| YouTube Channel

हाहाः (hAhAH)

 
Wordnet
Sanskrit
Synonyms:
गन्धर्वः, गातुः, दिव्यगायनः, हाहाः
noun
नृत्यगायनादिषु निपुणा देवयोनिः।
"गन्धर्वाः नृत्यगायनेन देवतानां विनोदनं कुर्वन्ति।"
शब्दकल्पद्रुमः
Sanskrit
हाहाः, [स्]
पुं,
देवगन्धर्व्वविशेषः इत्यमर-टीकायां भरतः
हाहाः,
पुं,
देवगन्धर्व्वविशेषः यथा, --“हाहा हूहूश्चैवमाद्या गन्धर्व्वास्त्रिदिवौकसाम्
”इत्यमरः ५५
देवतानां हाहाहूहूविश्वावसुतुम्बुरुचित्ररथ-प्रभृतयो गन्धर्व्वशब्दवाच्याः उपास्योपासक-लक्षणसम्बन्धः अव्युत्पन्नोऽयं हाहाशब्दः ।हाहति शब्दं जहतीति त्रासुसिति हाकोविच् इत्येवं व्युत्पन्ने तु शसाद्यचि धोरालोपो-ऽच्यघावित्यालोपः सात् असि प्रत्यये हाहः-शब्दश्च सान्तोऽपि गन्धर्व्वो हाहसि प्रोक्तोगन्धर्व्वो गायनेऽपि इति साहसाङ्कः गन्धर्व्वपीतिहाहसोरिति वाचस्पतिः हाहाशब्दोऽपिदृश्यते हंहो हाहा हूहू द्वौ वृषणश्चैवतुम्बुरुरिति व्याडिप्रभृतयः इति भरतः
*
विस्मयशब्दे शोकशब्दे व्य यथा, --“ततो हाहा कृतं सर्व्वं दैत्यसैन्यं ननाश तत्
प्रहर्षञ्च परं जग्मुः सकला देवतागणाः
”इति मार्कण्डेयपुराणे देवीमाहात्म्ये ४०