress.
उदंकः heaving of the heart.
कंपः tremor of the heart, palpitation.
ग्राहिन् a. heart-captivating.
चोरः one who steals the heart or affections.
छिद् a. heartrending, heart-piercing.
रज्जुः (in geom.) a central line.
रोगः a heart-disease
Mu. 1. 13.
लेखः {1} knowledge. {2} heart-ache, anxiety.
विध्,
बेधिन् a. heart-piercing.
वृत्ति f. disposition of the heart.
स्थ a. being or cherished in the heart.
स्थानं the breast, bosom.
Hindi
Hindi
दिल
शब्दकल्पद्रुमः
Sanskrit
हृदयं,
क्ली,
(ह्रियते विषयैरिति हृ + “वृह्रोःषुग्दुकौ उणा० १०० इति कयन्दुक् ।) बुक्कम् वक्षः मनः यथा, --“उरस्यपि वुक्वायां हृदयं मानसेऽपि
”इति त्रिकाण्डशेषः
वुक्काग्रमासं हृदयं हृदिति चत्वारि हृदये ।केचित्तु वुक्कात् पृथगेव हृदयान्तर्गते मांस-विशेषे पद्माकारे हृदयादिद्वयमाहुः धातो-रनेकार्थत्वात् इत्यमरटीकायां भरतः ६४
अत्र अनाहतनामकद्वादशदलपद्ममस्ति यथा, “आधारे लिङ्गनाभौ हृदयसरसिजे तालुमूलेललाटेद्वे पत्रे षोडशारे द्विदशदशदले द्वादशार्द्धेचतुष्के ।वासान्ते वादिलान्ते ड-फ-क-ठसहिते कण्ठदेशेस्वराणांहक्षौ कोदण्डमध्ये सकलदलगतं वर्णरूपंनमामि
”इति षट्चक्रभेदः
किञ्च ।“तस्योर्द्ध्वे हृदि पङ्कजं सुललितं वन्धूककान्त्यु-ज्ज्वलंकाद्यैर्द्वादशवर्णकैरुपकृतं सिन्दूररागाञ्चितैः
नामानाहतसंज्ञकं सुरतरुं वाञ्छातिरिक्तप्रदंवायोर्मण्डलमत्र धूमसदृशं षट्कोणशोभान्वि-तम्
”इति षट्चक्रक्रमः
*
तस्य शुभाशुभलक्षणं यथा, --“समोन्नतञ्च हृदयमकल्प्यं मांसलं पृथु ।नृपाणामधमानाञ्ज खरलोमशिरालकम्
”इति गारुडे ६६ अध्यायः
(तथास्य विवृतिः ।“अर्थे दश महामूलः समासक्ता महाफलाः ।महच्चार्थश्च हृदयं पर्य्यायैरुच्यते बुधैः
षडङ्गमङ्गविज्ञानमिन्द्रियाण्यर्थपञ्चकम् ।आत्सा सगुणश्चेतः चिन्त्यञ्च हृदि संश्रितम्
प्रतिष्ठार्थं हि भावानामेषां हृदयमिष्यते ।गोपानसीनामागारकर्णिके वार्थचिन्तकैः ।तस्यापघातान्मूर्च्छायं भेदान्मरणमिच्छति
यद्धि तत् स्पर्शविज्ञानन्धारितन्तत्र संश्रितम् ।तत्परस्यौजसः स्थानन्तत्र चैतन्यसंग्रहः
हृदयं महदर्यश्च तस्मादुक्ताश्चिकित्सकैः ।तेन मूलेन महता महामूला मता दश
”इति चरके सूत्रस्थाने त्रिंशेऽध्याये
“हृदयमिति कृतवीर्य्यो बुद्धेर्मनसश्च स्थानत्वात्
”इति सुश्रुते शारीरस्थाने तृतीयेऽध्याये
“शोणितकफप्रसादजं हृदयं तदाश्रया हिधमन्यः प्राणवहाः तस्याधो वामतः प्लीहाफुस्फुसश्च दक्षिणतो यकृत् क्लोम
तद्धृदयं विशेषेण चेतानास्थानमतस्तस्मिंस्तमसा-वृते सर्व्वप्राणिनः स्वपन्ति भवति चात्र ।पुण्डरीकेण सदृशं हृदयं स्यादधोमुखम् ।जाग्रतस्तद्विकशति स्वपतश्च निमीलति
”इति सुश्रुते शारीरस्थाने चतुर्थेऽध्याये
)