| YouTube Channel

हिज्जलः (hijjalaH)

 
शब्दकल्पद्रुमः
Sanskrit
हिज्जलः,
पुं,
(हिज्ज इति नाम लातीति ।ला + कः ।) वृक्षविशेषः हिजल इति वङ्ग-भाषा इजर इति हिन्दी भाषा तत्पर्य्यायः ।निचुलः इज्जलः इति हेमचन्द्रः
पिचुलः नदीकान्तः अम्बुजः इतिजटाधरः
धनदः कान्तः जलजः ९दीर्घपत्रकः १० नदीलः ११ रक्तः १२कार्म्मुकः १३ अस्य गुणाः कटुत्वम् ।उष्णत्वम् पवित्रत्वम् भूतवातामयनानाग्रह-चारादिदोषनाशित्वञ्च इति राजनिर्घण्टः
अपि ।“इज्जलो हिज्जलश्चापि निचुलश्चाम्बुजस्तथा ।जलवेतसवद्वेद्यो हिज्जलोऽयं विषापहः
”इति भावप्रकाशः