| YouTube Channel

हर्त्ता (harttA)

 
शब्दकल्पद्रुमः
Sanskrit
हर्त्ता, [ऋ]
पुं,
(हरति ध्वान्तमिति हृ + तृच् ।)सूर्य्यः यथा, --“लोकसाक्षी त्रिलोकेशः कर्त्ता हर्त्ता तमिस्रहा ।तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः
”इति शाम्बपुराणे सूर्य्यस्तवः
हरणकर्त्तरि, त्रि
(यथा, भागवते २४ ।“अन्तर्धानो नभस्वत्यां हविर्धानमविन्दत ।य इन्द्रमश्वहर्त्तारं विद्वानपि जघ्निवान्
”)