| YouTube Channel

हिरण्याश्व (hiraNyAzva)

 
Monier Williams Cologne
English
हिरण्याश्व
m.
the image of a horse made of (one of the 16 Mahā-dānas q.v.),
Cat.
Indian Epigraphical Glossary
English
hiraṇyāśva (EI 24), name of a mahādāna.
शब्दकल्पद्रुमः
Sanskrit
हिरण्याश्वः,
पुं,
(हिरण्यस्य अश्वो यत्र ।)तुलापुरुषादि-षोडशमहादानान्तर्गतमहादान-विशेषः यथा, --मत्स्य उवाच ।“अथातः संप्रवक्ष्यामि हिरण्याश्वविधिं परम् ।यस्य प्रदानाद्भुवने आनन्त्यफलमश्नुते
पुण्यां तिथिं समासाद्य कृत्वा ब्राह्मणवाचनम् ।लोकेशावाहनं कुर्य्यात्तुलापुरुषदानवत्
ऋत्विङ्मण्डपसम्भारभूषणाच्छादनादिकम् ।स्वल्पेष्वेकाग्निवत् कुर्य्याद्धेमवाजिमखं बुधः
स्थापयेद्वेदिमध्ये तु कृष्णाजिनतिलोपरि ।कौशेयवस्त्रसंवीतं कारयेद्धेमवाजिनम्
शक्तितस्त्रिपलादूर्द्धमासहस्रपलाद्बुधः ।पादुकोपानहच्छत्रचामरासनभाजनैः
पूर्णकुम्भाष्टकोपेतं माल्येक्षुफलसंयुतम् ।शय्यां सोपस्करां तद्वद्धेममार्त्तण्डसंयुताम्
ततः सर्व्वौषधीस्नातः स्नापितो वेदपुङ्गवैः ।इममुच्चारयेन्मन्त्रं गृहीतकुसुमाञ्जलिः
नमस्ते सर्व्वदेवेश ! वेदाहरणलम्पट ! ।वाजिरूपेण मामस्मात् पाहि संसारसागरात्
त्वमेव सप्तधा भूत्वा छायारूपेण भास्करम् ।यत्नाद्भ्रमयसे लोकानतः पाहि सनातन !
एवमुच्चार्य्य गुरवे तमश्वं विनिवेदयेत् ।दत्त्वा पापक्षयाद्भानोर्लोकमभ्येति श्वाश्वतम्
गोभिर्विभवतः सर्व्वानृत्विजश्चापि पूजयेत् ।सर्व्वधान्योपकरणं गुरवे विनिवेदयेत्
सर्व्वशय्यादिकं दत्त्वा भुञ्जीतातैलमेव हि ।पुराणश्रवणं तद्वत् कारयेद्भोजनादनु
इमं हिरण्याश्वविधिं करोति यःपुण्यं समासाद्य दिनं नरेन्द्र ! ।विमुक्तपापः पुरं मुरारेःप्राप्नोति सिद्धैरभिपूजितः सन्
इति पठति इत्थं हेमवाजिप्रदानंसकलकलुषमुक्तः सोऽश्वयुक्तेन भूयः ।कनकमयविमानेनार्कलोकं प्रयातित्रिदशपतिबधूभिः पूज्यते योऽथ पश्येत्
यो वा शृणोति पुरुषोऽल्पधनः स्मरेद्वाहेमाश्वदानमभिनन्दयतीह लोके ।सोऽपि प्रयाति हतकल्मषशुद्धदेहःस्थानं पुरन्दरमहेश्वरलोकजुष्टम्
”इति मात्स्ये हिरण्याश्वप्रदानिको नाम २८०अध्यायः
वाचस्पत्यम्
Sanskrit
हिरण्याश्व
पु०
