| YouTube Channel

हिक्का (hikkA)

 
शब्दसागरः
English
हिक्का
f.
(-क्का)
1. Hiccough.
2. An indistinct sound.
E.
हिक्क् to hic-
cough, affs. अङ् and टाप्
Capeller Eng
English
हिक्का
f.
हिक्कित
n.
sobbing.
Yates
English
हिक्का (क्का) 1.
f.
Hiccough.
Spoken Sanskrit
English
हिक्का hikkA
f.
hiccup
हिक्का hikkA
f.
spasmodic sound in the throat
हिक्का hikkA
f.
sob
हिक्का hikkA
f.
owl
हिक्का hikkA
f.
hiccup
Wilson
English
हिक्का
f.
(-क्का) Hiccough.
E.
हिक्क to hiccough,
aff.
अङ् and टाप्.
Apte 1890
English
हिक्का 1 An indistinct sound.
2 Hiccough.
Monier Williams Cologne
English
हिक्का
f.
hiccup (cf. हेक्का), sob, a spasmodic sound in the throat,
Suśr.
R.
Hariv.
an owl,
L.
Monier Williams 1872
English
हिक्का, f. an indistinct or inarticulate sound
hiccough
[cf. हेक्का।]
Macdonell
English
हिक्का hikkā,
f.
hiccup.
Benfey
English
हिक्का हिक्का,
f.
Hiccough, Lass. 17,
4
Rām. 6, 28, 26.
Apte Hindi
Hindi
हिक्का
स्त्री*
- हिक्क् + + टाप्
अस्पष्ट ध्वनि
हिक्का
स्त्री*
- -
हिचकी
हिक्का
नपुं*
- -
हिचकी का रोग
L R Vaidya
English
hikkA {% f. %} 1. An indistinct sound
2. hiccough.
Wordnet
Sanskrit
Synonyms:
हिक्का, हिक्किका, हिक्कित, गम्भीरा
noun
तत् शारीरकार्यं यस्मिन् उदरादिस्थवायुः कण्ठात् ऊर्ध्वं याति।
"बहु हिक्कां याति अद्य।"
Sanskrit Tibetan
Tibetan
skyigs bu
१) अनिबन्धि २) हिक्का
i khug
अनुबन्धि / हिक्का
अभिधानचिन्तामणिः
Sanskrit
--source--
हिक्का हेक्का हृल्लासः प्रतिश्यायस्तु पीनसः
-wordlist-
हिक्का (स्त्री), हेक्का (स्त्री), हृल्लास (पुं), प्रतिश्याय (पुं), पीनस (पुं)
शब्दकल्पद्रुमः
Sanskrit
हिक्का,
स्त्री,
(हिक्क कूजे + गुरोश्चेत्यः टाप् ।यद्वा, हिक्क्यतेऽनयेति हिक्क + करणे घञ् ।)रोगोपसर्गविशेषः हिँच्की इति भाषा ।इत्यमरः
हेँकटी इति ख्यातोव्याधिविशेषः हिक्वति कूजत्यनया हिक्का ।हिक्क कूजे सेमक्तात् सरोरिति अः हिक्क-यते हिनस्तीति वा हिक्व हिंसे पचा-हित्यादन् हिगिति कृत्वा कायति शब्दायतेइति वा हिक्का कै शब्दे हनजनादिति डः ।इति भरतः
*
अथ हिक्कारोगनिदानम् ।धन्वन्तरिरुवाच ।“हिक्कारोगनिदानञ्च वक्ष्ये सुश्रुत ! तच्छृणु ।श्वासैकहेतुप्राग्रूपसंख्याप्रकृतिसंश्रया ।हिक्का भक्तोद्भवा क्षुद्रा यमला महतीति ।गम्भीरा मरुत्तत्र त्वरया भुक्तिसेवितैः
रूक्षतीक्ष्णखराशान्तैरन्नपानैरपीडितः ।करोति हिक्कामरुजां मन्दशब्दां क्षुधानुगाम्
समं मत्स्यान्नपानेन या प्रायाति सान्नजा ।आयासात् पवनः क्रुद्धः क्षुद्रां हिक्कां प्रवर्त्तयेत्
जत्रुमूलप्रविसृतामल्पवेगयुताञ्च सा ।वृद्धिमायासतो याति भुक्तमात्रे मार्द्दवम्
