हस्तामलक (hastAmalaka)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishMonier Williams Cologne
EnglishApte Hindi
Hindiहस्तामलकम्
हस्तः-आमलकम् -
"`हाथ में रक्खा आंवले का फल' यह एक वाग्धारा है, और उस समय प्रयुक्त होती है जब कभी ऐसी बात का निर्देश करना हो तो बिल्कुल स्पष्ट और अनायास हो बोधगम्य हो "
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
L R Vaidya
EnglishAufrecht Catalogus Catalogorum
Englishपुराणम्
Englishहस्तामलक / HASTĀMALAKA. A disciple of Śrī śaṅkara. (See under śaṅkarācārya, para 7).
शब्दकल्पद्रुमः
Sanskritहस्तामलकं, (हस्तस्थितं आमलकम् ।)करस्थितामलकीफलम् । (यथा, रामायणे ।“त्वया दृष्टं जगत्सर्व्वं हस्तामलकवत् सदा ॥
”)वेदान्तग्रन्थविशेषः । तल्लिख्यते । श्रीमच्छङ्करा-चार्य्यस्य दिग्विजयसमये पथिमध्ये कञ्चित्बालकं प्रति प्रश्नः ।“कस्त्वं शिशो ! कस्य कुतोऽसि गन्ताकिं नाम ते त्वं कुत आगतोऽसि ।एतद्वद त्वं मम सुप्रसिद्धंमत्प्रीतये प्रीतिविवर्द्धनोऽसि ॥
”बालकस्योत्तरम् ।“नाहं मनुष्यो न च देवयक्षोन ब्राह्मणक्षत्त्रियवैश्यशूद्राः ।न ब्रह्मचारी न गृही वनस्थोभिक्षुर्न चाहं निजबोधरूपः ॥
”एतस्य श्लोकस्य शङ्कराचार्य्येण भाष्यं न कृतम् ॥
“निमित्तं मनश्चक्षुरादिप्रवृत्तौनिरस्ताखिलोपाधिराकाशकल्पः ।रविर्लोकचेष्टानिमित्तं यथा यःस नित्योपलब्धिस्वरूपोऽहमात्मा ॥
१ ॥
यमग्न्युष्णवन्नित्यबोधस्वरूपंमनश्चक्षुरादीन्यबोधात्मकानि ।प्रवर्त्तन्त आश्रित्य निष्कम्पमेकंस नित्योपलब्धिस्वरूपोऽहमात्मा ॥
२ ॥
मुखाभासको दर्पणे दृश्यमानोमुखत्वात् पृथक्त्वेन नैवास्ति वस्तु ।चिदाभासको धीषु जीवोऽपि तद्वत्स नित्योपलब्धिस्वरूपोऽहमात्मा ॥
३ ॥
यथा दर्पणाभाव आभासहानौमुखं विद्यते कल्पनाहीनमेकम् ।तथा धीवियोगे निराभासको यःस नित्योपलब्धिस्वरूपोऽहमात्मा ॥
४ ॥
मनश्चक्षुरादेर्विमुक्तः स्वयं योमनश्चक्षुरादेर्मनश्चक्षुरादिः ।मनश्चक्षुरादेरगम्यस्वरूपःस नित्योपलब्धिस्वरूपोऽहमात्मा ॥
५ ॥
य एको विभाति स्वतः शुद्धचेताःप्रकाशस्वरूपोऽपि नानेव धीषु ।शरावोदकस्थो यथा भानुरेकःस नित्योपलब्धिस्वरूपोऽहमात्मा ॥
६ ॥
यथानेकचक्षुः प्रकाशी रविर्नक्रमेण प्रकाशीकरोति प्रकाश्यम् ।अनेका धियो यस्तथैकप्रबोधःस नित्योपलब्धिस्वरूपोऽहमात्मा ॥
७ ॥
विवस्वत्प्रभातं यथा रूपमक्षंप्रगृह्णाति नाभातमेवं विवस्वान् ।यथा भात आभासयत्यक्षमेकःस नित्योपलब्धिस्वरूपोऽहमात्मा ॥
८ ॥
यथा सूर्य्य एकोऽप्स्वनेकश्चलासुस्थिरास्वप्यनन्वन्विभाव्यस्वरूपः ।चलासु प्रभिन्नासु धीष्वेक एवंस नित्योपलब्धिस्वरूपोऽहमात्मा ॥
९ ॥
घनच्छन्नदृष्टिर्घनच्छन्नमर्कयथा निष्प्रभं मन्यते चातिमूढः ।तथा बद्धवद्भाति यो मूढदृष्टेःस नित्योपलब्धिस्वरूपोऽहमात्मा ॥
१० ॥
समस्तेषु वस्तुष्वनुस्यूतमेकंसमस्तानि वस्तूनि यन्न स्पृशन्ति ।वियद्वत् सदा शुद्धमच्छस्वरूपंस नित्योपलब्धिस्वरूपोऽहमात्मा ॥
११ ॥
उपाधौ यथा भेदता सन्मणीनांतथा भेदता बुद्धिभेदेषु तेषु ।यथा चन्द्रकाणां जले चञ्चलत्वंतथा चञ्चलत्वं तवापीह विष्णो ॥
” १२ ॥
इति हस्तामलकं समाप्तम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
