| YouTube Channel

हिसि (hisi)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
हिंस्
मूलधातुः:
हिसि
धात्वर्थः:
हिंसायाम्
गणः:
रुधादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
हिनस्ति
धातुः:
हिंस्
मूलधातुः:
हिसि
धात्वर्थः:
हिंसायाम्
गणः:
चुरादिः
कर्मकत्वं:
सकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
उभयपदी
रूपम्:
हिंसयति-ते, हिंसति-ते
अनुबन्धादिविशेषः:
आधृषीयः
धातुवृत्तिः
Sanskrit
हिसिँ हिसि (अर्थः) हिंसायाम्
( हिनस्ति हिंस्तः हिंसन्ति हिनस्सि हिनस्मि ) इदित्त्वान्नुम् तस्य "श्नान्नलोप'' इति लोपः ङिति श्नसोरल्लोपे "नश्चापदान्तस्य'' इत्यनुस्वारः ( जिहिंस, जिहिंसतुः जिहिंसिथ जिहिंसिव हिंसिता हिंसिष्यति हिनस्तु हिंस्तात् हिंस्ताम् हिंसन्तु हिन्धि ) श्नान्नलोपश्नसोरल्लोपयोः "धिच'' इति सलोपेऽनुस्वारपरसवर्णौ ( हिनसानि अहिनत् अहिंस्ताम् अहिंसन् अहिनत् अहिनद् अहिनः अहिनसम् अहिंस्व ) तिपि "तिप्यनस्तेः'' इति सस्य दः "सिपि धातोरुर्वा'' इति दत्वरुत्वे, ( हिंस्यात् हिंस्याताम् हिंस्यात् हिंस्यास्ताम् ) लिङौ ( अहिंसीत् अहिंसिष्ट जिहिंसिषति जेहिंस्यते जेहिंस्ति हिंसयति अजिहिंसत् हिंसकः ) "निन्दहिंस'' इति वुञ् ( हिंस्रम् ) "नमिकम्पि'' इत्यादिना रः (हिंसा) "गुरोश्च हलः'' इत्यकारः ( हिंसित्वा हिंसितः ) हिनस्तीति ( सिंहः ) अच् पृषोदरादित्वादाद्यन्तविपर्ययः 19
हिसिँ हिसि (अर्थः) हिंसायाम्
( हिंसयति हिंसति ) इदित्त्वादेव णिज्विकल्पः सिद्ध इति युजादिपाठे प्रयोजनं चिन्त्यम् हिनस्तीति श्नमि 288
कृदन्तरूपमाला
Sanskrit
1 {@“हिसि हिंसायाम्”@} 2 3 हिंसकः, 4 हिंस्रः, 5 हिंसा, 6 हिंसन्-ती, 7 सिंहः इति विशेषरूपाणि।
सामान्य- रूपाणि कुंशयतिवत् 8 बोध्यानि।
9
प्रासङ्गिक्यः
01
=>
(२००७)
02
=>
(७-रुधादिः-१४५६। सक। सेट्। पर।)
03
=>
[[१। ‘निन्दहिंस--’ (३-२-१४६) इति ताच्छीलिको वुञ्। हिंसकः = क्रूरः।]]
04
=>
[[२। ‘नमिकम्पिस्म्यजसकमहिंसदीपो रः’ (३-२-१६७) इति ताच्छीलिको रप्रत्ययः। ‘नेड् वशि कृति’ (७-२-८) इतीण्निषेधः।]]
05
=>
[[३। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियामकारप्रत्ययः।]]
06
=>
[[४। शतरि ‘रुधादिभ्यः--’ (३-१-७८) इति श्नम् विकरणप्रत्ययः। ‘श्नसोरल्लोपः’ (६-४-१११) इति अकारलोपः। ‘श्नान्नलोपः’ (६-४-२३) इति प्रत्ययनकारलोपः। इदित्त्वात् नुम् तु सर्वत्र श्रूयत एव। सर्वत्र प्रयोगेषु इदित्त्वप्रयुक्तनुमः ‘नश्चापदा- न्तस्य झलि’ (८-३-२४) इत्यनुस्वारः।]]
07
=>
[[५। पचाद्यचि हिनस्तीति सिंहः। ‘सिंहो वर्णविपर्ययात्’ इत्युक्तेः पृषोदरादित्वात् (६-३-१०९) वर्णयोर्विपर्ययः।]]
08
=>
(२३२)
09
=>
[पृष्ठम्१४१६+ २९]
1 {@“हिसि हिंसायाम्”@} 2 आधृषीयः।
इदित्त्वादेवास्य णिज्विकल्पे सिद्धे युजादिषु 3 पाठः चिन्त्यप्रयोजन इति माधवादयः।
रूपाणि सर्वाण्यपि कुंशयतिवत् 4 ऊह्यानि।
प्रासङ्गिक्यः
01
=>
(२००८)
02
=>
(१०-चुरादिः-१८३०। सक। सेट्। उभ।)
03
=>
(चुरादौ)
04
=>
(२३२)