| YouTube Channel

हिरण्यगर्भः (hiraNyagarbhaH)

 
Hindi
Hindi
जीवन और फार्म का गोल्डन भ्रूण
Apte Hindi
Hindi
हिरण्यगर्भः
पुं*
हिरण्यम्-गर्भः -
ब्रह्मा (क्योंकि वह सोने के अंड़े से पैदा हुआ)
हिरण्यगर्भः
पुं*
हिरण्यम्-गर्भः -
विष्णु का नाम
हिरण्यगर्भः
पुं*
हिरण्यम्-गर्भः -
सूक्ष्मशरीर धारण करने वाली आत्मा
Wordnet
Sanskrit
Synonyms:
हिरण्यगर्भः
noun
सूक्ष्मशरीरसमष्ट्युपहितचैतन्यम्।
"जीवः मातुः गर्भे आगमनात् पूर्वं हिरण्यगर्भः भवति इति उच्यते।"
Synonyms:
हिरण्यगर्भः
noun
हेममयम् अण्डं यस्मात् ब्रह्मणः उत्पत्तिः जाता।
"हिरण्यगर्भः इति सङ्कल्पनाम् अहं जानामि।"
Synonyms:
हिरण्यगर्भः
noun
ऋषिविशेषः।
"जनाः हिरण्यगर्भस्य प्रतिभया परिचिताः आसन्।"
Synonyms:
ब्रह्मा, आत्मभूः, सुरज्येष्ठः, परमेष्ठी, पितामहः, हिरण्यगर्भः, लोकेशः, स्वयंभूः, चतुराननः, धाता, अब्जयोनिः, द्रुहिणः, ब्रह्मदेवः, विरिञ्चिः, कमलासनः, पङ्कजासनः, स्रष्टा, प्रजापतिः, वेधाः, विधाता, विश्चसृट्, विधिः, नाभिजन्मा, अण्डजः, पूर्वः, निधनः, कमलोद्भवः, सदानन्दः, रजोमूर्तिः, सत्यकः, हंसवाहनः, हरिः, पूर्णानन्दः
noun
देवताविशेषः यः सृष्टेः जनकः अस्ति।
"नारदः ब्रह्मणः पुत्रः अस्ति।"
Synonyms:
सूर्यः, सविता, आदित्यः, मित्रः, अरुणः, भानुः, पूषा, अर्कः, हिरण्यगर्भः, पतङ्गः, खगः, सहस्रांशुः, दिनमणिः, मरीचि, मार्तण्ड, दिवाकरः, भास्करः, प्रभाकरः, विभाकरः, विवस्वान्, सप्ताश्वः, हरिदश्वः, चित्ररथः, सप्तसप्तिः, दिनमणि, द्युमणिः, दिवामणिः, खमणिः, खद्योतः, प्रद्योतनः, अम्बरीशः, अंशहस्तः, लोकबान्धवः, जगत्चक्षुः, लोकलोचनः, कालकृतः, कर्मसाक्षी, गोपतिः, गभस्तिः, गभस्तिमान्, गभस्तिहस्तः, ग्रहराजः, चण्डांशु, अंशुमानी, उष्णरश्मिः, तपनः, तापनः, ज्योतिष्मान्, मिहिरः, अव्ययः, अर्चिः, पद्मपाणिः, पद्मिनीवल्लभः, पद्मबन्धुः, पद्मिनीकान्तः, पद्मपाणिः, हिरण्यरेतः, काश्यपेयः, विरोचनः, विभावसुः, तमोनुदः, तमोपहः, चित्रभानुः, हरिः, हरिवाहनः, ग्रहपतिः, त्विषाम्पतिः, अहःपतिः, वृध्नः, भगः, अगः, अद्रिः, हेलिः, तरूणिः, शूरः, दिनप्रणीः, कुञ्जारः, प्लवगः, सूनुः, रसाधारः, प्रतिदिवा, ज्योतिपीथः, इनः, वेदोदयः, पपीः, पीतः, अकूपारः, उस्रः, कपिलः
noun
पृथिव्याः निकटतमः अतितेजस्वी खगोलीयः पिण्डः यं परितः पृथ्व्यादिग्रहाः भ्रमन्ति। तथा यः आकाशे सुवति लोकम् कर्माणि प्रेरयति च।
"सूर्यः सौर्याः ऊर्जायाः महीयः स्रोतः।/ सूर्ये तपत्यावरणाय दृष्टैः कल्पेत लोकस्य कथं तमित्स्रा।"
Tamil
Tamil
ஹிரண்யக3ர்ப4: : பிரமன், விஷ்ணு.