चिरेण यमलैर्व्वेगैराहारेऽप्यनुवर्त्तते ।परिणाममुखे वृद्धिं परिणामे गच्छति
कम्पयन्ती शिरो ग्रीवामाध्मातस्यातितृप्यतः ।प्रलापच्छर्द्द्यतीसारनेत्रविप्लुतजृम्भिता
यमलावेगिनी हिक्वा परिणामवती सा ।ध्वस्तभ्रूशङ्खयुग्मस्य श्रुतिविप्लुतचक्षुषः
स्तम्भयन्ती तनुं वाचं स्मृतिं संज्ञाञ्च मुञ्चती ।तुदन्ती मार्गमन्यस्य कुर्व्वती मर्म्मघट्टनम्
पृष्ठतो नमनं सार्य्य महाहिक्का प्रवर्त्तते ।महामूला महाशब्दा महावेगा महाबला
पक्काशयाधो नाभेर्व्वा पूर्व्ववत् सा प्रवर्त्तते ।तद्रूपा सा महत् कुर्य्याज्जृम्भमङ्गप्रसारणम्
गम्भीरेण निनादेन गम्भीरां तु सुसाधयेत् ।आद्ये द्वे वर्ज्जयेदन्त्ये सर्व्वलिङ्गाञ्च वेगिनीम्
सर्व्वस्य सञ्चितामस्य स्थविरस्य व्यवायिनः ।व्याधिभिः क्षीणदेहस्य भक्तच्छेदकृशस्य
सर्व्वेऽपि रोगा नाशाय मत्वैवं शीघ्रकारिणः ।हिक्काश्वासौ तथा तौ हि मृत्युकाले कृता-लयौ
”इति गारुडे १५५ अध्यायः
*
तदौषधं यथा, --“कुलत्थः श्वासहिक्कानुत् कफगुल्मानिलापहः
त्रिदोषघ्नं मधु प्रोक्तं वातलञ्च प्रकीर्त्तितम् ।हिक्काश्वासकृमिच्छर्दिमेहतृष्णाविषापहम्
”इति गारुडे १७३
५० अध्यायः
“तथा हिक्कां हरेत् पीता सौवर्च्चलयुतामुरा
”इत्यपि गारुडे १९० अध्यायः
*
अन्यच्च ।अथ हिक्काधिकारः ।तत्र हिक्काया विप्रकृष्टनिदानमाह ।“विदाहिगुरुविष्टम्भिरूक्षातिष्यन्दिभोजनैः ।शीतपानाशनस्थानरजोधूमैस्तथानिलैः
व्यायामकर्म्मभाराध्ववेगाघातापतर्पणैः ।हिक्काश्वासश्च कासश्च नॄणां समुपजायते
”अपतर्पणमनशादि
*
सम्प्राप्तिमाह ।“वायु कफेनानुगतः पञ्चहिक्कां करोति हि ।अन्नजां यमलां क्षुद्रां गम्भीरां महतीं तथा
”सामान्यलक्षणमाह ।“मुहुर्म्मुहुर्व्वायुरुदेति सस्वनोयकृत्प्लिहान्त्राणि मुखादिवाक्षिपन् ।स दोषवानाशु हिनस्त्यसून् यत-स्ततस्तु हिक्केत्यभिधीयते बुधैः
”वायुरत्र सोदानः प्राणो बोद्धव्यः उदेति ऊर्द्ध्वंयाति सस्वनो हिगिति शब्दवान् ऊर्द्ध्व-गमनं विशिनष्टि यकृदित्यादि प्लिहन्शब्दो-ऽप्यस्ति दीर्घत्वविकल्पात् मुखादिति ल्यब्लोपेपञ्चमी तेन यकृत्प्लीहान्त्राणि मुखमानीयआक्षिपन् निःसारयन्निवेत्यर्थः वायुः ।दोषवान् दोषोऽत्र कफः तद्वान् वायुः कफे-नानुगतः इति संप्राप्तेः हिनस्तीति हिक्कापृषोदरादित्वात् रूपसिद्धिः हिगिति कायतिशब्दं करोतीति वा
*
पूर्व्वरूपमाह ।“कण्ठोरसोर्गुरुत्वञ्च वदनस्य कषायता ।हिक्कानां पूर्व्वरूपाणि कुक्षेराटोप एव
”वदनस्य कषायता वातात् तु कफात् माधुर्य्यंव्याधिप्रभावात्
*
अन्नजाया लक्षणमाह ।“पानान्नैरतिसंयुक्तैः सहसा पीडितोऽनिलः ।हिक्कायत्यूर्द्ध्वगो भूत्वा तां विद्यादन्नजां भिषक्
”अनिलः प्राणो वायुः
*
यमलालिङ्गमाह ।“चिरेण यमलैर्व्वेगैर्या हिक्का संप्रवर्त्तते ।कम्पयन्ती शिरोग्रीवं यमलां तां विनिर्द्दिशेत्
