| YouTube Channel

हार्द्दं (hArddaM)

 
शब्दकल्पद्रुमः
Sanskrit
हार्द्दं,
क्ली,
(हृदयस्य भावः कर्म्म वा हृदय +“हायनान्तयुवादिभ्योऽण् ।” १३० ।इत्यण् “हृदयस्य हृल्लेखयदणलासेषु ।” ।३ ५० इति हृदादेशः ।) प्रेम स्नेहः ।इत्यमरः २७
(यथा, महाभारते ।१३ ७१ ५२ ।“गावो लोकांस्तारयन्ति क्षरन्त्योगावश्चान्नं संजनयन्ति लोके ।यस्तज्जानन् गवां हार्द्दमेतिस वै गन्ता निरयं पापचेताः
”अभिप्रायः यथा, भागवते ५५ ।“अर्ज्जुनः सहसाज्ञाय हरेर्हार्द्दमथासिना ।मणिं जहार मूर्द्धन्यं द्विजस्य सह मूर्द्धजम्