शब्दकल्पद्रुमः
Sanskrit
हिरण्यगर्भः, (हिरण्यं हेममयाण्डं गर्भ उत्-पत्तिस्थानमस्य ।) ब्रह्मा इत्यमरः १६
हिरण्यं गर्भ उत्पत्तिस्थानमस्य हिरण्यस्य गर्भोभ्रूण इति वा हिरण्यगर्भः एतस्याण्डं हिरण्य-वर्णमभवत् तथा स्मृतिः ।“हिरण्यवर्ण्यवर्णमभवत्तदण्डमुदकेशयम् ।तत्र जज्ञे स्वयं ब्रह्मा स्वयम्भुरिति विश्रुतः
”इति ।उपचारात् हिरण्यवर्णमण्डं हिरण्यम् इतिभरतः
अन्यच्च ।“हिरण्यगर्भोऽभूद्वद्ध्या तेन बुद्धिर्म्मता असौ ।”इति देवीपुराणे देवीनिरुक्ते ४५ अध्यायः
*
षोडशमहादानान्तगतद्वितीयमहादानम् यथा, मत्स्य उवाच ।“अथातः संप्रवक्ष्यामि महादानमनुत्तमम् ।नाम्ना हिरण्यगर्भाख्यं महापातकनाशनम्
पुण्यां तिथिं समासाद्य तुलापुरुषदानवत् ।ऋत्विङ्मण्डपसम्भारभूषणाच्छादेनादिकम्
कुर्य्यादुपाषितस्तद्वल्लोकेशावाहनं बुधः ।पुण्याहवाचनं कृत्वा तद्वत् कृत्वा धिवासनम् ।ब्राह्मणैरानयेत् कुण्डं तपनीयमयं शुभम्
द्वासप्तत्यङ्गुलोच्छ्रायं हेमपङ्कजगर्भवत् ।त्रिभागहीनं विस्तारमाज्यक्षीराभिपूरितम्
दशास्त्राणि सरत्नानि दात्रं सूची तथैव ।हेमनालं सपिटकं बहिरादित्यसंयुतम्
तथैवावरणं नाभेरुपवीतञ्च काञ्चनम् ।पार्श्वतः स्थापयेत्तद्वद्धेमदण्डं कमण्डलुम्
पद्माकारं पिधानं स्यात् समन्तादङ्गुलाधिकम्मुक्तावलीसमोपेतं पद्मरागदलान्वितम्
तिलद्रोणोपरिगतं वेदमध्ये ततोऽर्च्चयेत् ।ततो मङ्गलशब्देन ब्रह्मघोषरवेण
सर्व्वोषध्युदकं स्नानं स्नापितो वेदपुङ्गवैः ।शुक्लमाल्याम्बरधरः सर्व्वाभरणभूषितः ।इममुच्चारयेन्मन्त्रं गृहीतकुसुमाञ्जलिः
नमो हिरण्यगर्भाय हिरण्यकवचाय ।सप्तलोकसुराध्यक्ष जगद्धात्रे नमो नमः
भूर्लोकप्रमुखा लोकास्तव गर्भे व्यवस्थिताः ।ब्रह्मादयस्तथा देवा नमस्ते विश्वधारिणे
नमस्ते भुवनाधार ! नमस्ते भुतनाश्रय ! ।नमो हिरण्यगर्भाय गर्भो यस्य पितामहः
यतस्त्वमेव भूतात्मा भूते भूते व्यवस्थितः ।तस्मान्मामुद्धराशेषदुःखसंसारसागरात्
एवमामन्त्र्य तन्मध्यमाविश्याम्भ उदङ्मुखः ।मुष्टिभ्यां परिसंगृह्य धर्म्मराजचतुर्मुखौ ।जानुमध्ये शिरः कृत्वा तिष्ठेत श्वासपञ्चकम्
गर्भाधानं पुंसवनं सीमन्तोन्नयनं तथा ।कुर्य्युर्हिरण्यगर्भस्य ततस्ते द्विजपुङ्गवः
गीतमङ्गलघोषेण गुरुरुत्थापयेत्ततः ।जातकर्म्मादिकाः कुर्य्यात् क्रियाः षोडशचापराःसूच्यादिकञ्च गुरवे दत्त्वा मन्त्रमिमं जपेत्
नमो हिरण्यगर्भाय विश्वगर्भाय वै नमः ।चराचरस्य जगतो गृहभूताय वै नमः
मात्राहं जनितः पूर्व्वं मर्त्यधर्म्मा सुरोत्तम ।त्वद्गर्भसम्भवादेष दिव्यदेहो भवाम्यहम्
चतुर्भिः कलसैर्भूयस्ततस्ते द्विजपुङ्गवाः ।स्नानं कुर्य्युः प्रसन्नाङ्गाः सर्व्वाभरणभूषिताः
देवस्यत्वेति मन्त्रेण स्थितस्य कनकासने ।अद्य जातस्य तेऽङ्गानि आभिषेक्ष्यामहे वयम्
दिव्येनानेन वपुषा चिरं जीव सुखी भव ।ततो हिरण्यगर्भस्तु तेभ्यो दद्याद्विचक्षणः
ते पूज्याः सर्व्वभावेन बहुभ्यो वा तदाज्ञया ।तत्रोपकरणं सर्व्वं गुरवे विनिवेदयेत
पादुकोपानहं छत्रं चामरासनभोजनम् ।ग्रामं वा विषयं वापि यदन्यद्दयितं भवेत्
अनेन विधिना यस्तु पुण्येऽह्नि विनिवेदयेत् ।हिरण्यगर्भदानं ब्रह्मलोके महीयते
पुरेषु लोकपालानां प्रतिमन्वन्तरं वसेत् ।कल्पकोटिशतं यावत् ब्रह्मलोके महीयते
कलिकलुषविमुक्तः सेवितः सिद्धसंघै-रमरचमरमालावीज्यमानोऽप्सरोभिः ।पितृशतमथ बन्धून् पुत्त्रपौत्त्रप्रपौत्त्रा-नपि नरकनिमग्नांस्तारयेदेक एव
इति पठति इत्थं यः शृणोतीह सम्यक्मधुमुररिपुलोके पूज्यते सोऽपि सिद्धैः ।मतिमपि जनानां यो ददाति प्रियार्थंविबुधपतिजनानां नायकः स्यादमोघम्
”इति मात्स्ये २७५ अध्यायः
*
विष्णुः इति तस्य सहस्रनामस्तोत्रम्
सूक्ष्म-शरीरसमष्ट्युपहितचैतन्यम् तत्पर्य्यायः ।प्राणात्मा सूत्रात्मा इति वेदान्तसारः