”क्षुद्रामाह ।“विकृष्टकालैर्या वेगैर्म्मन्दैः समभिवर्त्तते ।क्षुद्रिका नाम सा हिक्का जत्रुमूलात् प्रधा-वति
”विकृष्टकालैः चिरेण जत्रु कक्षोरसोः सन्धिः
गम्भीरामाह ।“नाभिप्रवृत्ता या हिक्का घोरा गम्भीरनादिनी ।अनेकोपद्रववती गम्भीरा नाम सा स्मृता
”अनेकोपद्रववती तृष्णाज्ज्वरादियुक्ता
*
महतीमाह ।“मर्म्माण्यापीडयन्तीव सततं या प्रवर्त्तते ।महाहिक्केति सा ज्ञेया सर्व्वगात्रप्रकम्पनी
”मर्म्माणि वस्तिहृदयशिरःप्रभृतीनि
*
असा-ध्यत्वमाह ।“आयम्यते हिक्कते यस्य देहोदृष्टिश्चोर्द्ध्वं भ्राम्यते नित्यमेव ।क्षीणोऽन्नद्विट् क्षौति यश्चातिमात्रंतौ द्वौ चान्त्यौ वर्ज्जयेद्विक्कमानौ
”आयम्यते विस्तार्य्यत इव तौ द्वाविति आय-म्यत इत्यादिना मित्यमेवेत्यन्तेनैको हिक्कमानः ।क्षीण इत्यादिनातिमात्रमित्यन्तेनापरः तौद्वौ अन्त्यौ गम्भीरया महत्या हिक्कमानौ वर्ज्जयेत् अपरञ्च ।“अतिसञ्चितदोषस्य भक्तच्छेदकृशस्य ।व्याधिभिः क्षीणदेहस्य वृद्धस्यातिव्यवायिनः
आयासाच्च समुत्पन्ना हिक्का हन्त्याशु जीवि-तम् ।यमिका प्रलापार्त्तिमोहतृष्णाससन्विता
”साध्यत्वमाह ।“अक्षीणश्चाप्यदीनश्च स्थिरधात्विन्द्रियश्च यःतस्य साधयितुं शक्या यमिका हन्त्यतो-ऽन्यथा
*
*
अथ हिक्कायाश्चिकित्सा ।“यत्किञ्चित् कफवातघ्नमुष्णं वातानुलोमनम् ।भेषजं पानमन्नं वा हिक्वाश्वासेषु तद्धितम्
हिक्काश्वामान्तरे पूर्व्वं तैलाक्ते स्वेद उच्यते ।ऊर्द्ध्वाधः शोधनं शक्ते दुर्ब्बले शमनं मतम्
प्राणावरोधतर्ज्जनविस्मापनशीतवारिपरिषेकैः ।चित्रैः कथाप्रयोगैः शमयेद्धिक्कां मनोऽभि-घातैश्च
हिक्कार्त्तस्य पयश्छागं हितं नागरसाधितम् ।मधु सौवर्च्चलोपेतं मातुलुङ्गरसं पिबेत्
मधुकं मघुसंयुक्तं पिप्पली शर्क्करान्विता ।नागरं गुडसंयुक्तं हिक्काघ्नं लावणत्रयम्
कृष्णामलकशुण्डीनां चूर्णं मधु सितायुतम् ।मुहुर्मुहुः प्रयोक्तव्यं हिक्काश्वासेषु तद्धितम्
चूर्णं कणागैरिकयोः सक्षौद्रं चावलेहयेत्
प्रबालशङ्खत्रिफलाचूर्णं मधुघृतप्लुतम् ।पिप्पली गैरिकञ्चेति लेहो हिक्कानिवारणः
नैपाल्या गोविषाणाद्वा कुष्ठात् सर्ज्जरसस्य वा ।धूपं कुशस्य वा साज्यं पिबेद्धिक्कोपशान्तये
”नैपाली मनःशिला ।“निर्धूमाङ्गारनिःक्षिप्तहिङ्गुमाषं बलोद्भवः ।हिक्कापञ्चापि हन्त्याशु धूमः पीतो संशयः
हरेणूनां कणानाञ्च क्वाथो हिङ्गुसमन्वितः ।हिक्काप्रशमनः श्रेष्ठो धन्वन्तरिवचो यथा
चन्द्रशूरस्य वीजानि क्षिपेदष्टगुणे जले ।यदा मृदूनि गृह्णीयात्ततो वाससि गालयेत्
हिक्कातिवेगविकलस्तज्जलं पलमात्रया ।पिबेत् पुनः पुनश्चापि हिक्कावश्यं प्रशाम्यति
”चन्द्रशूररसः
*
इति हिक्वाधिकारः इतिभावप्रकाशः
वाचस्पत्यम्
Sanskrit
