| YouTube Channel

हसे (hase)

 
धातुपाठः (Krishnacharya)
Sanskrit
धातुः:
हस्
मूलधातुः:
हसे
धात्वर्थः:
हसने
गणः:
भ्वादिः
कर्मकत्वं:
अकर्मकः
इट्त्वं:
सेट्
उपग्रहः:
परस्मैपदी
रूपम्:
हसति
अनुबन्धादिविशेषः:
एदित्
धातुप्रदीपः
Sanskrit
हसेँ हसे हसने
- हसति जहास अहसीत् हसः हासः (77) स्वनहसोर्वा (6/3/62) इत्यब् वा ।। 721 ।।
क्षीरतरङ्गिणी
Sanskrit
हसेँ हसे हसने
- हसति व्यतिहारे हसादीनां प्रतिषेधः (द्र0 1315 वा0) व्यतिहसन्ति ह्म्यन्तक्षण (725) इत्येदित्वाद् वृद्धिर्नास्ति- अहसीत् स्वनहसोर्वा (3362) अप्-हसः, हासः स्फायि (उ0 213) इति रक्- हस्रो दिनम् हसिमृग्रिण (उ0 386) इति तन्-हस्तः 701
धातुवृत्तिः
Sanskrit
हसेँ हसे (अर्थः) हसने
( हसति जहास अहसीत् "ह्म्येन्तक्षण'' इत्यादिना वृद्धिनिषेधः ( व्यतिहसन्ति ) [प्रतिषेधे हसादीनामुपसंङ्ख्यानम्.] इति तङ्गिषेधः ( हसः ) "स्वनहसोर्वा'' इत्यनुपसृष्टात् पक्षे अप् तदभावे घञ् (हासः) उपसृष्टात् तु नित्यं घञेव (प्रहास इति ) (हस्तः) हसिमृग्रिण्'' इत्यादिना तन् "तितुत्रेति'' इण्निषेधः हस्तोस्यास्तीति (हस्ती)''हस्ताज्जातौ''इति इन् प्रत्ययः हस्तिनां समूहो (हास्तिकम् ) "अचित्तहस्तिधेनोष्ठक्'' इति ठक् "नस्तद्धिते'' इति टिलोपः लिङ्गविशिष्टपरिभाषया हस्तिनीशब्दादपि ठकि "भस्याढे तद्धिते'' इति पुंवदृभावः (हास्तिकमित्येव) हस्तिधेनुभ्यां तदन्विधेरिष्टत्वात् (वानहस्तिकम्)इत्या_यपि भवति हस्ति प्रमाणमस्य (हास्तिनः पुरुषः) पुरुषहस्तिभ्यामतण् च'' इति प्रथमान्तात् प्रमाणोपाधिकात् अस्येत्यर्थेऽण्प्रत्ययः चकाराद्वयसच्दघ्रञ्मात्रचो भवन्ति (हस्तिद्वयसम् हस्तिदध्रम् हस्तिमात्रमिति ) अणि "नस्तद्धिते'' इति टिलोपः"हनण्यनपत्ये'' इति प्रकृतिभावान्न भवति हस्तेनदीयते कार्यं वा (हस्त्यम्) "तेन यथाकथाचहस्तभ्यां णयतौ'' इति तृतीयान्तात् दीयते कार्यमिति एतयोरर्थयोर्यत् हस्ते नक्षत्रे जातो (हस्तः) नक्षत्राणः "श्रविष्ठाफल्गुनी'' इत्यादिना लुक् (हस्त्रं मुखम् ) "स्फायितञ्चि'' इत्यादिना रक् 708
कृदन्तरूपमाला
Sanskrit
1 {@“हसे हसने”@} 2 3 व्यतिहसन्-न्ती, 4 हसः-हासः, प्रहासः, 5 व्यावहासी, 6 हस्तः, हस्त्रः, इति विशेष- रूपाणि।
सामान्यरूपाणि सर्वाणि कख 7 धातुवत् बोध्यानि।
प्रासङ्गिक्यः
01
=>
(१९९७)
02
=>
(१-भ्वादिः-७२१। अक। सेट्। पर।)
03
=>
[[१। ‘प्रतिषेधे हसादीनामुपसंख्यानम्’ (वा। १-३-१५) इति कर्मव्यतीहारत्वप्रयुक्ता- त्मनेपदनिषेधात् परस्मैपदं शता।]]
04
=>
[[२। अनुपसृष्टादस्मात् पक्षे ‘स्वनहसोर्वा’ (३-३-६२) इति अप्। पक्षे हासः। सोपसृष्टात् तु ‘प्रहासः’ इति।]]
05
=>
[[३। ‘कर्मव्यतिहारे णच् स्त्रियाम्’ (३-३-४३) इति णच् स्त्रियाम्। ‘णचस्त्रियामञ्’ (५-४-१४) इति अञ्। ङीप्। व्यावहासी = परस्परं हास इत्यर्थः। स्त्रीत्वं स्वाभाव्यात्।]]
06
=>
[[४। ‘हसिमृ--’ (द। उ। ६-७) इत्यादिना तन्प्रत्ययः। ‘तितुत्र--’ (७-२-९) इति इण्निषेधः। हस्तः = करः, एतन्नामको नक्षत्रविशेषो वा।]]
07
=>
(१४१)