हिरण्यकशिपुः (hiraNyakazipuH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiहिरण्यकशिपुः
हिरण्यम्-कशिपुः -
राक्षसों के एक प्रसिद्ध राजा का नाम
Wordnet
Sanskrit हिरण्यकशिपुः
दैत्यराजः यः प्रह्लादस्य पिता आसीत्।
"हिरण्यकशिपुं हन्तुं भगवान् नृसिंहरूपेण अवतीर्णः।"
शब्दकल्पद्रुमः
Sanskritहिरण्यकशिपुः, दैत्यविशेषः । स तु कश्यपस्यदित्यां पत्न्यां जातः । तस्य सहोदरः हिर-ण्याक्षः । तस्य भार्य्या कयाधुः । तस्य पुत्त्राःसंह्रादः १ अनुह्रादः २ ह्रादः ३ प्रह्रादः ४ ।कन्या सिंहिका । इति श्रीभागवतम् ॥
अपि च ।“त्वया यौ निहतौ देव ! दानवौ मधुकैटभौ ।अवतीर्णौ पुनर्दैत्यौ भूत्वा कश्यपनन्दनी ।हिरण्यकशिपुश्चैव हिरण्याक्षो महासुरः ॥
सुदुर्जयोद्धतौ तौ तु पुनर्जातौ महाबलौ ।पुलस्त्यस्य कुले देव ! राक्षसेन्द्रावरौ च तौ ॥
तयोलु पादविन्यासमसहन्ती जनार्दन ! ।तवान्तिकमनुप्राप्ता दशास्यकुम्भकर्णयोः ॥
”इति वह्निपुराणे वैश्रवणवरप्रदाननामाध्यायः ॥
तदुत्पत्त्यादि यथा, --“दित्याः पुत्त्रद्वथं जज्ञे कश्यपादिति नः श्रुतम् ।हिरण्याक्षश्च दुर्द्धर्षो हिरण्यकशिपुस्तथा ॥
कश्यपस्याश्रमोऽप्यासीत् पुण्ये वै पुष्करे पुरा ।ऋषिभिर्देवताभिश्च गन्धर्व्वैरुपशोभितः ॥
आसनान्युपकॢप्तानि काञ्चनानि तु पञ्च वै ।ऋषीणामृत्विजां ते वै उपविष्टा यथाक्रमात् ॥
होतुस्तत्रासनं यत्तु हविस्तत्राथ जुह्वतः ।अन्तर्व्वत्नी दितिश्चैव पत्नी च समुपागता ॥
दशवर्षसहस्राणि गर्भस्तस्यामवर्त्तत ।स तु गर्भो विनिःसृत्य मातुर्वै उदरात्तदा ॥
निषसादासने गर्भः कश्यपस्यापि सन्निधौ ।तं दृष्ट्वा मुनयस्तस्य नामाकुर्व्वन्त तद्धितम् ।हिरण्यकशिपुस्तस्मात् कर्म्मणानेन स स्मृतः ।हिरण्याक्षोऽनुजस्तस्य सिंहिका च तथानुजा ।राहोः सा जननी देवी विपचित्तेः परिग्रहः ।हिरण्यकशिपुर्दैत्यश्चकार परमं तपः ।ततो वर्षसहस्राणि निराहारो ह्यधःशिराः ॥
तं ब्रह्मा छन्दयामास दैत्यं तुष्टो वरेण तु ।सर्व्वामरत्वं वव्रे स शस्त्रास्त्रैर्न दिवा निशि ॥
अहं सर्व्वं विनिर्जित्य सर्व्वदेवत्वमास्थितः ।अणिमादिगुणैश्वर्य्यमेष मे दीयतां वरः ॥
तेनैवमुक्तो ब्रह्मा तु तस्मै दत्त्वा यथेप्सितम् ।दत्त्वा चास्य सभां दिव्यां तत्रैवान्तरधीयत ॥
हिरण्यकशिपुर्दैत्यः श्लोकैर्गौतः पुरातनः ॥
राजा हिरण्यकशिपुर्दैत्यो यां यां निषेवते ।तस्यां तस्यां नमश्चक्रुर्देवता ऋषिभिः सह ॥
एवं प्रभावो दैत्योऽभूत् हिरण्यकशिपुः पुरा ॥
स्वयमग्निश्च सूर्य्यश्च वायुरिन्द्रो जलं स्वयम् ।भूत्वा चकार राज्यं स मन्वन्तरचतुर्दश ॥
तस्यासीत् नरसिंहस्तु गृत्युर्विष्णुः पुरा किल ।नखैस्तेन विनिर्भिन्नो नार्द्रशुष्का नखाःस्मृताः ॥
हिरण्याक्षसुताः पञ्च विक्रान्ताः सुमहाबलाः ।हिरण्यकशिपोः पुत्त्राश्चत्वारः सुमहाबलाः ॥
प्रह्रादः पूर्व्वजस्तेषामनुह्रादस्तथैव च ।संह्रादश्चैव ह्रादश्च ह्रादपुत्त्रान् शृणुष्व तान् ॥
”इति वह्निपुराणे कश्यपीयप्रजामर्गनामाध्यायः ॥
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
