हिरण्यकामधेनु (hiraNyakAmadhenu)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English हिरण्यकामधेनु hiraNyakAmadhenu cit
हिरण्यकामधेनु hiraNyakAmadhenu golden figure representing the kAmadhenu
Monier Williams Cologne
Englishशब्दकल्पद्रुमः
Sanskritहिरण्यकामधेनुः, (हिरण्यनिर्म्मिता काम-धेनुर्यत्र ।) षाडशमहादानान्तर्गतमहादान-विशेषः । यथा, --मत्स्य उवाच ।“अथातः संप्रवक्ष्यामि कामधेनुविधिं परम् ।सर्व्वकामप्रदं नॄणां महापातकनाशनम् ॥
लोकेशावाहनं तद्वद्धोमकार्य्याधिवासनम् ।तुलापुरुषवत् कार्य्यं कुण्डमण्डपवेदिकम् ॥
स्वल्पेष्वेकाग्निवत् कुर्य्याद्गुरुरेकः समाहिताः ।काञ्चनस्यातिशुद्धस्य धेनुं वत्सञ्च कारयेत् ॥
उत्तमा पलसाहस्रा तदर्द्धेन तु मध्यमा ।कनोयसो तदर्द्धेन कामधेनुः प्रकीर्त्तिता ।शक्तितस्त्रिपलादूर्द्ध्वं अशक्तोऽपीह कारयेत् ॥
वेद्यां कृष्णाजिन न्यस्य गुडपस्थसमन्वितम् ।न्यसेदुपरि तां धेनुं महारत्नैरलङ्कताम् ॥
कुम्भाष्टकसमोपेतां नानाफलसमन्विताम् ।तथाष्टादशधान्यानि समन्तात् परिकल्पयेत् ॥
इक्षुदण्डाष्टक तद्वत् नासाफलविभूषितम् ।भाजनञ्चासनं तद्वत्ताम्रदोहनकं तथा ॥
कौषेयवस्त्रद्वयमंप्रयुक्तांदीपातपत्राभरणाभिरामाम् ।सचामरां कुण्डलिनीं सघण्टांमणित्रिकां चन्द्रकरौप्यपादाम् ॥
सरैश्च सर्व्वैः पुरतोऽभिजुष्टांहरिद्रया पुष्पफलैरनेकैः ।अजाजिकुस्तुम्बुरुशर्कराभि-र्व्वितानकञ्जोपरि पञ्चवर्णम् ॥
स्नानं ततो मङ्गलवेदघोषैःप्रदक्षिणीकृत्य स पुष्पहस्तः ।आवाहयेत् तां गुडधेनुमन्त्रै-र्द्विजाय दद्यादथ दर्भपाणिः ॥
त्वं सर्व्वदेवगणमन्दिरमङ्गभूताविश्वेश्वरत्रिपथगोदधिपर्व्वतानाम् ।त्वद्दानशस्त्रशकलीकृतपातकौघःप्राप्तोऽस्मि निर्व्वृतिमतीव परां नमामि ॥
लोके यथेप्सितफलार्थविधायिनीं त्वा-मासाद्य को हि भवदुःखमुपैति मर्त्यः ।संसारदुःखशमनाय यतस्व कामंत्वां कामधेनुमिति वेदविदो वदन्ति ॥
आमन्त्र्य शीलकलरूपगुणान्वितायविप्राय यः कनकधेनुमिमां प्रदद्यात् ।प्राप्नोति धाम स पुरन्दरदेहजुष्टंकन्यागणैः परिवृतः पदमिन्दुमौलेः ॥
”इति मात्स्ये हिरण्यकामधेनुप्रदानिको नाम२५३ अध्यायः ॥
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
वाचस्पत्यम्
