| YouTube Channel

हिरण्याश्वः (hiraNyAzvaH)

 
शब्दकल्पद्रुमः
Sanskrit
हिरण्याश्वः,
पुं,
(हिरण्यस्य अश्वो यत्र ।)तुलापुरुषादि-षोडशमहादानान्तर्गतमहादान-विशेषः यथा, --मत्स्य उवाच ।“अथातः संप्रवक्ष्यामि हिरण्याश्वविधिं परम् ।यस्य प्रदानाद्भुवने आनन्त्यफलमश्नुते
पुण्यां तिथिं समासाद्य कृत्वा ब्राह्मणवाचनम् ।लोकेशावाहनं कुर्य्यात्तुलापुरुषदानवत्
ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम् ।स्वल्पेष्वेकाग्निवत् कुर्य्याद्धेमवाजिमखं बुधः
स्थापयेद्वेदिमध्ये तु कृष्णाजिनतिलोपरि ।कौशेयवस्त्रसंवीतं कारयेद्धेमवाजिनम्
शक्तितस्त्रिपलादूर्द्धमासहस्रपलाद्बुधः ।पादुकोपानहच्छत्रचामरासनभाजनैः
पूर्णकुम्भाष्टकोपेतं माल्येक्षुफलसंयुतम् ।शय्यां सोपस्करां तद्वद्धेममार्त्तण्डसंयुताम्
ततः सर्व्वौषधीस्नातः स्नापितो वेदपुङ्गवैः ।इममुच्चारयेन्मन्त्रं गृहीतकुसुमाञ्जलिः
नमस्ते सर्व्वदेवेश ! वेदाहरणलम्पट ! ।वाजिरूपेण मामस्मात् पाहि संसारसागरात्
त्वमेव सप्तधा भूत्वा छायारूपेण भास्करम् ।यत्नाद्भ्रमयसे लोकानतः पाहि सनातन !
एवमुच्चार्य्य गुरवे तमश्वं विनिवेदयेत् ।दत्त्वा पापक्षयाद्भानोर्लोकमभ्येति श्वाश्वतम्
गोभिर्विभवतः सर्व्वानृत्विजश्चापि पूजयेत् ।सर्व्वधान्योपकरणं गुरवे विनिवेदयेत्
सर्व्वशय्यादिकं दत्त्वा भुञ्जीतातैलमेव हि ।पुराणश्रवणं तद्वत् कारयेद्भोजनादनु
इमं हिरण्याश्वविधिं करोति यःपुण्यं समासाद्य दिनं नरेन्द्र ! ।विमुक्तपापः पुरं मुरारेःप्राप्नोति सिद्धैरभिपूजितः सन्
इति पठति इत्थं हेमवाजिप्रदानंसकलकलुषमुक्तः सोऽश्वयुक्तेन भूयः ।कनकमयविमानेनार्कलोकं प्रयातित्रिदशपतिबधूभिः पूज्यते योऽथ पश्येत्
यो वा शृणोति पुरुषोऽल्पधनः स्मरेद्वाहेमाश्वदानमभिनन्दयतीह लोके ।सोऽपि प्रयाति हतकल्मषशुद्धदेहःस्थानं पुरन्दरमहेश्वरलोकजुष्टम्
”इति मात्स्ये हिरण्याश्वप्रदानिको नाम २८०अध्यायः