| YouTube Channel

हविष्यान्नं (haviSyAnnaM)

 
शब्दकल्पद्रुमः
Sanskrit
हविष्यान्नं,
क्ली,
(हविष्यमन्नम् ।) व्रतादौ भक्ष-णीयद्रव्यविशेषः यथा, स्मृतिः ।“हैमन्तिकं सितास्विन्नं धान्यं मुद्गास्तिला यवाः ।कलायकङ्गुनीवारा वास्तूकं हिलमोचिका
षष्टिका कालशाकञ्च मूलकं केमुकेतरत् ।लवणे सैन्धवसामुद्रे गव्ये दधिसर्पिषी
पयोऽनुद्धृतसारञ्च पनसाम्रहरीतकी ।तिन्तिडी जीरकञ्चैव नागरङ्गकपिप्पली
कदली लवली धात्री फलान्यगुडमैक्षवम् ।अतैलपक्वं मुनये हविष्यान्नं प्रचक्षते
”अत्रास्विन्नमित्युपादानादन्यत्र स्विन्नधान्यतण्डु-लेम दोषः हैमन्ति कमित्यभिधाय अगस्त्य-संहितायाम् ।“नारिकेलफलञ्चैव कदलीं लवलीन्तथा ।आम्रमामलकञ्चैव पनसञ्च हरीतकीम् ।व्रतान्तरप्रशस्तञ्च हविष्यं मन्वते बुधाः
”इति तिथ्यादितत्त्वम्