| YouTube Channel

हिमं (himaM)

 
शब्दकल्पद्रुमः
Sanskrit
हिमं, त्रि, (हन्ति उष्माणमिति हन + “हने-र्हि ।” उणा० १४६ इति मक् हि ।)शीतगुणविशिष्टः शीतलवस्तु तत्पर्य्यायः ।सुषीमः शिशिरः जडः तुषारः ५शीतलः शीतः इत्यमरः १९
(यथा, सुश्रुते २८ “अपराह्णे हिमाभि-रद्भिः परिषिक्तगात्रः शालीनां षष्टीकानाञ्चपयसा शर्करामधुरेणौदनमश्नीयात्
”)
हिमं,
क्ली,
(हन + मक् हन्तेर्हि ।) अकाश-वाष्पः तत्पर्य्यायः अवश्यायः नीहारः ३तुषारः तुहिनम् प्रालेयम् महिमा ।इत्यमरः १८
इन्द्राग्निधूमः ८खवाष्पः रजनीजलम् १० इति हारावली
यथा, रघुः ४५ ।“अथवा मृदुवस्तु हिंमितुंमृदुनैवारभते प्रजान्तकः ।हिमसेकविपत्तिरत्र मेनलिनी पूर्व्वनिदर्शनं मता
”)अस्य गुणः कफवायुवद्धकत्वम् इति राज-वल्लभः
चन्दनम् इति मेदिना
पद्मकाष्ठम् ।रङ्गम् मौक्तिकम् इति राजनिर्घण्टः
नवनीतम् इति शब्दचन्द्रिका
शीतम् इतिहेमचन्द्रः
(कर्पूरः पर्य्यायो यथा, --“पुंसि क्लीवे कर्पूरः सिताभ्रो हिमबालुकः ।घनसारश्चन्द्रसंज्ञः हिमनामापि स्मृतः
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)