| YouTube Channel

हिरण्यकामधेनुः (hiraNyakAmadhenuH)

 
शब्दकल्पद्रुमः
Sanskrit
हिरण्यकामधेनुः,
स्त्री,
(हिरण्यनिर्म्मिता काम-धेनुर्यत्र ।) षाडशमहादानान्तर्गतमहादान-विशेषः यथा, --मत्स्य उवाच ।“अथातः संप्रवक्ष्यामि कामधेनुविधिं परम् ।सर्व्वकामप्रदं नॄणां महापातकनाशनम्
लोकेशावाहनं तद्वद्धोमकार्य्याधिवासनम् ।तुलापुरुषवत् कार्य्यं कुण्डमण्डपवेदिकम्
स्वल्पेष्वेकाग्निवत् कुर्य्याद्गुरुरेकः समाहिताः ।काञ्चनस्यातिशुद्धस्य धेनुं वत्सञ्च कारयेत्
उत्तमा पलसाहस्रा तदर्द्धेन तु मध्यमा ।कनोयसो तदर्द्धेन कामधेनुः प्रकीर्त्तिता ।शक्तितस्त्रिपलादूर्द्ध्वं अशक्तोऽपीह कारयेत्
वेद्यां कृष्णाजिन न्यस्य गुडपस्थसमन्वितम् ।न्यसेदुपरि तां धेनुं महारत्नैरलङ्कताम्
कुम्भाष्टकसमोपेतां नानाफलसमन्विताम् ।तथाष्टादशधान्यानि समन्तात् परिकल्पयेत्
इक्षुदण्डाष्टक तद्वत् नासाफलविभूषितम् ।भाजनञ्चासनं तद्वत्ताम्रदोहनकं तथा
कौषेयवस्त्रद्वयमंप्रयुक्तांदीपातपत्राभरणाभिरामाम् ।सचामरां कुण्डलिनीं सघण्टांमणित्रिकां चन्द्रकरौप्यपादाम्
सरैश्च सर्व्वैः पुरतोऽभिजुष्टांहरिद्रया पुष्पफलैरनेकैः ।अजाजिकुस्तुम्बुरुशर्कराभि-र्व्वितानकञ्जोपरि पञ्चवर्णम्
स्नानं ततो मङ्गलवेदघोषैःप्रदक्षिणीकृत्य पुष्पहस्तः ।आवाहयेत् तां गुडधेनुमन्त्रै-र्द्विजाय दद्यादथ दर्भपाणिः
त्वं सर्व्वदेवगणमन्दिरमङ्गभूताविश्वेश्वरत्रिपथगोदधिपर्व्वतानाम् ।त्वद्दानशस्त्रशकलीकृतपातकौघःप्राप्तोऽस्मि निर्व्वृतिमतीव परां नमामि
लोके यथेप्सितफलार्थविधायिनीं त्वा-मासाद्य को हि भवदुःखमुपैति मर्त्यः ।संसारदुःखशमनाय यतस्व कामंत्वां कामधेनुमिति वेदविदो वदन्ति
आमन्त्र्य शीलकलरूपगुणान्वितायविप्राय यः कनकधेनुमिमां प्रदद्यात् ।प्राप्नोति धाम पुरन्दरदेहजुष्टंकन्यागणैः परिवृतः पदमिन्दुमौलेः
”इति मात्स्ये हिरण्यकामधेनुप्रदानिको नाम२५३ अध्यायः