| YouTube Channel

हरिशयनं (harizayanaM)

 
शब्दकल्पद्रुमः
Sanskrit
हरिशयनं,
क्ली,
(हरेः शयनम् ।) श्रीहरेर्निद्रा ।यथा उपनयने दीपिकायाम् ।“जीवार्केन्दूडशुद्धौ हरिशयनबहिर्भास्करे चोत्त-रस्थेस्वाध्याये वेदवर्णाधिप इह श्रुभदे क्षौरभेनादितौ ।”इत्यादि ज्योतिस्तत्त्वम्
*
तद्विधिर्यथा वामनपुराणे ।“एकादश्यां जगत्स्वामिशयनं परिकल्पयेत् ।शेषाहिभोगपर्य्यङ्कं कृत्वा संपूज्य केशवम्
अनुज्ञां ब्राह्मणेभ्यश्च द्वादश्यां प्रयतः शुचिः ।लब्ध्वा पीताम्बरधरं देवं निद्रां समानयेत्
”अनुज्ञां लब्ध्वेत्यन्वयः एकादशीसमये दिवाशयनं परिकल्पयेत् रात्रौ द्वादशीक्षणेनिद्रेति
*
व्यक्तं वाराहे ।“आषाढशुक्लद्वादश्यां पौर्णमास्यामथापि वा ।चातुर्म्मास्यव्रतारम्भं कुर्य्यात् कर्क्कटसंक्रमे
अभावे तु तुलार्केऽपि मन्त्रेण नियमं व्रती ।कार्त्तिके शुक्लद्वादश्यां विधिवत्तत् समापयेत्
चतुर्धापि हि तच्चीर्णं चातुर्म्मास्यं व्रतं नरः ।कार्त्तिक्यां शुक्लपक्षे तु द्वादश्यां तत्समापयेत्
”मात्स्ये ।“चतुरो वर्षिकान् मासान् देवस्योत्थापना-वधि ।मधुस्वरो भवेन्नित्यं नरो गुडविवर्ज्जिनात्
तैलस्य वर्ज्जनादेव सुन्दराङ्गः प्रजायते ।कटुतैलपरित्यागात् शत्रुनाशः प्रजायते
लभते सन्ततिं दीर्घां स्थालीपाकमभक्षयन् ।सदा मुनिः सदा योगी मधुमांसस्य वर्ज्जनात्
निराधिर्नीरुगोजस्वी विष्णुभक्तश्च जायते !एकान्तरोपवासेन विष्णुलोकमवाप्नुयात्
धारणान्नखलोम्नाञ्च गङ्गास्नानं दिने दिने ।ताम्बूलवर्ज्जनाद्भोगी रक्तकण्ठश्च जायते
घृतत्यागात् सुलावण्यं सर्व्वं स्निग्धं वपुर्भवेत् ।फलत्यागात्तु मतिमान् बहुपुत्त्रश्च जायते
नमो नारायणायेति जप्त्वानशनजं फलम् ।पादामिवन्दनाद्विष्णोर्लभेद्गोदानजं फलम् ।एवमादिव्रतैः पार्थ ! तुष्ठिमायाति केशवः
*सनत्कुमारः ।“इदं व्रतं मया देव ! गृहीतं पुरत्नस्तव ।निर्व्विघ्नां सिद्धिमाप्नोतु प्रसन्ने त्वयि केशव !
गृहीतेऽस्मिन् व्रते देव ! यद्यपूर्णे त्वहं म्रिये ।तन्मे भवतु संपूर्णं त्वत्प्रसादाज्जनार्द्दन !
”समाप्तौ ।“इदं व्रतं मया देव ! कृतं प्रीत्यै तव प्रभो ! ।न्यूनं संपूर्णतां यातु त्वत्प्रसादाज्जनार्द्दन !
