| YouTube Channel

हिरण्याश्वरथ (hiraNyAzvaratha)

 
Monier Williams Cologne
English
हिरण्याश्व—रथ
m.
a horse and chariot made of (one of the 16 Mahā-dānas q.v.),
Cat.
Indian Epigraphical Glossary
English
hiraṇyāśvaratha (EI 12), name of a mahādāna
same as
hemāśvaratha.
शब्दकल्पद्रुमः
Sanskrit
हिरण्याश्वरथः,
पुं,
(हिरण्याश्वः सुवर्णघोटकयुक्तःरथो यत्र ।) षोडशमहादानान्तर्गतमहादान-विशेषः यथा, मात्स्ये ।“आद्यन्तु सर्व्वदानानां तुलापुरुषसंज्ञितम् ।हिरण्यगर्भदानञ्च ब्रह्माण्डं तदनन्तरम्
कल्पपादपदानञ्च गोसहस्रञ्च पञ्चमम् ।हिरण्यकामधेनुश्च हिरण्याश्वस्तथैव
पञ्चलाङ्गलकञ्चैव धरादानं तथैव ।हिरण्याश्वरथस्तद्वत् हेमहस्तिरथस्तथा
द्वादशं विष्णुचक्रञ्च ततः कल्पलतात्मकम् ।सप्तसागरदानञ्च रत्नधेनुस्तथैव ।महाभूतघटस्तद्वत् षोडशः परिकीर्त्तितः
”इति मलमासतत्त्वम्
*
तद्विधिर्यथा, --मत्स्य उवाच ।“अथातः संप्रवक्ष्यामि महादानमनुत्तमम् ।हिरण्याश्वरथं नाम महापातकनाशनम्
पुण्यन्दिनमथासाद्य कृत्वा ब्राह्मणवाचनम् ।लोकेशावाहनं कुर्य्यात्तुलापुरुषदानवत्
ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम् ।कृष्णाजिने तिलान् कृत्वा काञ्चनं कारयेद्रथम् ।सप्ताश्वं चतुरश्वं वा चतुश्चक्रं सकूवरम् ।ऐन्द्रनीलेन कुम्भेन ध्वजरूपेण संयुतम् ।लोकपालाष्टकोपेतं पद्मरागदलान्वितम्
चतुरः पूर्णकलसान् धान्यान्यष्टादशैव तु ।कौषेयवस्त्रसंयुक्तमुपरिष्टाद्वितानकम्
माल्येक्षुफलसंयुक्तं पुरुषेण समन्वितम् ।यो यद्भक्तः पुनः कुर्य्यात् तन्नाम्नाधिवासनम्
छत्रचामरकौषेयवस्त्रोपानहपादुकाः ।गोभिर्विभवतः सार्द्धं दद्याच्च शयनादिकम्
अभावात् त्रिपलादूर्द्धं शक्तितः कारयेच्छुभम्
अश्वाष्टकेन संयुक्तं चतुर्भिरथ वाजिभिः ।द्वाभ्यामथ युतं दद्यादिम मन्त्रमुदीरयेत्
नमो नमः पापविनाशनायविश्वात्मने वेदतुरङ्गमाय ।धाम्नामधीशाय भवाभवायपापौघदावानल देहि शान्तिम्
वस्वष्टकादित्यमरुद्गणानांत्वमेव धाता परमं विधानम् ।यतस्ततो मे हृदयं प्रयातुधर्म्मैकनाम त्वमघौघनाशात्
इति तुरगरथप्रदानमेतत्भवभयसूदनमत्र यः करोति ।स कलुषपटलैर्व्विमुक्तदेहःपरममुपैति पदं पिनाकपाणेः
देदीप्यमानवपुषा विजितप्रभाव-माक्रम्य मण्डलमखण्डलचण्डभानोः ।सिद्धाङ्गनानयनषट्पदपीयमान-वक्त्राम्बुजोऽम्बुजभवेन चिरं सहास्ते
इति पठति शृणोति वा इत्थंकनकरथतुरगप्रदानमस्मिन् ।न नरकपुरं व्रजेत् कदाचित्नरकरिपोर्भवनं प्रयाति भूप !
