| YouTube Channel

हितोपदेशः (hitopadezaH)

 
शब्दकल्पद्रुमः
Sanskrit
हितोपदेशः,
पुं,
(हितानामुपदेशः ।) सत्परा-मर्शदानम् यथा, महाभारते १०१ ।“हितोपदेशश्च पथि धर्म्मराजस्य धीमतः ।विदुरेण कृतो यत्र हितार्थं म्लेच्छभाषया
”हितानामुपदेशो यत्र ।) विष्णुशर्म्मकृतमित्र-लाभसुहृद्भेदविग्रहसन्धिनामकथाचतुष्टयात्मक-नीतिशास्तम् यथा, --“सिद्धिः साध्ये सतामस्तु प्रसादात्तस्य धूर्जटेः ।जाह्नवीफेनरेखेव यन्मूर्द्ध्नि शशिनः कला
श्रुतो हितोपदेशोऽयं पाटवं संस्कृतोक्तिषु ।वाचां सर्व्वत्र वैचित्र्यं नीतिविद्यां ददाति
”इति हितोपदेशप्रथमश्लोकद्वयम्