| YouTube Channel

हास्यं (hAsyaM)

 
शब्दकल्पद्रुमः
Sanskrit
हास्यं,
क्ली,
(हस + ण्यत् ।) रसविशेषः चकौतुकोद्भवम् तत्पर्य्यायः हासः हसः ।इत्यमरः १९
हसनम् घर्घरः ५हासिका इति हेमचन्द्रः
*
अथ हासः ।“विकृताकारवाग्वेशचेष्टादेः कुतुकाद् भवेत् ।हास्या हासः स्थायिभावः श्वेतः प्रमथदैवतः
विकृताकारवाक्चेष्टं यदालोक्य हसेज् जनः ।तदत्रालम्बनं प्राहुः तच्चेष्टोद्दीपनं मतम्
अनुभावोऽक्षिसङ्कोचवदनस्मेरतादिकः !निद्रालस्यावहित्थाद्या अत्र स्युर्व्यभिचारिणः
ज्येष्ठानां स्मितहसिते मध्यानां विहसिता-वहसिते ।नीचानामपहसितं तथातिहसितञ्च षड्भेदाः
ईषद्विकासि कथनं स्मितं स्यात् स्यन्दिताधरम् ।किञ्चिल्लक्ष्यद्विजं तत्र हसितं कथितं बुधैः
मधुरस्वरं विहसितं सांसशिरः कम्पमवहसितम् ।अपहसितं सास्राक्षविक्षिप्ताङ्गं भवत्यतिह-सितम्
”यथा मम ।“गुरोर्गिरः पञ्च दिनान्यधीत्यवेदान्तशास्त्राणि दिनद्वयञ्च ।अमी समाघ्राय तर्कपादान्समागताः कुक्कुटमिश्रपादाः
”अस्य नाटकमेलकप्रभृतिषु परिपोषो द्रष्टव्यः ।अत्र ।“यस्य हासः चेत् क्वापि साक्षान्नैव निबध्यते ।तथाप्येष विभावादिसामर्थ्यादुपलभ्यते
अभेदेन विभावादि सावारण्यात् प्रतीयते ।सामाजिकैस्तती हास्यरसोऽयमनुभूयते
”एवमन्येष्वपि रसेषु द्रष्टव्यम् इति साहित्य-दर्पणे परिच्छेदः
*
तस्य शुभाशुभलक्षणंयथा, --“अकम्पं हसितं श्रेष्ठं मीलिताक्षमघापहम् ।असकृद्धसितं दुष्येत् तत् सोन्मादस्य नैकधा
”इति गारुडे ६५ ३५ अध्यायः
(हासयोग्ये, त्रि यथा रघुः ४३ ।संरुद्धचेष्टस्य मृगेन्द्र ! कामंहास्यं वचस्तद्यदहं विवक्षुः
”)