| YouTube Channel

हृच्छूलं (hRcchUlaM)

 
शब्दकल्पद्रुमः
Sanskrit
हृच्छूलं,
क्ली,
(हृदयजातं शूलमिति मध्यलोपीसमासः ।) हृदयजातशूलरोगः तदौषधंयथा, गारुडे १८९ अध्याये ।“क्वथितोदकपानन्तु शम्बूका क्षारकं तथा ।मृगशृङ्गं ह्यग्निदग्धं गव्याज्येन समन्वितम् ।पीतं हृत्पृष्ठशूलानां भवेन्नाशकरं शिव !
”अपि ।“विल्लाग्निमन्थश्योनाकपाटलापारिभद्रकम् ।प्रसारण्यश्वगन्धा बृहती कण्टकारिका
बलाचातिवला रास्ना श्वदंष्ट्रा पुनर्नवा ।एरण्डशारिवा पर्णी गुडूची कपिकच्छुरा
एषां दश पलिकान् भागान् क्वाथयेत् सलिले-ऽमले ।तेन पादावशेषेण तैलं पात्रे विपाचयेत्
आजं वा यदि वा गव्यं क्षीरं दत्त्वा चतुर्गुणम् ।शतावरीरसञ्चैव तैलतुल्यं प्रदापयेत्
द्रव्याणि यानि पेष्याणि तानि वक्ष्यामि तत्शृणु
शतपुष्पा देवदारु शालपर्णी वचागुरु ।कुष्ठं मांसी सैन्धवञ्च पलमेकं पुनर्नवा ।पाने नस्ये तथाभ्यङ्गे तैलमेतत् प्रदापयेत्
हृच्छूलं पार्श्वशूलञ्च गण्डमालाञ्च नाशयेत् ।अपस्मारं वातरक्तमायुष्मांश्च पुमान् भवेत्
”इति गारुडे १९८ अध्यायः