| YouTube Channel

हस्तिकर्णः (hastikarNaH)

 
Apte Hindi
Hindi
हस्तिकर्णः
पुं*
हस्तिन्-कर्णः -
एरंड का पौधा
शब्दकल्पद्रुमः
Sanskrit
हस्तिकर्णः,
पुं,
(हस्तिनः कर्णमिव पर्णमस्य ।)एरण्डः पलाशभेदः गणदेवताभेदः इतिमेदिनी
हस्तिकन्दः रक्तैरण्डः इति राज-निर्घण्टः
हस्तिकर्णपलाशस्य गुणाः ।“हस्तिकर्णः परं वृष्यो मेधायुर्बलवर्द्धनः ।”इति राजवल्लभः
अपि ।श्रीहरिरुवाच ।“हस्तिकर्णस्य वै मूलं गृहीत्वा चूर्णयेद्धर ! ।सर्व्वरोगविनिर्म्मक्तं चूर्णं पलशतं शिव !
सक्षीरं भक्षितं कुर्य्यात् सप्ताहेन वृषध्वज ! ।नरं श्रुतिधरं शूरं मृगेन्द्रगतिविक्रमम्
पद्मगौरप्रतीकाशं युक्तं दशशतायुषा ।षोडशाब्दाकृतिं रुद्र ! सततं दुग्धभोजितम्
मधुसर्पिःसमायुक्तं जग्धमायुष्करं भवेत् ।तज्जग्धं मधुना सार्द्धं दशवर्षसहस्रिणम्
कुर्य्यान्नरं श्रुतिधरं प्रमदाजनवल्लभम् ।दध्ना नित्यं भक्षितन्तु वज्रदेहकरं शिव !
कृष्णकेशसमायुक्तं नरं वर्षसहस्रिणम् ।तच्च काञ्जिकसंयुक्तं नरं कुर्य्याच्च भक्षितम्
शतवर्षं दिव्यदेहं बलीपलितवर्ज्जितम् ।जग्धं त्रिफलया युक्तं चक्षुष्मन्तं करोति वै
अन्धः पश्येत्तु चूर्णस्य सांज्यस्यैव तु भक्षणात् ।महिषक्षीरसंयुक्तं तल्लेपः-कृष्णकेशकृत्
खल्लीटस्य वै केशा भवन्ति वृषभध्वज ! ।तैलयुक्तेन चूर्णेन बलीपलितवर्ज्जितम्
तदुद्वर्त्तनमात्रेण सर्व्वरोगैः प्रमुच्यते ।सच्छागक्षीरचूर्णेन दृष्टिः षण्मासतोऽञ्जनात्
”इति गारुडे १० अध्यायः