Sanskritहिरण्यकामधेनु स्त्री विधानेन हिरण्यरचिता कामधेनुः ।तुलादिषोडशमहादानमध्ये दानार्थं हिरण्येन कल्पि-तायाम् १ धेनौ उपचारात् २ तद्दाने च । तद्दानविधिः“अथातः संप्रवक्ष्यामि कामधेनुविधिं षरम् । सर्वकाम-प्रदं नॄणां महापातकनाशनम् । लोकेशावाहनं तद्व-द्धोमः कार्य्योऽधिवासनम् । तुलापुरुषवत् कुर्य्यात् कुण्ड-मण्डषवेदिकाः । स्वल्पेष्वेकाग्निमत् कुर्य्यात् गुरुरेव स-माहितः” । कुण्डमण्डपवेदिका इत्युपलक्षणम् । इहहि देशकालवृद्धिश्राद्धशिवादिपूजाब्राह्मणवाचनगुरु ऋ-त्विग्वरणमधुषर्कदानयेदिकोपरिचक्रलेखनपञ्चवर्णविता-नतोरणपताकादिकं सर्वं मत्स्यपुराणोक्ततुलापुरुष-दानविहितं वेदितव्यम् । स्वल्पेष्वेकाग्निमदिति, एकाग्निमत्करणं व्याख्यातम् । “काञ्चनस्यातिशुद्धस्यधेनुं वत्सञ्च कारयेत् । उत्तमा पलसाहस्रैस्तदर्द्धेन तुमध्यमा । कनीयसी तदर्द्धेन कामधेनुः प्रकीर्त्तिता ।शक्तितस्त्रिपलादूर्द्ध मशक्तोऽपीह कारयेत्” । अत्र यद्यपिवत्सपरिमाणमनुक्तं तथापि कामधेनुविधानवत् तप्त-काञ्चनचतुर्थांशेन वत्सः कल्पनीयः । समस्तथेनुपरिमित-द्रव्यनिष्कृष्टवत्सनिर्माणव्याप्तिदर्शनादिहापि धेनुदानत्वा-विशेषात् तथैव गिश्चीयते । तथा च गुडधेन्वादिषु “तच्च-तुर्थांशेन वत्सः स्यादिति” तत्र तत्र वक्ष्यते । “वेद्यांकृष्णाजिनं न्यस्य गुडप्रस्थसमन्वितम् । न्यसेदुपरि तांधेनुं महारत्नैरलङ्कृताम् । कुम्भाष्टकसमोपेतां नाना-फलसमन्विताम्” । कल्पतरुदाने, प्रस्थो व्याख्यातः । “म-हारत्नानि पद्मरागप्रमृतीनि, “वत्सं दक्षे तु विन्यसे-दिति” क्वचित्पाठः, नानाफलानि गोगजवाजिस्त्री-पुरुषप्रभृतीनि सौबर्णानि कल्पतरुदानोक्तानि । “तथा-ष्टादश धान्यानि समन्तात् परिकल्पयेत् । इक्षुदण्डाष्टकंतद्वन्नानाफलसमन्वितम् । भाजनं चासनं तद्वत् ताम्र-दोहनकं तथा” । अष्टादश धान्यानि परिभाषायां द्रष्ट-व्यानि नानाफलानि मातुलिङ्गादीनि । “कौशेयवस्त्रद्वयसम्प्रयुक्ताम् दीपातपत्राभरणाभिरामाम् । सचा-मरां कुण्डलिनीं मघण्टां गणित्रिकापादुकरौप्यपादाम् ।रसैश्च सर्वैः परितोऽभिजुष्टां हरिद्रया पुष्पफलैरनेकैः ।अजाजिकुस्तुम्बुरुशर्कराभिः वितानकं चोपरि पञ्च-वर्णम् । स्नातस्ततो मङ्गलवेदघोषैः प्रदक्षिणीकृत्यसपुष्पहस्तः । आवाहयेत् ताङ्गडधेनुमन्त्रैः द्विजायदद्यादथ दर्भपाणिः” हेमा० दा० मत्स्यपु० ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
