| YouTube Channel

हिरण्याश्वरथः (hiraNyAzvarathaH)

 
शब्दकल्पद्रुमः
Sanskrit
हिरण्याश्वरथः,
पुं,
(हिरण्याश्वः सुवर्णघोटकयुक्तःरथो यत्र ।) षोडशमहादानान्तर्गतमहादान-विशेषः यथा, मात्स्ये ।“आद्यन्तु सर्व्वदानानां तुलापुरुषसंज्ञितम् ।हिरण्यगर्भदानञ्च ब्रह्माण्डं तदनन्तरम्
कल्पपादपदानञ्च गोसहस्रञ्च पञ्चमम् ।हिरण्यकामधेनुश्च हिरण्याश्वस्तथैव
पञ्चलाङ्गलकञ्चैव धरादानं तथैव ।हिरण्याश्वरथस्तद्वत् हेमहस्तिरथस्तथा
द्वादशं विष्णुचक्रञ्च ततः कल्पलतात्मकम् ।सप्तसागरदानञ्च रत्नधेनुस्तथैव ।महाभूतघटस्तद्वत् षोडशः परिकीर्त्तितः
”इति मलमासतत्त्वम्
*
तद्विधिर्यथा, --मत्स्य उवाच ।“अथातः संप्रवक्ष्यामि महादानमनुत्तमम् ।हिरण्याश्वरथं नाम महापातकनाशनम्
पुण्यन्दिनमथासाद्य कृत्वा ब्राह्मणवाचनम् ।लोकेशावाहनं कुर्य्यात्तुलापुरुषदानवत्
ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम् ।कृष्णाजिने तिलान् कृत्वा काञ्चनं कारयेद्रथम् ।सप्ताश्वं चतुरश्वं वा चतुश्चक्रं सकूवरम् ।ऐन्द्रनीलेन कुम्भेन ध्वजरूपेण संयुतम् ।लोकपालाष्टकोपेतं पद्मरागदलान्वितम्
चतुरः पूर्णकलसान् धान्यान्यष्टादशैव तु ।कौषेयवस्त्रसंयुक्तमुपरिष्टाद्वितानकम्
माल्येक्षुफलसंयुक्तं पुरुषेण समन्वितम् ।यो यद्भक्तः पुनः कुर्य्यात् तन्नाम्नाधिवासनम्
छत्रचामरकौषेयवस्त्रोपानहपादुकाः ।गोभिर्विभवतः सार्द्धं दद्याच्च शयनादिकम्
अभावात् त्रिपलादूर्द्धं शक्तितः कारयेच्छुभम्
अश्वाष्टकेन संयुक्तं चतुर्भिरथ वाजिभिः ।द्वाभ्यामथ युतं दद्यादिम मन्त्रमुदीरयेत्
नमो नमः पापविनाशनायविश्वात्मने वेदतुरङ्गमाय ।धाम्नामधीशाय भवाभवायपापौघदावानल देहि शान्तिम्
वस्वष्टकादित्यमरुद्गणानांत्वमेव धाता परमं विधानम् ।यतस्ततो मे हृदयं प्रयातुधर्म्मैकनाम त्वमघौघनाशात्
इति तुरगरथप्रदानमेतत्भवभयसूदनमत्र यः करोति ।स कलुषपटलैर्व्विमुक्तदेहःपरममुपैति पदं पिनाकपाणेः
देदीप्यमानवपुषा विजितप्रभाव-माक्रम्य मण्डलमखण्डलचण्डभानोः ।सिद्धाङ्गनानयनषट्पदपीयमान-वक्त्राम्बुजोऽम्बुजभवेन चिरं सहास्ते
इति पठति शृणोति वा इत्थंकनकरथतुरगप्रदानमस्मिन् ।न नरकपुरं व्रजेत् कदाचित्नरकरिपोर्भवनं प्रयाति भूप !
”इति मात्स्ये हिरण्याश्वरथप्रदातिको नाम २५५अध्यायः