| YouTube Channel

हरिहरः (hariharaH)

 
Apte Hindi
Hindi
हरिहरः
पुं*
हरि-हरः -
विष्णु और शिव की एक संयुक्त देवमूर्ति
Wordnet
Sanskrit
Synonyms:
हरिहरः
noun
पुरुषनामविशेषः
"हरिहरः इति नामकां नैकेषां पुरुषाणाम् उल्लेखः तत्त्वसमासे क्षितीश-वंशावली-चरिते अस्ति"
शब्दकल्पद्रुमः
Sanskrit
हरिहरः,
पुं,
(हरिणा सह हरः ।) संयुक्तहरिहरमूर्त्तिः यथा, --पुलस्त्य उवाच ।“विमुक्तपापा देवेशं वासुदेवमथाब्रुवन् ।क्वासौ वद जगन्नाथ ! शम्भुस्तिष्ठति केशव ।यं क्षीराद्यभिषेण स्नापयामो विधानतः
अथोवाच सुरान् विष्णुरेष तिष्ठति शङ्करः ।मद्देहे किन्न पश्यध्वं योगप्रायं प्रतिष्ठितम्
तमूचुर्नैव पश्यामस्त्वत्तो वै त्रिपुरान्तकम् ।सत्यं वद सुरेशान ! महेशानः क्व तिष्ठति
ततोऽव्ययात्मा हरिः स्वहृत्पङ्कजशायिनम् ।दर्शयामास देवानां मुरारिर्लिङ्गमैश्वरम्
ततः सुराः क्रमेणैव क्षीरादिभिरनन्तरम् ।स्नापयाञ्चक्रिरे लिङ्गं शाश्वतं ध्रुवमव्ययम्
गोरोचनया त्वालिप्य चन्दनेन सुगन्धिना ।विल्वपत्राम्वुजैर्द्देवं पूजयामासुरञ्जसा
पूजयित्वा गुरुं भक्त्या निवेद्य परमौषधीः ।जप्त्वाष्टशतनामानि प्रणामं चक्रिरे ततः
इत्येवं चिन्तयन्तश्च देवा देवौ हराच्युतौ ।कथं योगत्वमापन्नौ संराध्यतममात्मनः
सुराणां चिन्तितं ज्ञात्वा विश्वमूर्त्तिरभूद्विभुः ।सर्व्वलक्षणसंयुक्तः सर्व्वायुधधरोऽव्ययः
सार्द्धं त्रिनेत्रं कमलाहिकुण्डलंजटामहाभारशिरोजमण्डितम् ।हरिं हरञ्चैव नगेन्द्रभूषणंपीताजिनाच्छन्नकटिप्रदेशकम्
चक्रासिहस्तं घनुःशार्ङ्गपाणिंपिनाकशूलाजगवान्वितञ्च ।कन्दर्पखट्टाङ्गकपालघण्टा-सशङ्खचक्राब्जधरं महर्षे !
दृष्ट्वैव देवा हरिशङ्करं तंनमोऽस्तु ते सर्व्वगताव्ययेति
”इति वामनपुराणे ५९ अध्यायः
*
शिवविष्णोरभेदेनार्च्चकस्य रूपन्त्वेवम् यथा, --“निरामया नाम गणाः समायाता जगद्-गुरो ।सार्द्धद्विनेत्राः पद्माक्षाः श्रीवत्साङ्कितवक्षसः
समायाताः खगारूढा वृषभध्वजिनोऽव्ययाः ।महापाशुपता नाम शूलचक्रधारास्तथा ।भैरवो विष्णुना सार्द्धमभेदेनार्च्चितो हि यैः
”इति तत्रैव ६४ अध्यायः
अन्यच्च ।“अथवा विष्णुरूपेण पूजयेच्चेश्वरं सदा ।शङ्करं वामभागस्थं सर्व्वकाममवाप्नुयात्
”इति देवीपुराणे १२ अध्यायः