हिक्का स्त्री हिगिति शब्दं करोतीति पृषो० रोगभेदे (हेचकी)अमरः ।तन्निदानादिकं भावप्र० उक्तं यथा“अथ हिक्काधिकारः तत्र हिक्कायाः विप्रकृष्टं नि-दानमाह “विदाहिगुरुविष्टम्भिरूक्षाभिव्यन्दिभोजनैः ।शीतपानाशनस्नानरजोधूमात्तथाऽनिलैः व्यायाम-कर्मभाराध्ववेगाघातापतर्पणैः हिक्का श्वासश्च का-सश्च नृणां समुपजायते” अपतर्पणमनशनादि ।संप्राप्तिमाह “वायुः कफेनानुगतः पञ्च हिक्काः करोतिहि अन्नजां यमलां क्षुद्रां गम्भीरां महतीं तथा” ।सामान्यलक्षणमाह “मुहुर्मुहुर्वायुरुदेति सस्वनः यकृत्-प्लिहान्त्राणि मुखादिवाक्षिपन् सदोषवानाशु हिनस्त्यशून्यतस्ततस्तु हिक्केत्यमिधीयते बुधैः” वायुरत्न सोदानःप्राणो बोद्धव्यः उदेति ऊर्द्ध्वं याति सस्वनःशब्दवान् ऊर्द्ध्वगमनंविशिनष्टि यकृदित्यादि प्लिहइति शब्दोऽप्यस्ति दीर्घत्व विकल्पात् सुखादिति ल्यब्लोपे पञ्चमी तेन यकृत्प्लीहान्त्राणि मुखमानीय आक्षि-पन् निःसारयन् इवेत्यर्थः वायुः दोषवान् दोषोऽत्रकफः तद्वान् वायुः कफेनानुगत इति सम्प्राप्तिः हिन-स्त्रीति हिक्का पृषोदरादित्वाद्रूपसिद्धिः हिगितिशब्दं करोतीति वा पूर्वरूपमाह “कण्ठोरलोर्गुरुत्थञ्चवदनस्य कपायता हिक्कानां पूर्वरूपाणि कुक्षेराटोपएव च” वदनस्य कषायता वातात् अन्नजालक्षण-माह “पानान्नैरतिसंयुक्तैः सहसा पीडितोऽनलः ।हिक्कयत्थूर्द्धगो भूत्वा तां विद्यादन्नजां भिषक्” अ-निलः प्राणो वायुः यमलालिङ्गमोह “चिरेस यम-लैर्वेगैर्या हिक्का सम्प्रवर्त्तते कम्पयन्ती शिरोग्रीवांयमलां तां विनिर्दिशेत्” क्षुद्रामाह “विकृष्टकालैर्या वेगै-र्मन्दैः समभिवर्त्तते क्षुद्रिका नाम सा हिक्का जत्रु-मूलं प्रधावति” विकृष्टकालैः चिरेण जत्रुः कक्षोरसोः सन्धिः भमीरामाह “नाभिप्रवृत्ता या हिक्काघोरा गम्भीरनादिनी अनेकोपद्रववती गम्भीरा नामसा स्मृता” अनेकोपद्रववती तृष्णाज्वरादियुक्ता ।महतीमाह “मर्माणि पीडयन्तीव सततं या प्रवर्त्तते ।महाहिक्केति सा ज्ञेया सर्वगात्रप्रकम्पिनी” मर्माणिवस्तिहृदयशिरःप्रभृतीनि असाध्यत्वमाह “आय-म्यते हिक्कितो यस्य देहो दृष्टिश्चोर्द्ध्वं ताम्यते नित्य-मेव क्षीणोऽन्नद्विट् क्षौति यश्चातिमात्रं तौ द्वौ चान्त्यौवर्जयेद्धिक्कवन्तौ आयम्यते विस्तार्य्यत इव तौ द्वावितिआयम्यत इत्यादिना नित्यमेवेत्यन्तेनैको हिक्कमानः ।क्षीण इत्यादिनाऽतिमात्रमित्यन्तेनापरः तौ द्वौ अन्त्यौच गम्भीरया महतीहिक्कया हिक्कमानौ वर्जयेत् ।अपरञ्च “अतिसञ्चितदोषस्य भक्तद्वेष कृशस्य व्या-धिभिः क्षीणदेहस्य वृद्धस्यातिव्यवायिनः आयासाच्चसमुत्पन्ना हिक्का हन्त्याशु जीवितम् यमिका चप्रलापार्तिमोहतृष्णासमन्विता” साध्यत्वमाह “अखीण-स्याप्यदीनस्य स्थिरधात्विन्द्रियस्य तस्य साधयितुंशक्या यमिका हन्त्यतोऽन्यथा”
Capeller
German
हिक्का u. हिक्विका
f.
= vor. p. p.
Stchoupak
French
हिक्का-
-इका-
f.
hoquet, sanglot.