हिरण्यनिर्मितोऽश्वः तुलादिषोडशमहादानगध्ये दानार्थं स्वर्णादिना कल्पितेऽश्वे तदाने ।“अथातः संप्रवक्ष्यामि हिरण्याश्वविधि परम् यस्य प्र-सादाद्भुवनमनन्तफलमश्नुते पुण्यं तिथिमथ साद्य कृत्वाब्राह्मणवाचनम् लोकेशावाहन कुर्य्यात् तुलापुरुष-दानवत् ऋत्विगमण्डपसम्भारभूषणाच्छादनादिकम् ।स्वल्पेष्वेकाग्निमत् कुर्य्याद्धेमवाजिमख बुधः” अत्रादि-शब्देन देशकालवृद्धिश्राद्धशिवादिपुजागुरुऋत्विग्वरण-मधुपकेदानवेदिकापरिचक्रलेखमवितानतोरणताकाधि-वासनादि मतस्यपुराणोक्ततुलापुरुषदानविचितं कंगृह्यते, स्वल्पेष्वेकाग्निमदिति, व्याख्यातं “स्थापयेद्वेतदमध्ये तुकृष्णाजनतिलोपरि” कृष्णाजिनिहितद्रोणपरिमित-तिलोपरीति विज्ञेयम् “कौशेयवस्त्रसंवीतं कारयेद्धे-मवाजिनम् शक्तितस्त्रिपलादूद्ध मासहस्रफलादु बुधः ।पादुकोपानहच्छत्रचामरासनभाजनैः पूर्णकुम्भाष्टको-पेतं माल्यक्षुफलसंयुतम् शय्यां सोपस्करान्तद्वद्धेममार्त्त-ण्डसंयुतम्” शय्योपस्करा विविधास्तरणापधानवस्त्र-फलपुष्पकुङ्कुमकर्पूरागुरुचन्दनताम्बूलदर्पणकङ्कतिकाचा-मरव्यजनासनपतद्ग्रहस्थितपात्रासिमुद्रिकोपानहयुगल-ताम्रघटिकादिजलपात्रदीपिकावितानादयः मार्त्तण्ड-संयुतामिति, उपर्य्यारूढसूर्य्यं सौवर्णमश्वं कुर्य्यादित्यर्थः ।सूर्य्यलक्षणमुक्तं ब्रह्माण्डदाने “ततः सर्वौषधि-स्नानस्नापितो वेदपुङ्गवैः इममुच्चारयेन्मन्त्रं गृहीत-कुसुमाञ्जलिः” इहापि पूर्वेद्युरधिवासनं विधायद्वितीयदिवसे पूर्ववत् पुण्याहवाचनादिपूर्णाहुतिपर्य्यन्तंकर्म, गुरुः समापयेत् अथ सर्वौषधिजलस्रातः शुक्ला-म्बरो यजमानस्त्रिःप्रदक्षिणोकृत्य वक्ष्यमाणमन्त्रमुदी-रयेत् “नमस्ते सर्वदेवेश! वेदाहरणलम्पट! वाजिरू-पेण मामस्मात् पाहि संसारसागरात् त्वमेव सप्तधाभूत्वा छन्दोरूपेण भास्करम् यस्मात् भ्रामयसे लो-कानतः पाहि सनातन! एवमुच्चार्य्य गुरवे तमश्वंविनिवेदयेत् दत्त्वा पापक्षयाद्भानोर्लोकमभ्येति शाश्व-तम् गोभिर्विभवतः सर्वानृत्विजश्चाभिपूजयेत् सर्व-धान्योपकरणं गुरवे विनियेदयेत सर्वं शय्यादिकंदत्त्वा मुञ्जीतातैलमेव हि पुराणश्रवणं तद्वत् कार-येद्भोजनानादनु” दानवाक्यञ्च पूर्ववदनुसन्धेयम्, अनु-क्तदक्षिणेषु सुवर्णं दक्षिणेति, यथाशक्ति सुवर्णदक्षिणा, विभवतः स्वविभवानुसारण सर्वान् सदस्यादीनृत्विजश्चगोभिः पूजयेत्, सर्वधान्योपकरणमिति विनियोगात्पूर्वं धान्यासादनं गम्यते, गुरवे निवेदयेदिति, स्वल्पद्रव्यदाने आचार्य्यायैव अश्वं प्रदाय ऋत्विग्भ्यो यथा-शक्ति सुवर्णादि दद्यात् सहस्रपलादिद्रव्यदाने तु प्रकृति-वद्व्यवस्था, स्वल्पतरेष्वेकाग्निक्षेऽपि द्रष्टव्या” हेमा० दा०