”इति मात्स्ये हिरण्याश्वरथप्रदातिको नाम २५५अध्यायः
वाचस्पत्यम्
Sanskrit
हिरण्याश्वरथ
पु०
हिरण्येन निर्मितः अश्वः तद्युक्तरथः ।तुलादिषोडशमहादानमध्ये दानार्थं स्वर्णादिना क-ल्पिते सुवर्णमयाश्वयुक्तरथे तद्दाने
न०
तद्विधिर्यथा“अथातः संप्रवक्ष्यामि महादानमनुत्तमम् हिरण्या-श्वरथं नाम महापातकनाशनम् पुण्यं दिनमथासाद्यकृत्वा ब्रह्मणवाचनम् लोकेशावाहनं कुर्य्यात् तुला-पुरुपदानवत् ऋत्विग्मण्डपसम्भारभूपणाच्छादनादि-कम्” तुलापुरुषदानवदिति, सत्स्यपुराणोक्ततुलापुरुष-दानवद्वेदितव्यम्, आदिशब्दस्यापि पूर्ववदेव व्याख्या“कृष्ण जिने तिलान् कृत्वा काञ्चनं कारयेद्रथम् अ-ष्टाश्वं चतुरश्वं वा चतुश्चक्रं सकूवरम् इन्द्रनीलेनकुम्भेन ध्वजरूपेण संयुतम् लोकपालाष्टकोपेतंपद्मरागदलान्वितम्” अत्र तिलानां रथस्य परि-माणापेक्षायां पुरुषेच्छया नियमः प्रकृतौ परिमाणा-श्रवणात् केचित् तु सन्निधानात् हेमहस्तिरथादि-दानस्थितं तिलानां द्रोणपरिमाणत्वमिह बदन्ति ।कूवरं युगाधारकाष्ठम् ध्वजो दण्डः, रथस्यसौवर्णत्वात् सौवर्ण एव तथा चोपरिस्थितेन इन्द्रनील-मणिमयेन कलशेन युक्तः कर्त्तव्यः लोकपाललक्षणमुक्तंब्रह्माण्डदाने, “चत्वारः पूर्णकलशा धान्यान्यष्टौ दशैवतु कौशेयवस्त्रसंयुक्तमुपरिष्टाद्वितानकम् माल्येक्षु-फलसंयुक्तं पुरुषेण समन्वितम् यो यद्भक्तः पुमान् कु-र्य्यात् तन्नाम्नाधिवासनम्” वितानमत्र पञ्चरर्णं, पुरुष इष्टदेवताकारः सौवर्णरथे स्थापनीयः वस्त्रोपान-हपादुकाश्च “गोभिर्विभवतः सार्द्धं दद्याच्च शयना-सनम् आभ रात्त्रिलादूर्द्धं शक्तितः कारयेद् बुधः” ।भारः पलसहस्रद्वयम्, एतच्च सुवर्णमानं ध्वजपुरुष-लाकपालाश्वचक्ररक्षकसहितस्य येदितव्यम् “अष्टभी-रथसंयुक्तं चतुर्भिरथ वाजिभिः द्वाभ्यामथ युतं दद्या-द्धेमसिंहध्वजान्वितम्” हैमेन सिंहाङ्कितेन युक्तमितिअष्टाश्वपक्षे, चतुरश्वपक्षे इन्द्रनीलमयकुम्भो ध्वजेकार्य्यः, अश्वद्वयपक्षे हेमसिंह इति व्यवस्था “चक्ररक्षावुभौ तस्य तुरगस्थावथाश्विनी पुण्यं कालं ततःप्राप्य पूर्ववत् स्नापितो द्विजैः शुक्लमाल्यम्बरो दद्या-दिमं मन्त्रमुदीरयेत्” हेमा० दा० मत्स्यपुराणीयम्