*
अत्रैव यतिमधिकृत्य काठकगृह्यम् ।“एकरात्रं वसेद् ग्रामे नगरे पञ्चरात्रकम् ।वर्षाभ्योऽन्यत्र वर्षासु मासांश्च चतुरो वसेत्
”एतदशक्तविषयम् ऊर्द्धं वार्षिकाभ्यां मासाभ्यांनैकस्थानवासीति शङ्खोक्तेः
*
मात्स्ये ।“शेते विष्णुः सदाषाढे भाद्रे परिवर्त्तते ।कार्त्तिके परिबुध्येत शुक्लपक्षे हरेर्द्दिने
”भविष्यनारदीययोः ।“मैत्राद्यपादे स्वपितीह विष्णु-र्वैष्णव्यमध्ये परिवर्त्तते ।पौष्णावसाने सुरारिहन्ताप्रबुध्यते मासचतुष्टयेन
”मैत्रमनुराधा वैष्णव्यं श्रवणा पौष्णं रेवती
*
भविष्ये ।“निशि स्वापो दिवोत्थानं सन्ध्यायां परिवर्त्त-नम् ।अन्यत्र पादयोगेऽपि द्वादश्यामेव कारयेत्
”अन्यत्र स्वापादिविहितरात्र्यादीतरकाले दश-मीप्रदीपदोश्च ।“किं तन्मैत्राद्यपादेन दशम्यंशेन यो दिवा ।पौष्णशेषेण किन्तेन प्रतिपद्यथ यो निशि
”दशम्यंशेन दशम्या अंशो यत्र पादे तेन यःपादो दिवा प्राप्तस्तेन वा किम् अत्रदशमीप्रतिपदोर्व्वर्ज्जनात् तदितरैकादश्यादि-पञ्चतिथिषु मैत्रादिनक्षत्रपादविशेषलाभेद्वादशीं विनापि शयनादिरिति प्रतीयते
*
वचनान्तरम् ।“रेवत्यन्तो यदा रात्रौ द्वादश्या समायुतः ।तदा विबुध्यते विष्णुर्द्दिनान्ते प्राप्य रेवतीम्
”दिनान्तेत्रिधाविभक्तदिनतृतीयभागे दिवो-त्थानमित्यनुरोधात् विष्णुधर्म्मोत्तरे ।“विष्णुर्द्दिवा स्वपिति रात्रौ प्रबुध्यते ।द्वादश्यामृक्षसंयोगे पादयोगो कारणम्
अप्राप्ते द्वादशीमृक्षे उत्थानशयने हरेः ।पादयोगेन कर्त्तव्ये नाहोरात्रं विचिन्तयेत्
”वराहपुराणम् ।“द्वादश्यां सन्धिसमये नक्षत्राणामसम्भवे ।आ-भा-का-सितपक्षेषु शयनावर्त्तनादिकम्
”आ-भा-कानां आषाढभाद्रकार्त्तिकानाम्
*
यतश्च द्वादश्यां निशादौ नक्षत्रमात्रयोगात् ।द्वादश्यामृक्षाभावे तिथ्यन्तरे निशाद्यनादरेणपादविशेषयोगात् तद्भावे द्वादश्यां सन्ध्याया-मेव शयनादिकम् बोधनन्तु द्वादश्यां रात्ररवत्यन्तपादयोगे दिनतृतीयभागे इति विशेषः
शयने मन्त्रमाह वराहपुराणम् ।“नमो नारायणायेत्युक्त्वा इमं मन्त्रमुदीरयेत् ।पश्यन्तु मेघान्यपि मेघश्यामंह्युपागतं सिच्यमानं महीमिमाम् ।निद्रां भगवान् गृह्णातु लोकनाथवर्षास्विमं पश्यतु मेघवृन्दम्
ज्ञात्वा पश्यैव देवनाथमासाश्चत्वारि वैकुण्ठस्य तु पश्यनाथ !
”ततश्च ।“सुप्ते त्वयि जगन्नाथे जगत् सुप्तं भवेदिदम् ।विबुद्धे त्वयि बुध्येत जगत् सर्व्वं चराचरम्
”इत्यनेन पूजयेत्
*
पार्श्वपरिवर्त्तने तु ।“वासुदेव जगन्नाथ प्राप्तेयं द्वादशी तव ।पार्श्वेन परिवर्त्तस्व सुखं स्वपिहि माधव !
”इति पठेत्
“त्वयि सुप्ते जगन्नाथे जगत् सुप्तं भवेदिदम् ।विबुद्धे त्वयि बुध्येत जगत् सर्व्वं चराचरम्
”इत्यनेन पूजयेत्
नैयतकालिककल्पतरौ ब्रह्मपुराणम् कार्त्तिक-शुक्लपंक्षमधिकृत्य ।“उपवासः प्रकर्त्तव्य एकादश्यां प्रजागरः ।द्वादश्यां वासुदेवश्च पूजितव्यः प्रयत्नतः
*
उत्थानमन्त्रस्तु ।महेन्द्ररुद्रैरभिनूयमानोभवानृषिर्बन्दितवन्दनीयः ।प्राप्ता तवेयं किल कौमुदाख्याजागृष्व जागृष्व लोकनाथ !
मेघा गता निर्म्मलपूर्णचन्द्रःशारद्यपुष्पाणि लोकानाथ ! ।अहं ददानीति पुण्यहेतो-र्ज्जागृष्व जागृष्व लोकानाथ !
”ततः ।“उत्तिष्ठोत्तिष्ठ गोविन्द त्यज निद्रां जगत्पते !त्वया चोत्थीयमानेन उत्थितं भुवनत्रयम्
”इति पठित्वा पूजयेत्
इति तिथ्यादित्त्वम्